श्रीरामरङ्गिदेवाचार्याष्टकम्
सम्पादकं च शिष्याणां संस्कारपञ्चकस्य हि ।
श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
वेदान्तवेदिनं प्राज्ञं विशिष्टाद्वैतवादिनम् ।
श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
रामभक्तिप्रदं सिद्धं सिद्धवृन्देन वन्दितम् ।
श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
श्रीरामानन्दीयसिद्धान्तसिन्धुपूर्णविधुं बुधम् ।
श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
तारकादिरहस्याणां रहस्यज्ञं तपोनिधिम् ।
श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
श्रीमदानन्दभाष्याणां मर्मविच्छोकहारकम् ।
श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
रामस्य कीर्त्तनासक्तं रामाराधनतत्परम् ।
श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
श्रीमद्वैष्णवधर्मस्य शिक्षकं चाथ रक्षकम् ।
श्रीरामरङ्गिणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीरामरङ्गिदेवाचार्याष्टकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey