॥ श्रीरमण परविद्योपनिषत् ॥

श्रीलक्ष्मणशर्मणा विरचिता मङ्गलं अहंस्वरूपेण समस्तजन्तो- र्विभान्तमन्तर्विभुमप्रमेयम् । गुरुं गुरूणामजमादिदेवं वन्दामहे श्रीरमणं दयाब्धिम् ॥ ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ १॥ माण्डूक्यमुख्योपनिषत्सु दिष्टा ज्ञानाभिधा या सहजात्मनिष्ठा । ससाधना तेन निजानुभूत्या सन्दर्शिता सा प्रतिपाद्यतेऽत्र ॥ २॥ समीक्ष्य सांसारिकजीवनस्य दुःखात्मतां कामभयाश्रयत्वात् । द्वाभ्यां विमुक्तं गुरुमेत्य बुद्धं विमुक्तिमार्गं प्रणिपत्य पृच्छेत् ॥ ३॥ ब्रूयात् स बुद्धः परमं रहस्यं समस्तबुद्धानुभवप्रसिद्धम् । जानासि चेत् स्वं न तवास्ति दुःखं दुःखी भवेस्त्वं यदि वेत्सि न स्वम् ॥ ४॥ यतः सुषुप्तौ न तवास्ति दुःखं त्वयीदमारोपितमेव नान्यत् । जिज्ञासया स्वं समवेत्य सत्यं निजस्वरूपे सुखरूप आस्स्व ॥ ५॥ अर्थोऽयमेवं गुरुणोपदिष्टः सारः समस्तश्रुतिशीर्षवाचाम् । अस्योपदेशस्य हि विस्तरेण व्याख्यैव सर्वा निगमान्तवाणी ॥ ६॥ ज्ञानस्वरूपं निजसत्यमेकं स्वयम्प्रकाशं हृदि सत्यमस्ति । संशान्तचित्तेन हृदिस्थितिर्या सा तस्य बोधोऽपि विमुक्तिभावः ॥ ७॥ आत्मस्वरूपा हृदि भासमाना सदैकरूपा विमला चितिश्च । ब्रह्माभिधानं जगतोऽखिलस्या- प्याधारसत्यं द्वयमेकमेव ॥ ८॥ आधारसत्ये विमले तु तस्मिन् निजस्वरूपे मनसोपक्लृप्तम् । अविद्यया विश्वममुं निमील्य भाति स्वयं सत्यवदज्ञतायाम् ॥ ९॥ निमील्य रज्जुं भुजगः स्वयं सन् मन्दान्धकारे सति भाति यद्वत् । आत्मानमेवं भुवनं निमील्य भाति स्वयं सत्यवदज्ञतायाम् ॥ १०॥ अविद्ययाऽऽत्मा वपुषा मितश्च सुखी च दुःखी भवपाशबद्धः । प्रतीयतेऽज्ञोऽपि पृथक् परस्मा- दात्मा तु साक्षात्पर एव नान्यः ॥ ११॥ संसारिता स्वस्य ततो मृषैव बुध्येत तन्निर्मनने पदे तु । ``नह्यस्त्यविद्या मनसोऽतिरिक्ता मनोह्यविद्या भवबन्धरूपा” ॥ १२॥ वीक्ष्याहिमीक्षेत यथा न रज्जुं विश्वं सजीवेश्वरमात्मरूपे । अविद्ययाऽऽरोपितमीक्षमाणो न वीक्षते स्वं परमार्थसत्यम् ॥ १३॥ निमीलतः स्वो भवितैव ताव- द्यावत् स्वतः सत्यमिदं विभाति । तथा न भायान्मनसि प्रणष्टे नाशाय तस्मान्मनसो यतेत ॥ १४॥ निमीलितं स्वं मनसा तमेनं मिथ्याप्रपञ्चप्रविकल्पनेन । स्वान्वेषणेनात्मनि निष्ठितः सन्नुन्मील्य तस्मिन्प्रविलापयेद्यः ॥ १५॥ मनोऽप्यविद्यामखिलं प्रपञ्चं तेनानुभूयेत निजं स्वरूपम् । संसारहीनं निरुपाधिकं च ब्रह्मात्मकं केवलमद्वितीयम् ॥ १६॥ भीत्याऽथवा जन्ममृतिप्रवाहात् प्रपद्यते चेच्छरणं महेशम् । नश्येदविद्या कृपयैव तस्य तदा स्थितः स्यान्निजसत्यभावे ॥ १७॥ भक्त्या परस्मै स्वनिवेदनं यत् प्रपत्तिमेतां निगदन्ति सन्तः । तद्भक्तिरीशे नवधोपदिष्टा कार्यामुमुक्षोः श्रवणादिरूपा ॥ १८॥ Quote - Srimad Bhagavatam श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ निष्ठाचला सा निजसत्यभावे ज्ञानं विमुक्तिः सहजा स्थितिश्च । स्थितोऽचलस्तत्र पदे परस्मिन् निरस्तमोहो भवति प्रबुद्धः ॥ १९॥ निष्ठां परं तामधिगत्य बुद्धो जीवच्छरीरोऽपि विमुक्त एव । करोत्यहन्तां ममतां न देहे बुद्धो ह्यतोऽसावशरीर एव ॥ २०॥ यन्निर्मनस्कं पदमेवमुक्तं सुखं तदात्यन्तिकमन्तहीनम् । सुखं समावृत्य मनः स्वयं हि सदैव दुःखं विवृणोति जन्तोः ॥ २१॥ ऋजुः शुचिः सत्यवचा अमानी धीरो विरक्तश्च गुरौ सुभक्तः । शमादिषट्केन युतो मुमुक्षुः स्थितिं परां तामचिराल्लभेत ॥ २२॥ धीरक्षणं यद्विदधाति साधु- र्निर्गृह्य वृत्तीर्निजमार्गणाय । तदेव धीरत्वमिहोपदिष्टं नापेक्षतेऽन्या खलु धीरताऽत्र ॥ २३॥ भजेत् प्रबुद्धं हि गुरुं मुमुक्षुः स्वाज्ञाननिद्रोत्थितमस्तमोहम् । कथं नु मर्त्यः स्वयमप्रबुद्धः प्रबोधयेदन्यनरानबुद्धान् ॥ २४॥ ईशादभेदेन कृतैव बुद्धे गुरौ सुभक्तिर्गदिताऽत्र साधोः । निर्मोहितामेत्यचिरात् तयैव बुद्धः परस्मान्नहि कश्चिदन्यः ॥ २५॥ शमो दमश्चोपरतिस्तितिक्षा श्रद्धा गुरोर्वाचि समाहितत्वम् । विधीयते षट्कमिदं मुमुक्षोः स्थिरं भवेद्येन मनो गवेषे ॥ २६॥ Quote - tr. of Maharshi's Tamil work विश्रान्तिं जठरस्य मे न वितरस्येकां च नाडीमहो नानश्नन् दिवसे च तिष्ठसि कदाप्येकामहो नाडिकाम् । नो जानासि मदीयदुःखमतुलं हे दुर्विनीत त्वया । साकं जीवनमत्र देहनिलये मे दुर्घटं सम्प्रति ॥ निजस्वरूपानुभवैकवेद्यं तन्नेति नेतीत्युदितं पदं हि । वाचाऽप्यनुक्तं मनसाऽमतं च मौनोपदिष्टं गुरुणाऽऽदिमेन ॥ २७॥ अतीत्य यज्जागरमुख्यभावां- स्तन्निष्प्रपञ्चं भवति प्रशान्तम् । अतस्तुरीयं पदमव्ययं तद्- इत्येष माण्डूक्यनिरूपितार्थः ॥ २८॥ तिस्रो ह्यवस्थाः प्रभवन्ति जाग्रत् स्वप्नः सुषुप्तिश्च समस्तजन्तोः । आधारभूता त्रितयस्य चास्य स्वाज्ञानरूपाऽस्ति सुषुप्तिरन्या ॥ २९॥ अस्मिन्नवस्थात्रितये समस्त- मन्तर्भवत्येव हि विश्वमेतत् । अस्मादवस्थात्रितयात् परस्ता- दलौकिकं ह्यस्ति तुरीयसत्यम् ॥ ३०॥ अस्वप्ननिद्रेति सुषुप्तिरुक्ता सस्वप्ननिद्रेप्युभयं तदन्यत् । अनिद्रमस्वप्नकमस्तविश्वं पदं तुरीयं हि विमुक्तिधाम ॥ ३१॥ सन्धौ सुषुप्तेरथ जागरस्य चिद्रूपिणी निर्मनना स्थितिर्या । सा सुस्थिरा चेद् भविता कथञ्चित् सैवोच्यते मुक्तिरिति प्रबुद्धैः ॥ ३२॥ Quote - from Yoga Vasishtha निद्रादौ जागरस्यान्ते यो भाव उपजयते । तं भावं भावयन् साक्षादक्षयानन्दमश्नुते ॥ अज्ञाननिद्रापरिभूतभावाः पश्यन्ति दुस्स्वप्नमिमं प्रपञ्चम् । परिभ्रमन्ति त्रितयेऽत्र जीवा यावन्न निद्रेयमपैति बोधात् ॥ ३३॥ निद्रालुरेवं सकलोऽपि जन्तु- र्न कोऽपि जागर्ति हि जीवलोके । तीर्णस्तिसृभ्योऽज्ञतया विमुक्तो बुद्धस्तु जागर्ति तुरीयनिष्ठः ॥ ३४॥ जागर्ति बुद्धो निजसत्यभावे समेत्य निष्ठां तमसा विहीने । निद्राति च स्वप्नमये प्रपञ्चे स्वाज्ञानमूढैः परिदृश्यमाने ॥ ३५॥ तन्नक्तमुक्तं विदुषो हि विश्वं नक्तं तथाऽऽत्माऽविदुषो जनस्य । निष्ठामतस्तां सहजां तुरीयां जाग्रत्सुषुप्तिं निगदन्ति बुधाः ॥ ३६॥ Quote - from BhagavadGita या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ सज्जाग्रदादित्रयमस्ति येषां तेषां तुरीयाभिधया तदुक्तम् । सत् तुर्यमेवासदिदं त्रयं यत् तुर्याभिधा तस्य भवत्यसाधु ॥ ३७॥ स्वप्नेऽपि जाग्रत्यपि चेष्टमानं मनः प्रपञ्चं सृजति स्वयं हि । गत्वा सुषुप्तौ बत बीजभावं भूयः प्रबोधे सृजति प्रपञ्चम् ॥ ३८॥ मनोऽन्ततो नश्यति नैव यावद् भवेदवस्थात्रितयं हि तावत् । मनोविनाशाद्धि तुरीयनिष्ठा यत्रान्ततः शाम्यति विश्वमेतत् ॥ ३९॥ ज्ञानाभिधा यद्यपि साऽऽत्मनिष्ठा ज्ञात्रादिकेन त्रितयेन हीना । तत्किं विजानात्युत केन को वा ज्ञानाभिधा स्वात्मतयैव निष्ठा ॥ ४०॥ आत्मैव यस्मिन्न भवत् समस्तं जानाति तस्मिन् बत केन किं नु । इत्यात्मनः केवलतैव तुर्ये सन्दर्शिताऽस्ति श्रुतिशीर्षवाचा ॥ ४१॥ स्थानं च तद्वानिति नास्ति तस्मिन् भेदः पदे कश्चन वास्तवो यत् । आत्माऽद्वितीयः परिपूर्ण एकः स्थानं स्वयं स्वस्य हि सन् स एकः ॥ ४२॥ Quote - Upanishad स्वे महिम्नि प्रतिष्ठितः । अथवा न महिम्नि ॥ द्वैतं समस्तं खलु नीतमन्तं बुद्धेन तुर्ये स्थितिमेत्य सत्ये । अद्वैतनिष्ठाऽधिगताऽस्ति तेने- त्यद्वैतिनं तेन तमेव विद्यात् ॥ ४३॥ अनात्मनि स्वात्मतया प्रतीत्या प्रतीयते द्वैतमिदं हि सद्वत् । एवंविधाज्ञानविमुक्तभाव- मद्वैतनिष्ठां निगदन्ति बुद्धाः ॥ ४४॥ अद्वैतमेवं न मतं यथाऽन्य- न्नास्ति प्रचारो मनसो हि तत्र । अद्वैतमुक्तं निजसत्यभावे निष्ठैव चिन्तारहिताऽस्तलोका ॥ ४५॥ शास्त्रोदितार्थाधिगमेन यस्तु बुद्ध्वाऽद्वयत्वं मतवद्धियैव । तुष्यत्यनेनैव विनाऽनुभूतिं नाद्वैतनिष्ठाऽधिगताऽस्ति तेन ॥ ४६॥ न तेन दृश्यं प्रविलापितं हि स्वचित्स्वरूपे परमार्थसत्ये । शास्त्रार्थबोधात् समवैति यः स्वं न तस्य देहात्ममतिर्विनष्टा ॥ ४७॥ पश्वादिकेभ्योऽप्यविशेष एव तस्योच्यते शङ्करदेशिकेन । पशुत्वमेतद् गदितं हि बुद्धै- र्वपुर्मितं यत् स्वमवैति जन्तुः ॥ ४८॥ न व्येत्यतः शास्त्रविदो नरस्य जगत् स्वतः सत्यमिति प्रतीतिः । तया प्रतीत्या सततं विमूढः परिभ्रमत्येव भवे यथाऽन्ये ॥ ४९॥ वाग्यन्त्रतुल्योऽयमुदीर्यते च बुद्ध्वाऽपि शास्त्रार्थमशान्तचेताः । अपण्डितादप्यवरोऽयमुक्तो मदादिदोषैः परिभूतभावः ॥ ५०॥ बोधं परोक्षं तमिमं वदन्ति परोक्ष आत्मा तु न कर्हिचित् स्यात् । नित्यापरोक्षस्य परोक्षबोधो बोधो यथार्थो भविता कथं नु ॥ ५१॥ देहोऽहमस्मीत्यनुभूतिरूपो भवत्यबोधः खलु बन्धहेतुः । बोधोऽहमस्मीति विनाऽनुभूतिं कथं व्रजेन्नाशमबोध एषः ॥ ५२॥ धिया धृतोऽयं हि परोक्षबोधो न धीप्रचारोऽस्ति तु सत्स्वरूपे । दैत्यं यथा पुण्यजनं वदन्ति वदन्त्यबोधं बत बोधनाम्ना ॥ ५३॥ यदाऽर्कतप्तो मृगतृष्णिकायां स्नात्वा नरस्तापविमुक्तिमेति । अन्नं पचेच्चित्रगताग्निना वा परोक्षबोधेन तदाऽस्तु मुक्तिः ॥ ५४॥ तत्स्वानुभूत्या रहितोऽद्वयत्वं वाचा वदन् द्वैतिसमान एव । न गच्छतो वाङ्मनसे हि तुर्यं तत्र स्थितस्यास्ति मतं न किञ्चित् ॥ ५५॥ अद्वैतिनः स्वान् गणयन्त आहु- र्जगन्मृषा दुःखमयं जडं च । अतोऽन्यथैवेत्यपरे वदन्ति फले तु सर्वेऽपि समा भवन्ति ॥ ५६॥ विश्वं परो जीव इति त्रिरूपं विभाति सत्यं परमेकमेव । ज्ञानं भवेनैव तु वाद एष ज्ञानं त्वहङ्कारविनाश एव ॥ ५७॥ निजस्वरूपानुभवे विनेच्छां मताग्रहेण प्रवदन्ति वादान् । अस्तीति नास्तीत्यपि रूप्यरूपी- त्येकं द्विधा नोभयथेत्यनन्तान् ॥ ५८॥ भवत्यनन्ताः खलु तर्कवादाः क्वचित्प्रतिष्ठां न हि याति तर्कः । अलौकिकोऽसौ खलु तुर्यनिष्ठा ज्ञेया कथं तर्कधिया भवेत् सा ॥ ५९॥ मतं न किञ्चिद्विदुषोऽस्ति यस्मात् सज्जेत वादेषु कदाऽपि नासौ । सर्वं मतं सम्मतमेव तस्य मतिं न कस्याप्युत चालयेत् सः ॥ ६०॥ द्वेषं विनाऽन्येषु मतेषु तस्मा- द्विहाय वादानपि शान्तचेताः । यतेत साधुः स्वमतोक्तरीत्या मोक्षेच्छया साधनतत्परः सन् ॥ ६१॥ द्वैताद्वयत्वे भवतो मते द्वे सत्यं च मिथ्या वदतां प्रपञ्चम् । वादावुभौ चापि विहाय शक्यो लब्धुं स्वरूपानुभवो मुमुक्षोः ॥ ६२॥ अदुःखमिश्रं सुखमन्तहीनं वाञ्छन्ति सर्वे खलु जन्तवोऽपि । सुखं स्वभावो हि समस्तजन्तो- स्तादृक्सुखं क्वेति हि चिन्तनीयम् ॥ ६३॥ कस्मिन् पदे तत् सुखमस्त्यनन्तं लभ्यं च तत् केन च साधनेन । द्वयं तदेतद् भगवान् मुमुक्षो- रत्यन्तवैराग्यवतो ब्रवीति ॥ ६४॥ प्रिया सुषुप्तिर्हि समस्तजन्तोः प्रियत्वहेतुः सुखरूपताऽस्याः । सुखाय तस्यां विषया न सन्ति किं मूलकं स्यान्नु सुखं सुषुप्तेः ॥ ६५॥ सुषुप्तितुर्ये भवतः समाने द्वयोर्मनो नास्ति हि नापि विश्वम् । आत्मा द्वयोरस्ति तु नित्यसत्यः स एव मूलं ह्युभयो सुखस्य ॥ ६६॥ अनित्यमल्पं च सुखं सुषुप्तौ मनोऽस्ति तस्यां खलु बीजभावे । तुर्ये प्रपूर्णं सुखमस्त्यनन्त- मानन्दसंज्ञं श्रुतिषु प्रसिद्धम् ॥ ६७॥ तस्यैव मात्रां खलु जीवलोके लब्ध्वा रमन्तेऽखिलजन्तवोऽपि । न स्याददीदं तु सुखस्य मूलं लोके क्षणार्धं बत को नु जीवेत् ॥ ६८॥ प्रेष्ठः समस्तस्य ततस्तुरीये विराजमानः सुखरूपकः स्वः । प्रेष्ठा च तस्मादखिलस्य जन्तो- र्निष्ठा तुरीयैव न काचिदन्या ॥ ६९॥ तुर्यं पदं नित्यसुखस्य धामे- त्येवं प्रबुद्धाद्विदितेऽथ साधोः । इतो विरक्तस्य तुरीयलिप्सो- र्जगद्विचारेण फलं किमस्ति ॥ ७०॥ सन् वाऽन्यथा वा भवतु प्रपञ्चो लब्धव्यमत्रास्ति किमस्य साधोः । सत् तुर्यमद्वैतमुतान्यथा वा- ऽप्यास्तां तदेवेप्सितमस्य नान्यत् ॥ ७१॥ किमद्वयं सत् किमुनेति बोद्धुं शक्ये हि तुर्ये स्थितिमेत्य सत्ये । शक्नोति कस्तत्त्वमदो निबोद्धुं भ्राम्यन्नवस्थात्रितये विमुग्धः ॥ ७२॥ क्षेपो हि लोम्नां निकरस्य युक्तः क्षुरापनीतस्य विना परीक्षाम् । तुच्छस्य तद्वज्जगतोऽस्य दानं चर्चां विना युज्यत एव साधोः ॥ ७३॥ हेयं प्रपञ्चं स विहाय तूर्ण- मन्तर्मुखत्वेन यतेत सिद्ध्यै । अन्तर्मुखत्वेन हि साधनं स्याद् विश्वं तदर्थं ननु हेयमेव ॥ ७४॥ परं तु वैराग्यबलेन हीना जगत् स्वतः सत्यमिति प्रतीत्या । न साधतेऽन्तर्मुखतां भजन्ते तेषामपेक्ष्यो हि विचार एषः ॥ ७५॥ एते विचारेण गुरूक्तरीत्या जगन्न सत्यं स्वत इत्यवेत्य । तथैव बुद्ध्याऽप्यनुसन्दधाना अन्तर्मुखत्वं शनकैर्भजेयुः ॥ ७६॥ या लौकिकेनानुभवेन चर्चा स्वबुद्धिशक्त्याऽपि वृथैव सा स्यात् । बुद्धं श्रयित्वैव गुरुं तु कुर्यात् तद्दिष्टरीत्यैव जगद्विचारम् ॥ ७७॥ अज्ञानमूलोऽनुभवो हि सर्वः सांसारिकः स्वप्नसमोऽज्ञपुंसाम् । मृषैव सर्वोऽयमतो मुमुक्षो- र्न हि प्रमाणं सदसद्विवेके ॥ ७८॥ बुद्धानुभूतिर्हि परं प्रमाणं साधोस्तुरीयस्य पदस्य लिप्सोः । स एव तत्त्वं जगतोऽप्यवैति बोधात् तुरीयस्य सतः परस्य ॥ ७९॥ निजानुभूतिं च वदन् स बुद्धः सन्दर्शयिष्यत्यमलाश्च युक्तीः । प्रश्नाननन्तांस्तु बुधो न कुर्यात् साधोर्न शङ्कास्पदमाप्तवाक्यम् ॥ ८०॥ Quote - BhagavadGita संशयात्मा विनश्यति न संशयानां भविता विरामो यावन्न तुर्ये स्थितिमेति बोधात् । अन्तोऽस्ति तत्रैव हि संशयाना- मात्यन्तिकः संशयितुर्विनाशात् ॥ ८१॥ Quote - Upanishad भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ तर्कोऽप्रतिष्ठो हि ततो मुमुक्षुः सद्योऽन्ततस्तर्कमतिं विहाय । श्रद्धां समालम्ब्य गुरोर्वचस्सु तद्दिष्टमार्गेण यतेत सिद्ध्यै ॥ ८२॥ उदेति शङ्का यदि कस्य सेति पृच्छन् स्वतत्त्वस्य गवेषणेन । लभेत निष्ठां यदि तुर्यभावे शङ्का च तद्वानुभयं च नश्येत् ॥ ८३॥ बुद्धो गुरुर्वक्ति जगन्मृषात्वं सहेतुकं स्वानुभवानुरूपम् । सत्योपदेशं तमिमं मुमुक्षुः सच्छ्रद्धयाऽऽलम्ब्य यतेत सिद्ध्यै ॥ ८४॥ जीवेश्वरौ विश्वमिति त्रिरूपं जगत् समस्तं च तुरीयसत्ये । अध्यस्तमेवात्मनि मानसेने- त्यज्ञानकार्यं बत सर्वमेतत् ॥ ८५॥ सत्येवमज्ञानमिदं यदा तु स्वज्ञानभास भजते विनाशम् । कार्यं तदीयं च सहैव नश्येत् तमो यथाऽर्कप्रभया प्रभाते ॥ ८६॥ भातीदमज्ञानतमोविलासे न भाति सुज्ञानमहाप्रकाशे । सच्चेदिदं भाति कुतो न तुर्ये सत्यात्मनश्चित्प्रभया प्रदीप्ते ॥ ८७॥ शिष्येत यत् स्वानुभवे तुरीये सत्यं तदेवान्यदसत्यमेव । सत्यत्वमिथ्यात्वविभाग एष बुद्धोपदेशैर्भवति स्फुटो नः ॥ ८८॥ यतोऽज्ञतायामनुभूयमानं तस्मादसद् द्वैतमिदं निरुक्तम् । अज्ञाननाशादनुभूयमाना सत्या भवत्यद्वयताऽऽत्मनस्तु ॥ ८९॥ पदे परस्मिन् भुवने विनष्टे यच्चिन्मयः स्वो लसति स्वभासा । शान्तः स एवाद्वय एककः स- न्नित्यस्मदाचार्यनिरूपितार्थः ॥ ९०॥ स्वप्नः प्रबोधे निधनं प्रयाती- त्यतो हि मिथ्येत्यवगम्यतेऽसौ । जाग्रत्प्रपञ्चोऽपि तथाऽऽत्मभावे विनश्यतीत्यस्य मृषात्वसिद्धिः ॥ ९१॥ पराङ्मुखास्तुर्यपदस्य लाभाद् वादांस्तु मुग्धाः प्रवदन्त्यनन्तान् । तज्जन्यशङ्काः शमयन्ति बुद्धा मुह्येद्यथा तैर्न मुमुक्षुलोकः ॥ ९२॥ आत्मा शरीरं स्वयमेव येषां सोऽयं शरीरी भविता च येषाम् । नोक्तं हि तान् प्रत्यनृतत्वमस्य तेषां भवेद्विश्वमिदं सदेव ॥ ९३॥ जीवेश्वरौ विश्वमिति त्रयस्य मिथ्यात्वमुक्तं ह्यविभक्तमेव । त्रिष्वेककं सत्यमवैति यस्तु द्वयं तदन्यच्च सदेव तस्मै ॥ ९४॥ मुमुक्षुपुंसामुपदिश्यते तु समानमेव त्रितयं मृषेति । ग्राह्यं तथैवेह यथोपदिष्टं विमुक्तिमिच्छद्भिरबोधनाशात् ॥ ९५॥ ग्राह्यः समग्रोऽप्युपदेश एष त्याज्योऽथवा बुद्धिमता समग्रम् । कः कुक्कुटीं कल्पयितुं समर्थः पाकाय चार्धं प्रसवाय चार्धम् ॥ ९६॥ कुतो नु विश्वं सदिति प्रतीत- मितीदमादौ परिशीलनीयम् । प्रपञ्चसत्ताप्रतिपादनस्य भारोऽस्ति तद्वक्तृशिरस्थ एव ॥ ९७॥ यद्वीक्ष्यते विश्वमतोऽज्ञलोकः सदेव विश्वं मनुते हि सर्वः । नैतत् प्रमाणं व्यभिचारदोषा- न्मरीचिकारज्जुभुजङ्गमादौ ॥ ९८॥ यथा प्रतीतं भुवनं सदेवे- त्येतन्न सिद्धं भवतीक्षणेन । किमप्यधिष्ठानसदस्ति यस्मि- न्निदं विभातीत्यनुमेयमत्र ॥ ९९॥ यद्यद्यथा भाति न तत् तथेति वैज्ञानिकैरेव निरूपितं हि । द्रव्यं सुनीरन्ध्रमिव प्रतीतं चाकाशकल्पं गदितं यतस्तैः ॥ १००॥ जानात्यधिष्ठानसदस्य यस्तु तुरीयभावे समुपेत्य निष्ठाम् । बुद्धः स एव प्रभवेद्धि वक्तुं किमस्य तत्त्वं भवतीति नान्यः ॥ १०१॥ बहिर्मुखत्वे सति को नु विद्याद् यथावदात्मानमुत प्रपञ्चम् । अन्तर्मुखत्वेन तु बोधदृष्ट्या जानाति तत्त्वं ह्युभयोश्च बुद्धः ॥ १०२॥ कथं नु मां ज्ञास्यसि तत्त्वतस्त्वं ज्ञातुं स्वमात्मानमुतासमर्थः । इत्यज्ञमर्त्यं हसति प्रपञ्च इत्येवमूचे भगवान् गुरुर्नः ॥ १०३॥ आविद्यकत्वाज्जगदीक्षणस्य वादं निराधारमिमं प्रदर्श्य । जगन्मृषात्वं प्रकटीकरोति स्फुटं गुरुर्नो भगवान् प्रबुद्धः ॥ १०४॥ शरीरमेवात्मतयाऽवगम्य तत् सत्यमेवेत्यपि निश्चयेन । प्रत्येति सत्यं सकलं हि रूपं सर्वोऽपि जन्तुः परिदृश्यमानम् ॥ १०५॥ रूपाणि सर्वाणि मृषैव तस्मा- न्न तानि सत्यानि हि बुद्धपुंसः । यदस्ति सत्यं तदरूपमेव न रूपि किञ्चित् परमार्थदृष्ट्या ॥ १०६॥ दृष्ट्यैकया पश्यति रूपिणं स्वं सरूपकं विश्वमुताज्ञमर्त्यः । सा दृष्टिरज्ञानमयीति हेतोः प्रमाणहीनैव हि विश्वसत्ता ॥ १०७॥ वपुःप्रपञ्चाविति दृश्यमेकं वीक्षाऽप्यवीक्षाऽप्युभयोः सहैव । विनाऽऽत्मनो रूपमिदं शरीरं किं न्वीक्षते कश्चन विश्वमेतत् ॥ १०८॥ स्वाप्नं प्रपञ्चं वपुषा विहीनाः पश्याम इत्येवमुदीर्यते चेत् । तिसृष्ववस्थास्वपि चास्ति देहः कदाऽप्यदेही न भवेद्धि जीवः ॥ १०९॥ देहास्त्रयः सन्ति हि सर्वजन्तोः स्थूलोऽपि सूक्ष्मोऽपि च कारणात्मा । मनोमयः सूक्ष्म उदीर्यते चा- प्युक्तस्त्यविद्यैव च कारणाख्यः ॥ ११०॥ उक्तं शरीरत्रितयं यदेतत् तत् पञ्चकोशात्मकमुच्यते च । मध्यं त्रयं सूक्ष्मशरीरमुक्तं कोशोऽन्तिमः कारणदेह उक्तः ॥ १११॥ यावन्न बोधात् त्रितयं विनश्येत् स्याद् देहवानेव हि जीवनामा । तुरीयभावे ह्यशरीरताऽस्ति सहैव यस्मिंस्त्रितयं विनश्येत् ॥ ११२॥ स्वाविद्यया कल्पयन्तेऽन्यदेहं स्वप्ने मनोऽन्यद् भुवनं स्वयं हि । स्वाप्नेन देहेन सहैव सुप्तः स्वाप्नं जगत् पश्यति न त्वरूपः ॥ ११३॥ देहं च विश्वं च समीक्षते हि नेत्रेण देहावयवेन सर्वः । कथं प्रमाणं भवितेयमीक्षा विश्वस्य सत्यत्वविचारणेऽस्मिन् ॥ ११४॥ दृक् स्याद्यथा तादृशमेव दृश्यं दृगाश्रयोऽयं खलु दृश्यभावः । दृक् चेत् सरूपाऽस्ति तथैव दृश्यं दृक् चेदरूपाऽस्ति न रूपवीक्षा ॥ ११५॥ भात्यज्ञतायां खलु सर्वजन्तोः प्रपञ्च आत्मा द्वितयं सरूपम् । अज्ञाननाशे द्वयमप्यरूप- मनन्त आत्मैव हि दृक् तदानीम् ॥ ११६॥ ज्ञानेक्षया ह्यात्मनि रूपहीने यात्येकतां विश्वमिदं सजीवम् । द्रष्टाऽपि दृश्यं भवतो न यस्यां तां ज्ञानवीक्षां निगदन्ति बुद्धाः ॥ ११७॥ चिद्रूप आत्मैव हि निष्प्रपञ्च एकः पदे स्वे परिशिष्ट आस्ते । जन्मादिषड्भावविकारहीनः स एव तस्माद् गदितः स्वतः सन् ॥ ११८॥ अनन्तदृङ्नाम निगद्यतेऽसौ परः स आत्मा परिपूर्ण एकः । न तस्य दृक्त्वं तु यथार्थतोऽस्ति सत्यात्मनो दृश्यविवर्जितत्वात् ॥ ११९॥ अचित्स्वरूपत्वनिवारणाय कृतो दृगित्यत्र पदप्रयोगः । ज्ञानस्वरूपत्वमुताद्वयत्वं तस्यैव मुक्ते भगवत्तमेन ॥ १२०॥ अरूपिणः स्वस्य सरूपतां हि मत्वेक्षते विश्वमिदं सरूपम् । अविद्ययाऽध्यस्तमिदं समस्तं ह्यात्मन्यरूपे परसत्यनन्ते ॥ १२१॥ अनामकेऽरूपिणि चित्स्वरूपे तस्मिन्नविद्यापरिकल्पितानि । नामानि रूपाणि विभान्ति सद्वत् स्वं रूपिणं पश्यत एव पुंसः ॥ १२२॥ आविद्यकत्वं जगदीक्षणस्य विस्पष्टमेवं गुरुणोपदिष्टम् । एवं निरस्ता जगतोऽस्य सत्ता दिष्टाऽऽत्मनः केवलताऽपि सत्या ॥ १२३॥ स्थिरीकरोत्यर्थमिमं गुरुर्नो मनोमयत्वं जगतो निरूप्य । ततो मृषात्वं मनसोऽहमश्च मूलाज्ञताया अपि चोपदिश्य ॥ १२४॥ शब्दादिका ये विषयास्त एव रूपं हि विश्वस्य न किञ्चिदन्यत् । प्रतीतयस्ते मनसो हि सर्वे तद्विश्वमेतन्मन एव नान्यत् ॥ १२५॥ यद्यस्ति विश्वं मनसो विभिन्न- मभानमेतस्य कुतः सुषुप्तौ । चिद्रूप आत्माऽस्ति हि तत्र सत्यो यदीयभासा मनसो मनस्त्वम् ॥ १२६॥ Quote - Vivekachudamani यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोप्लभ्यते किञ्चिदतोऽसत् स्वप्नवन्मृषा ॥ यदा मनश्चेष्टितमस्ति पुंसां तदैव विश्वं खलु भाति तेषाम् । मनोमयं विश्वमिदं हि तस्मात् स्वप्ने यथा जागरिते तथैव ॥ १२७॥ यथैव जाग्रज्जगदेवमेव स्वाप्नं स्वकाले प्रतिभाति सद्वत् । जाग्रत्प्रपञ्चो व्यवहारयोग्यो यद्वत् तथा स्वाप्न उत स्वकाले ॥ १२८॥ स्वाप्नं यथा दृश्यमभिन्नमेव चित्ताद् भवेत् स्वप्नदृशो नरस्य । दृश्यं तथा जाग्रति वीक्षकस्य चित्ताद् भवेत् सर्वमभिन्नमेव ॥ १२९॥ मनोमयत्वे जगतः सुसिद्धे सिद्धं मृषात्वं भवतीति भीताः । बहिःस्थितत्वं जगतोऽज्ञमर्त्या अनेकधा साधयितुं यतन्ते ॥ १३०॥ जगन्मृषात्वं गदितं तु बुद्धैः स्वान्वेषणात् तुर्यपदस्य लिप्सोः । नान्यान् प्रतीदं ह्युपदिष्टमस्ति ततो वृथैवेह तदीयवादाः ॥ १३१॥ स्वाप्नस्य विश्वस्य मृषात्मकत्वं स्वप्ने न शक्नोति हि कोऽपि बोद्धुम् । तथैव जाग्रद् भुवनं मृषेति शक्नोति बोद्धुं न हि जागरेऽस्मिन् ॥ १३२॥ न दोषहीनं भवति प्रमाणं बहिःस्थितत्वे जगतोऽस्य किञ्चित् । साध्यं स्वपक्षं बत सिद्धवत्तु कृत्वैव वादांस्त इमे वदन्ति ॥ १३३॥ अन्तर्हि शब्दादिकबोधजन्म बहिस्तु तत्कारणमस्ति विश्वम् । इत्युच्यते चेद् वद सन् कथं स्या- दन्तर्बहिश्चेति विभाग एषः ॥ १३४॥ लोकेऽनुभूतः सकलो विभागो देहाश्रयेणैव हि भाति सद्वत् । देहस्य सत्तां प्रति न प्रमाणं पृथक् किमप्यस्ति समर्पितं तैः ॥ १३५॥ अल्पं मनो विश्वमिदं विशालं स्यादन्तरेतन्मनसः कथं नु । इत्येष वादोऽप्युत मुग्धतैव विशालमुक्तं मन एव बुद्धैः ॥ १३६॥ आकाशतश्चापि बृहन्मनो हि तस्मिन् हि खादीनि भवन्ति पञ्च । चिन्निश्चला ब्रह्म चला मनश्चे- त्येवं मनो ब्रह्ममयं निरुक्तम् ॥ १३७॥ सुप्तौ तवासीत् किमिदं न वेति शङ्कास्ति चेत् पृच्छ नरानसुप्तान् । आसीदविच्छिन्नतयैव विश्व- मित्येव तेषामवगच्छ वाचा ॥ १३८॥ एवं स्वपक्षं बत सिद्धवत्तु कृत्वैव वादोऽयमुदीर्यतेऽज्ञैः । अन्तर्भवन्त्येव हि तेऽप्यसुप्ता नराः प्रपञ्चेऽत्र विचार्यमाणे ॥ १३९॥ वीक्षामहे तान् मनुजानसुप्तान् वयं प्रबुध्यैव हि नैव सुप्तौ । असुप्तपुंसां न हि सत्यतायाः किञ्चित् प्रमाणं पृथगस्ति दत्तम् ॥ १४०॥ ते चाप्यसुप्ता मनसैव विश्वं जानन्ति नो तेन विना कदाऽपि । सर्वस्य तन्मानसमेव विश्वं स्वप्ने यथा जागरितेऽपि तद्वत् ॥ १४१॥ भात्येकरूपं हि जगद् बहूना- मित्युच्यते चास्य बहिःस्थितत्वम् । नवीक्षकाणां बहुता यथार्थे- त्युक्तैष वादो गुरुणा निरस्तः ॥ १४२॥ अनेकतैषा मनसा कृतैव स्वप्ने यथा जागरितेऽप्यबोधात् । नानेकता भाति हि वीक्षकानां सुषुप्तिभावे मनसा विहीने ॥ १४३॥ मनः प्रपञ्चं सृजति स्वयं हि स्वप्ने यथा जागरिते तथैव । स्वसृष्टमेवेति मनो न वेत्ति स्वप्ने यथा जागरितेऽपि तद्वत् ॥ १४४॥ यथेप्सितं स्रष्टुमशक्तमेव मनोऽवशं सत् सृजति प्रपञ्चम् । अतो हि विश्वं सदिति प्रतीत्या भ्रान्तं भृशं संसरति स्वयं च ॥ १४५॥ मनोरथे नाटकवीक्षणे च तथा कथासंश्रवणेऽपि चित्तम् । प्रत्येति सत्यं सकलं स्वसृष्ट- मेष स्वभावो मनसो हि नित्यः ॥ १४६॥ दृष्टेर्न सृष्टिः पृथगस्ति काचिद् दृष्टिश्च सृष्टिर्द्वयमेकमेव । दृष्टेर्विरामो निधनं हि नान्य- न्नश्येद्धि विश्वं निजतत्त्वबोधात् ॥ १४७॥ सिद्धे प्रपञ्चस्य मनोमयत्वे सच्चेन्मनः सन् भविता प्रपञ्चः । असन् प्रपञ्चोऽपि मनस्त्वसच्चेत् ततो विचार्या मनसोऽथ सत्ता ॥ १४८॥ कैर्लक्षणैः स्यात् सदसद्विवेक इत्यत्र पूर्वं परिशीलनीयम् । सल्लक्षणं लौकिकसम्मतं यत् तन्न प्रमाणं खलु सद्विचारे ॥ १४९॥ कीरो यथा शाल्मलिभूरुहस्य लुब्धः फले वञ्चित एव याति । एवं स्वयं वञ्चयतः स्वमेव मतं प्रमाणं भविता कथं नु ॥ १५०॥ धीरिन्द्रियाण्यप्युत मानसं च भवन्त्यविद्यापरिचारकाणि । अतः प्रमाणानि हि लौकिकानि नैवोपकुर्वन्ति विचारणेऽस्मिन् ॥ १५१॥ सल्लक्षणं लौकिकसम्मतं यत् तदेतदाविद्यकमित्यसाधु । साधोः प्रमाणं गदितो हि बुद्धैः सत्यत्वमिथ्यत्वविभाग एव ॥ १५२॥ भासा स्वया यद्विलसत्यजस्रं विना विकारं च लयोदयाभ्याम् । तदेव सत्यं हि ततोऽन्यथा तु सर्वं मृषैवेति वदन्ति बुद्धाः ॥ १५३॥ कदाऽप्यसत्यस्य भवेन्न सत्ता भवेदसत्ता न सतः कदाऽपि । इत्येवमूचे सदसद्विवेकं गीतासु कृष्णो भगवान् स्वयं हि ॥ १५४॥ आद्यन्तयोर्भावविवर्जितं यन्- मध्येऽपि तद् भावविहीनमेव । यद्देशकालप्रमितं विभाति तत्सत्यताधीर्बत मुग्धतैव ॥ १५५॥ सत्योपमानं गदितं सुवर्णं मिथ्योपमानानि विभूषणानि । सत्यं सुवर्णं रुचकान्यपेक्ष्य विनश्वरत्वाद्रुचकानि मिथ्या ॥ १५६॥ सुवर्णमासन् रुचकानि पूर्वं तदेव मध्येऽपि तदेव चान्ते । असन्ति सत्ये विलसन्ति सद्वत् स्वर्णे यथा सन्ति विभूषणानि ॥ १५७॥ रीत्याऽनया विश्वमिदं मनश्च द्वयं च मिथ्यैव परीक्षमाणे । इत्येवमर्थो भगवत्तमेन दिष्टो यथा तत्क्रम उच्यतेऽत्र ॥ १५८॥ भास्यं जगद् भासकमस्य चेतो लयोदयौ द्वे भजतः सहैव । न भात्यविच्छिन्नतया द्वयं चे- त्यतो द्वयं चापि मृषेति विद्यात् ॥ १५९॥ भवेत् तु यद्यद् विरलप्रकाशं तत्तज्जडत्वेन परप्रकाश्यम् । जडस्य सर्वस्य च भासकं यत् स्वयम्प्रभं तद्धि चितिस्वभावम् ॥ १६०॥ स्वतत्त्वबोधादहमादिनाशे यच्छिष्यते शान्तपदे परस्मिन् । सत्यं तदन्यन्निखिलं मृषेति जानीमहेऽस्मद् गुरुदेववाग्भिः ॥ १६१॥ मनोऽपि मिथ्या यदि शून्यतैव प्राप्ता सुषुप्तौ न हि किञ्चिदस्ति । ये वादमेवं समुदाहरन्ति स्वानेव तेऽज्ञा बत विस्मरन्ति ॥ १६२॥ शून्यत्वमेतद्विदितं कथं नु नैवास्य साक्षी यदि कश्चिदस्ति । निस्साक्षिका नैव हि शून्यतेय- मतो न शून्यत्वमिदं यथार्थम् ॥ १६३॥ शून्यत्ववादो भगवत्तमेन निस्संशयं ह्यस्ति निरस्त एवम् । नास्माकमत्रास्ति हि काऽपि शङ्का तुर्येऽस्ति शिष्टः खलु सत्य आत्मा ॥ १६४॥ आत्मा स्वयञ्ज्योतिरहंस्वरूपो भाति स्वभासा हृदि सर्वजन्तोः । सर्वोऽप्यतः स्वं समवैति सन्तं नास्मीति को न्वस्ति वदन्नृलोके ॥ १६५॥ मन्ये ततोऽस्मीत्यनुमीयते तु वृत्त्या धियः कैश्चन नैजसत्ता । अमी गजं यान्तमुपेक्ष्य मन्दाः पदानि वीक्ष्य प्रतियन्ति पश्चात् ॥ १६६॥ सर्वानुभूताऽस्ति हि नैजसत्ता सुषुप्तिभावे मनसा विहीने । सुखं मया सुप्तमिति ब्रुवाणः सुखस्मृतिं च प्रकटीकरोति ॥ १६७॥ अन्यानुभूतस्मरणं कुतः स्यात् स्वेनानुभूतं हि सुखं सुषुप्तेः । अन्योऽहमन्यः पुरुषः सुषुप्तेः पूर्वं य आसीदिति को नु वक्ति ॥ १६८॥ लयोदयाभ्यां रहिते हि तस्मिन् मनः सविश्वं लयमेति सुप्तौ । उदेति तस्माच्च पुनः प्रबोधे शून्यत्ववादोऽयमतो मृषैव ॥ १६९॥ आधारसद्वस्तु विना कथं नु विश्वं मनश्चेत्युभयं च भायात् । रज्जुं विना कोन्विह वीक्षतेऽहिं शुक्तिं विना पश्यति को नु रौप्यम् ॥ १७०॥ अस्तित्वभाने भुवनस्य यच्छ- दस्त्येव सत् किञ्चन चित्स्वरूपम् । नो चेत् कथं धीरुदियान्मृषेद- मस्तीति भातीत्यपि लौकिकानाम् ॥ १७१॥ तद्भास्यमेव द्वितयं च यस्मात् स्वयम्प्रभं तच्चितिरूपमेव । नात्मस्वरूपात् पृथगस्ति सत्यं स्वयम्प्रभं किञ्चन कुत्रचिद्वा ॥ १७२॥ बोधोदये स्वात्मनि भासमाने नार्केन्दुनक्षत्रगणा विभान्ति । तस्यैव भासा खलु भान्ति तानि बहिर्मुखस्याज्ञजनस्य लोके ॥ १७३॥ चिता यया भाति जगत् समस्तं भासाऽपि यस्या मनसो मनस्त्वम् । सैवात्मरूपं भवतीति हेतो- रात्मास्तितायां न हि काऽपि शङ्का ॥ १७४॥ अस्मीति बोधं न रुणद्ध्यविद्या बोधोऽहमस्मीति तु बोधमेव । स्वं वेत्ति सन्तं खलु सर्व एव विहाय वैज्ञानिकवादमुग्धान् ॥ १७५॥ नित्योऽव्ययः सन्ततभानकः स्वः सर्वास्ववस्थास्वपि सत्य आस्ते । तस्मिन्नधिष्ठानसति ह्यशेष- मारोपितं विश्वमिदं विभाति ॥ १७६॥ पूर्णस्य तस्यैव चिदात्मकस्य सत्यस्य सत्तामुपजीव्य सद्वत् । समानसं विश्वमिदं विभाति स्वाविद्यया मोहितमानसानाम् ॥ १७७॥ ब्रह्मैककं सत् सकलस्य जन्तोः स्वयं सदैवाहमहन्तयाऽन्तः । भात्यात्मरूपेण नि नान्य आत्मे- त्येषाऽस्ति वाणी भगवत्तमस्य ॥ १७८॥ चैतन्यमस्मीति मदीयरूप- मिति श्रुता मोससनामकेन । या देववाणी प्रथिताऽस्ति तस्या भावोऽयमेवेत्यपि सोऽयमूचे ॥ १७९॥ विज्ञाय सत्यात्मतया तमेव ब्रह्मात्मकं तुर्यपदे लसन्तम् । लब्ध्वेव कामानखिलान् सहैव सदैव तृप्ता हि लसन्ति बुद्धा ॥ १८०॥ सैषा विशुद्धा चितिरात्मरूपा स्वाज्ञस्य विश्वाकृतिका हि भाति । सत्यात्मनीत्थं विपरीतबुद्धि- र्निजस्वरूपानवबोधमूला ॥ १८१॥ आविद्यकं विश्वमिदं सदैव समावृणोत्येव हि तत्स्वरूपम् । धीरिन्द्रियाण्यप्युत मानसं च भवन्त्यविद्यापरिचारकाणि ॥ १८२॥ अतः प्रमाणानि हि लौकिकानि प्रत्यक्षमैतिह्यमुतानुमानम् । प्रतारणायैव भवन्ति जन्तो- र्नैवोपकुर्वन्ति हि बोधलब्ध्यै ॥ १८३॥ अतः किमाश्चर्यमिदं यदज्ञा मत्वा स्वतः सत्यमिमं प्रपञ्चम् । संसारिणं च प्रतियन्ति पूर्णं शिवं सदात्मानमसङ्गमेकम् ॥ १८४॥ निरुक्तमेवं जगतो मृषात्वं नैकोपमानेन सुबोधमस्ति । अतः स्फुटीकर्तुमिदं मुमुक्षो- स्तिस्रो गुरुर्वक्त्युपमाः क्रमेण ॥ १८५॥ भ्रमः प्रपञ्चस्य सदात्मरूपे रज्ज्वां यथाऽहेरिति दर्शितेऽर्थे । उक्तोपमाया विषमत्वबुद्ध्या शिष्यस्य शङ्का समुदेति काचित् ॥ १८६॥ सर्पभ्रमः शाम्यति रज्जुबोधा- न्नैवं जगद् भ्रान्तिरपैति साधोः । श्रुत्याऽपि युक्त्या विदितेऽपि तत्त्वे पूर्वं यथा दृश्यत एव विश्वम् ॥ १८७॥ जगद्भ्रमो नैति परोक्षबोधा- न्निरास्पदेयं खलु तेन शङ्का । तथाऽपि सन्देहनिवारणाय गुरुर्द्वितीयामुपमां ब्रवीति ॥ १८८॥ भूयोऽपि वीक्षा मृगतृष्णिकाया अस्त्येव तत्त्वे विदितेऽपि तस्याः । एवं निरस्तेऽपि च संशयेऽस्मि- न्नुदेति भूयोऽपि च संशयोऽत्र ॥ १८९॥ कार्योपयोगीनि हि जागतानि वस्तूनि नैवं तु मरीचिकाम्भः । अत्रोच्यते स्वप्नसमीक्षितानि कार्योपयोगीनि तथाऽपि मिथ्या ॥ १९०॥ कार्योपयोगीन्यपि तद्वदेव मिथ्यैव वस्तून्यपि जागतानि । स्वप्नो ह्ययं जागरिताभिधानः स्वाज्ञाननिद्रावशगस्य जन्तोः ॥ १९१॥ निद्रेयमज्ञानमयी न यावद् व्यपैति साधोरपरोक्षबोधात् । स्वप्नोऽनुवर्तेत हि जागराख्यो यस्मिञ्जगत्सत्यवदेव भाति ॥ १९२॥ ज्ञेयं हि सत्यत्वमबाधितत्वं बाध्यत्वमेवात्र मृषात्वलिङ्गम् । आत्मैव सन्नित्यमबाधितत्वा- न्मृषा जगद् बाध्यतयाऽऽत्मबोधे ॥ १९३॥ आत्मन्यधिष्ठानसति ह्यशेष- मारोपितं विश्वमिदं विभाति । अतो न विश्वं नरशृङ्गतुल्यं सत्यं स्वतो नेत्युपदिश्यते तु ॥ १९४॥ भेदैरनन्तैः प्रविभक्तमेव प्रतीयते विश्वमिदं हि सर्वम् । भेदा इमे चापि भवन्ति मिथ्ये- त्यर्थं गुरुर्नो विशदीकरोति ॥ १९५॥ भेदं च जीवेश्वरयोस्तथाऽन्यान् प्रत्येति भेदान् मन एव सर्वान् । भेदप्रतीतिर्मनसो हि धर्मो भावेऽमनस्के न हि सन्ति भेदाः ॥ १९६॥ मनः प्रतीत्यामकमेव तस्मा- दज्ञानुभूतं बत भेदजातम् । सर्वप्रतीतेर्मनसस्तु मूलं भवत्यनात्मात्मभिदाप्रतीतिः ॥ १९७॥ सैषा शरीरोऽहमिति प्रतीतिः संसारवृक्षस्य निदानभूता । प्रतीतिरेषा गदिताज्ञतैवे- त्याविद्यका एव समस्तभेदाः ॥ १९८॥ जीवाभिधानं मन एव भेदा- नविद्यया कल्पयतीक्षते च । सुषुप्तिभावेऽपि तुरीयभावे जीवेश्वराद्या न हि सन्ति भेदाः ॥ १९९॥ द्वन्द्वानि सर्वाण्यपि च त्रिपुट्यो भवन्त्यसत्यान्यत एव हेतोः । सत्यात्मभावे न हि सन्ति तानि न बाध्यते तुर्यपदस्थ एतैः ॥ २००॥ अन्तर्बहिर्जन्ममृती समष्टि- र्व्यष्टिर्जगत्सृष्टिलयौ तमो भाः । आत्माऽप्यनात्माऽप्युत बन्धमुक्ती ज्ञाताज्ञते जीव उतेश्वरश्च ॥ २०१॥ स्वेच्छा च दैवं च सुखं च दुःखं दोषा गुणाश्चाप्युत पुण्यपापे । इत्याद्यहङ्कारनिदानकत्वात् स्वप्नोपमं वक्ति गुरुः समस्तम् ॥ २०२॥ ज्ञाताऽपि तज्ज्ञेयमनात्मसञ्ज्ञं ज्ञानं तथा वैषयिकं तदीयम् । समस्तमेवं त्रिपुटिप्रकारं चाविद्यकं स्वप्नसमं निरुक्तम् ॥ २०३॥ आत्मन्यविद्यापरिकल्पितौ द्वौ जीवेश्वराख्यौ भवतो न भिन्नौ । उपाधिसम्बन्धधिया भिदेयं प्रतीयते सत्यवदज्ञतायाम् ॥ २०४॥ ईशस्य माया गदिताऽस्त्युपाधि- र्जीवस्य तूपाधिरबोध एव । मायाऽस्त्यधीना परमस्य तस्य जीवस्त्वविद्यापरतन्त्र एव ॥ २०५॥ मायाऽप्यविद्या गदिते तु शास्त्रे जीवेशयोर्भेदनिरूपणाय । मिथ्यैव भेदोऽयमबोधमूल- स्तथाऽपि सत्यो व्यवहारदृष्ट्या ॥ २०६॥ द्वैतं भवेत् सत्यवदेव तावद् यावन्न जीवत्वमपैति बोधात् । अतो भवेत् सत्यवदेव पुंसां भेदो ह्ययं यद्वदिहान्यभेदाः ॥ २०७॥ विश्वं परो जीव इति त्रयस्य मृषात्वमुक्तं ह्यविभक्तमेव । न कुक्कुटी कल्पयितुं हि शक्या पाकाय चार्धं प्रसवाय चार्धम् ॥ २०८॥ स्वं देहिनं चाप्युत जीवभूतं यो मन्यतेऽज्ञातनिजस्वरूपः । आत्मैव तस्मै भजतीशभावं तमेव भक्त्या स भजेद्विमुक्त्यै ॥ २०९॥ सत्यां विदित्वाऽद्वयतां धियैव लब्धुं स्वरूपानुभवं त्वशक्तः । कुर्यात् प्रयत्नं भवबन्धमुक्त्यै भक्त्या परस्मिन्नपि च प्रपत्त्या ॥ २१०॥ धीरस्य पुंसो निजमार्गणं च भीरोः प्रपत्तिः पुरुषे परस्मिन् । द्वावेव मार्गौ गदितौ मुमुक्षो- रन्तर्भवन्त्यत्र समस्तमार्गाः ॥ २११॥ अन्वेषयाहङ्कृतिमूलमन्त- र्नाशाय तामर्पय वा परस्मै । मार्गो द्विधैवं भगवत्तमेन मुमुक्षुपुंसां रमणेन दिष्टः ॥ २१२॥ अद्वैतिनं स्वं गणयन्नधीरो भक्तिं परस्मिन्नवरां च मत्वा । वृथैव जीवत्यभजन् य ईशं मुग्धः स मर्त्यो मलिनन्तरङ्गः ॥ २१३॥ कूपे यथा रज्जुनिबद्धकुम्भो भक्तो भवेऽस्मिन् भविता तथैव । रज्जुं विना कूपनिमग्नकुम्भो यथा तथा भक्तिविहीनमर्त्यः ॥ २१४॥ य आसुरीं सम्पदमाश्रयन्ते न भक्तिरच्छा भविता हे तेषाम् । दैवीमतः सम्पदमाश्रितः सन् भक्तिं परस्मिन् विदधीत साधुः ॥ २१५॥ लोकप्रसिद्धा परमस्य पुंसः कृपेति शक्तिर्भवति त्रिरूपा । ईशस्वरूपा गुरुरूपिणी च सत्यात्मरूपा च तुरीयभावे ॥ २१६॥ कृपा तु सेयं स्थितिरेव तस्य परस्य सत्यात्मतया हृदन्तः । कृपा स्वरूपं हि परस्य तस्य कृपां विना नास्ति हि तस्य सत्ता ॥ २१७॥ सदैव जागर्ति कृपा परस्य कालो न कोऽप्यस्ति यदा न सा स्यात् । जीवत्यहन्ता तु नरस्य याव- दपेक्षते सा पुरुषस्य यत्नम् ॥ २१८॥ त्यजेन्न कञ्चित् करुणा परस्य सर्वान् नयेत् सा हि विमुक्तिमेव । मुच्यन्त एके त्वचिरेण बन्धा- दन्ये तु कालेन चिरेण जीवाः ॥ २१९॥ मन्येत भक्तः स्वयमेव भक्त्या परं भजामीति न तद्यथार्थम् । धावन्तमज्ञं भवकाननेऽस्मिन् परो हि गृह्णात्यनुधाव्य मुग्धम् ॥ २२०॥ दयालुरेवं हि पुमान् परोऽसौ स्वमेव यद्यच्छति भक्तिभाजाम् । नाशेऽहमस्तत्कृपया हि साधु- स्तस्मिन्न भेदेन लभेत निष्ठाम् ॥ २२१॥ कान्ताचलोऽसौ हि विकृष्य जीवान् कृत्वाऽचलांस्तानपि भक्षयित्वा । स्वस्मिन् पदे नित्यसुखे परस्मिन् प्रेम्णा सदा रक्षति तुर्यभावे ॥ २२२॥ यथाऽर्णवोत्थाम्बुदवृष्टिजाता भूयोऽर्णवं याति नदी स्वयोनिम् । भ्रान्त्वा यथा खे सुचिरं च पक्षी विश्रान्तिमाप्नोत्यवनिं निवृत्य ॥ २२३॥ एवं परस्मादुदितोऽपि जीवो भ्रान्त्वा भवेऽस्मिन् सुचिरं कदाचित् । यथा प्रवृत्तो विनिवृत्य भूयः सङ्गच्छते तं पुरुषं स्वयोनिम् ॥ २२४॥ भक्तिः परस्मिन् द्विविधोऽपदिष्टा चित्तस्य पुंसः परिपाकभेदात् । आदौ तु कीशार्भकरीतिभक्तिः पश्चाच्चमार्जारकिशोरभक्तिः ॥ २२५॥ अभ्यस्य कीशार्भकभक्तिमेव भवेष्वनेकेषु कथञ्चिदन्ते । क्षीणे त्वहङ्कारबले नितान्तं भक्तिं बिडालार्भकवत् करोति ॥ २२६॥ मार्जारडिम्भोपमभक्तिरेव प्रपत्तिरप्यात्मनिवेदनं च । सेयं विशुद्धा मनसः प्रसादात् कालेन बोधेन भवेत् समाना ॥ २२७॥ पुंसः परस्मै स्वनिवेदनं तु पुंसा भवेत् तेन कृतं यथार्थम् । जानाति यः स्वं निजमार्गणेने- त्युक्ताऽस्ति वाणी भगवत्तमेन ॥ २२८॥ पृथक्त्वमत्याऽप्यपृथक्त्वमत्याऽ- प्येवं च भक्तिर्गदिता द्विरूपा । असंस्कृतानां प्रथमोपदिष्टा सुसंस्कृतानामितरा प्रशस्ता ॥ २२९॥ तमात्मभूतं पृथगेव मत्वा रूपेऽपि नाम्नाऽपि च तं प्रपूज्य । बुद्धिप्रसादात् परमं च धाम कालेन यात्येव न तत्र शङ्का ॥ २३०॥ नाम्नाऽपि रूपेण विहीनमीशं नाम्नाऽपि रूपे भजते नरश्चेत् । स नामरूपोद्भवबन्धमुक्तिं भजेदिति श्रीरमणोपदेशः ॥ २३१॥ यामेव निष्ठां लभते मुमुक्षु- र्ध्यानादरूपस्य सतः परस्य । लभेत तामेव हि दैवसम्प- द्युक्तः सरूपं तमुपास्य भक्त्या ॥ २३२॥ भजेत् तमेकं पुरुषं यथेष्टं केनापि नाम्ना क्वचनापि रूपे । परस्य रूपेषु न तारतम्यं वीक्षेत धीमान् परिशुद्धचेताः ॥ २३३॥ एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । एवं स्फुटं मूर्तिभिदामृषात्व- मूचे कवीन्द्रः किल कालिदासः ॥ २३४॥ सर्वोत्तमं रूपममुष्य बुद्धः स्वस्मान्न यस्तं समवैति भिन्नम् । परात्मशक्तेः करुणाभिधाया रूपं द्वितीयं हि गुरुः प्रबुद्धः ॥ २३५॥ अहं स्वयं बुद्ध इति ब्रवीति गीतासु कृष्णो भगवान् स्वयं यत् । ईशादभिन्नं गणयेत् प्रबुद्धं शास्त्रोदितं तत्त्वममुष्य जानन् ॥ २३६॥ अभ्यर्चयेदात्मविदं मुमुक्षु- रित्यस्ति वाणी श्रुतिमस्तकेषु । मन्वीत चेद् भिन्नममुं परस्मात् सा धीर्मुमुक्षोः प्रतिहन्ति मार्गम् ॥ २३७॥ देवं त्वनात्मानमुपासते ये ते सामरस्येन भवन्ति हीनाः । चिरेण कालेन मतिप्रसादा- दपैति केषाञ्चन दोष एषः ॥ २३८॥ यथा मतं स्वेन परस्य रूपं रूपं तदेवेक्षितुमीहतेऽसौ । कदाचिदीक्षेत च रूपमेवं वीक्षा त्वनित्येयमतो मृषैव ॥ २३९॥ स एव साक्षात् पुरुषः परः सन् स्वतः पृथक् तं गणयन्नबोधात् । भक्त्या तदीक्षां यतते च लब्धु- मितोऽन्यदाश्चर्यतरं किमस्ति ॥ २४०॥ रूपेक्षणं रूपविवर्जितस्य कथं भवेत् तस्य यथार्थवीक्षा । तस्यात्मनोऽनात्मवदीक्षणं च सत्येक्षणं तस्य भवेत् कथं नु ॥ २४१॥ रूपं समस्तं च मनोमयं य- दन्तर्भवेद् द्रष्टरि दृश्यरूपम् । द्रष्टुः स्वरूपं हि गवेषणीयं तदेव तत्त्वं हि परस्य पुंसः ॥ २४२॥ द्रष्टुः स्वरूपं य उपेक्ष्य देवं स्वतोऽन्यवत् पश्यति भक्तियोगात् । स वीक्षते मानसरूपमेवे- त्येषाऽस्ति वाणी भगवत्तमस्य ॥ २४३॥ द्रष्टुः स्वरूपस्य गवेषणेन द्रष्टुर्विनाशात् परिशिष्यते यत् । तदेकमेव स्वयमात्मरूपं रूपं च सत्यं परमस्य पुंसः ॥ २४४॥ जीवाभिधं यत्र मनो निगीर्णं तेनान्नवद्याति तदात्मभावम् । सैवात्मवीक्षाऽपि परस्य वीक्षे- त्येषा गुरोः श्रीरमणस्य वाणी ॥ २४५॥ उपासनं स्वात्मतयैव तस्य श्रुतेर्वचोभिर्विहितं मुमुक्षोः । मत्वा स्वतोऽन्यं तमुपासते ये श्रुतिः पशूंस्तान् बत वक्ति पुंसः ॥ २४६॥ हित्वाऽऽत्मदेवं भजते स्वतोऽन्यं य एष हस्तस्थितकौस्तुभं सः । अपास्य रत्नं विचिनोति किञ्चि- दित्येवमूचे भगवान् वसिष्ठः ॥ २४७॥ वपुष्यहन्तैव हि पापमाद्यं निरूपितं यद् भगवत्तमेन । पापादमुष्मादुदिता परस्य स्वतोऽन्यताधीरपि पापमेव ॥ २४८॥ पूर्णत्वमुक्तं श्रुतिभिः परस्य सत्यं भवत्यात्मतयैव तस्य । तत्पूर्णताया बत भङ्ग एव पृथक्त्वमत्या क्रियते हि मूढैः ॥ २४९॥ अभेदमत्या रचिता तु भक्ति- स्तत्पूर्णताङ्गीकरणस्य रीतिः । सुभक्तिमेतामतिपावनीं च ब्रूते मुमुक्षोर्भगवान् गुरुर्नः ॥ २५०॥ प्रदीपमादाय तमोऽनुधावन् नरो यथा तद्वदुपासकोऽपि । पृथक्त्वयोपास्य परं न याती- त्येवं च दिष्टं भगवत्तमेन ॥ २५१॥ भिदाहमन्तारचितां मृषेति बुद्ध्वा भजत्यात्मतया यदीशम् । अतो मुमुक्षोरनयैव भक्त्या सिद्ध्येदहन्तानिधनं जवेन ॥ २५२॥ स्वतोऽन्यमीशं बत मन्यते यो मृषैव तेनात्मसमर्पणं हि । मृषैव चोलेषु यथा विवाहे स्यान्नारिकेलस्य फलस्य दानम् ॥ २५३॥ अनात्मतायां परमस्य पुंसः प्रेष्ठेतरत्वं बत तस्य सिद्धम् । आत्मैव हि प्रेष्ठ इति प्रसिद्धः श्रुत्याऽनुभूत्याऽपि हि सर्वजन्तोः ॥ २५४॥ परं प्रपद्येत विहाय धर्मा- नारोपितानात्मनि जीवताद्यान् । अवोचदेवं भगवान् गुरुर्नो गीतान्तिमश्लोकनिगूढमर्थम् ॥ २५५॥ पुंसे परस्मै स्वनिवेदनं यत् सा भक्तियोगस्य परा हि निष्ठा । क्षीणे त्वहङ्कारबले तदेतद् विशुद्धचित्तेन भवेत् तु साध्यम् ॥ २५६॥ लघ्वी यथा कान्तशिला महत्या विभिन्नकोट्याश्रयणात् तथैव । जीवोऽल्पको मस्तकपादयोगा- दैक्यं भजेत् तेन परेण पुंसा ॥ २५७॥ इष्टं यथा ते भवतात् तथैव सर्वात्मनाऽहं त्वदधीन एव । एवं धिया तिष्ठति यः सदैव तेनार्पणं स्वस्य भवेद्यथार्थम् ॥ २५८॥ भूभारवोढा स इति प्रपन्न- स्तस्मिन् भरं न्यस्य भजेत् प्रशान्तिम् । वहन् स्वयं गोपुरधारिबिम्बो यथा तथा स्यात् परिहासपात्रम् ॥ २५९॥ याने यथा स्वीयभरं निवेश्य करोति यात्रामुपविश्य तत्र । एवं परस्मिन् स्वभरं निवेश्य समापयेत् स्वामिह लोकयात्राम् ॥ २६०॥ यथा निजां देहकुटुम्बचिन्तां त्यजेद्भरं न्यस्य बुधः परस्मिन् । त्यजेत्तथा लोकहितार्थचिन्तां तस्मिन् समस्तं च भरं निवेश्य ॥ २६१॥ अनिष्टमिष्टं च सुखं च दुःखं कालोपनीतं सहमान एव । शोकं मुदं चाप्यभजन् सुभक्तः कालं नयेत् तत्परवाधियैव ॥ २६२॥ यदा निगीर्णा कृपया परस्य नश्येदहन्ता सहजात्मभावे । निवेदनं स्वस्य तदा परस्मै सत्यं च पूर्णं च भवेद्धि साधोः ॥ २६३॥ गणेशमूर्तेर्गुडनिर्मितस्य यथाऽंशमादाय निवेदनं स्यात् । तथा परस्मै स्वनिवेदनं स्यात् स्वो नाम तस्मान्न हि कश्चिदन्यः ॥ २६४॥ आत्मा स्वयं यत् परमः स एव निवेदनं केन कथं च कस्मै । येनाहमा भेदमवैति तस्मात् तन्नाश एवात्मनिवेदनं हि ॥ २६५॥ पुंसे परस्मै यदि दित्ससि स्व- मन्विष्य पूर्वं स्वमवेहि साक्षात् । एवं स्वदानं कृतमेव तस्मा इत्यस्ति वाणी भगवत्तमस्य ॥ २६६॥ अहङ्कृतेरेव नितान्तहानं नमस्कृतेस्तत्त्वमुदीर्यते च । ज्ञानं प्रपत्तिश्च नमस्कृतिश्चे- त्येतत् त्रयं तत्त्वत एकमेव ॥ २६७॥ यथा न वीक्षाविषयः परात्मा बोधस्य तद्वद्विषयो न सोऽयम् । अगोचरत्वान्मनसः परस्य विद्यान्मनस्तं ह्ययथावदेव ॥ २६८॥ चिद्रूप आत्मैव हि सन् परो य- न्नैवास्ति चित् काचन तद्विभिन्ना । ज्ञाता न तस्यास्ति हि कश्चिदन्यो ज्ञानस्य नासौ विषयो हि तस्मात् ॥ २६९॥ चैतन्यदीप्तिर्मनसो भवेद्या तस्या निदानं स हि सत्य आत्मा । अतो विभिन्नं भविता न तस्मात् किञ्चिन्मनोनामकमत्र सत्यम् ॥ २७०॥ चैतन्यमात्माकृतिकं हृदन्त- र्भासा स्वया भास्करवद्विभाति । भासाऽऽत्मनस्तस्य शशाङ्कवत्तु जडं मनश्चेतनवद्विभाति ॥ २७१॥ चितिस्वभावं न मनोऽस्ति यस्मात् ततो मनो याति लयं सुषुप्तौ । चितिस्वभावः खलु सत्य आत्मा न यात्यसौ तेन लयं कदाऽपि ॥ २७२॥ निमीलयत्येव मनो हि नित्यं स्वप्नेऽपि जाग्रत्यपि तत्स्वरूपम् । लीनं सुषुप्तौ च मृतं तुरीये मनो विबुध्येत कथं तमेकम् ॥ २७३॥ स्वमूलमन्विष्य मनः परस्मिन् यात्येकतां यत् सहजात्मभावे । स एव सत्यः परमस्य बोध इत्यस्ति वाणी भगवत्तमस्य ॥ २७४॥ भिन्नौ भवेतां न हि तत्त्वदृष्ट्या जीवेश्वरौ द्वाविति निश्चयेन । भक्त्याऽथवा स्वात्मगवेषयोगात् तस्मिन्नभेदेन लभेत निष्ठाम् ॥ २७५॥ ज्ञानाज्ञते भिन्नपदेऽज्ञते द्वे सांसारिके स्वाज्ञजनानुभूते । द्वाभ्यां विमुक्तो भवति प्रबुद्धो द्वन्द्वं मृषेदं खलु यद्वदन्यत् ॥ २७६॥ उभेऽपि चैते भवतः सहैव नैकं विनाऽन्येन भवेत् कदाऽपि । स्वाज्ञानमूलं द्वयमित्यतश्चा- प्यज्ञानमेव द्वितयं समानम् ॥ २७७॥ ज्ञातृस्वरूपावगतिं विनैव ज्ञातुं स्वतोऽन्यद्यतते हि सर्वः । अज्ञानजं ज्ञानमिदं हि तस्मा- दज्ञानमेवेति गुरूपदेशः ॥ २७८॥ ज्ञाताऽहमस्मीत्युदियाद्य एष तदीयतत्त्वावगतिं विनैव । यद्यद्विजानाति धियेन्द्रियैर्वा तत्तद्विजानात्ययथावदेव ॥ २७९॥ अविद्यमानं बत विश्वमेतत् सद्वद्विजानाति हि बोधहीनः । अलौकिकं चापि निजं स्वरूपं जानाति लोके बत जीवभूतम् ॥ २८०॥ धीरिन्द्रियाण्यप्यपि मानसं च भवन्त्यविद्यापरिचारकाणि । अतः प्रमाणानि हि लौकिकानि सम्मोहनायैव भवन्ति जन्तोः ॥ २८१॥ ज्ञाताज्ञते द्वे भवतोऽनुभूते येनाहमा तस्य कुतो नु जन्म । इति स्वतत्त्वस्य गवेषणेन नष्टेऽहमाख्ये द्वितयं च नश्येत् ॥ २८२॥ ज्ञानं यथार्थं त्वहमो विनाशो निजस्वरूपे सहजा स्थितिर्हि । शिष्टे न तस्यां भवतोऽज्ञते द्वे सांसारिके द्वैतविवर्जितायाम् ॥ २८३॥ तां ज्ञाननिष्ठां निगदन्ति बुद्धा ज्ञानाज्ञते द्वे भवतो न यस्याम् । निष्ठा परा सा विदुषो हि यस्यां नास्ति स्वतोऽन्यच्चिदचित्स्वरूपम् ॥ २८४॥ अपण्डितः पण्डित आत्मविच्च त्रयोऽपि चाज्ञा हि समानमेव । अज्ञस्तृतीयोऽपि यतो न तस्य स्वस्मात् पृथक्किञ्चन वेद्यमस्ति ॥ २८५॥ निष्ठां गतोऽसौ निजधाम्नि सत्ये वन्द्यः समस्तैर्मनुजैः सुरैश्च । पुंसः परस्मादपृथक्तयाऽसौ मुमुक्षुपुंसां भजनीय एव ॥ २८६॥ अज्ञानमन्तं भजतां तुरीये नश्येत् कुतो ज्ञानमुतेति केचित् । पृच्छन्त्यबोधात्मकतामबुद्ध्वा ज्ञानाभिधस्यास्य हि लौकिकस्य ॥ २८७॥ नैवास्ति बोध्यं न च कोऽपि बोद्धा न चास्ति बोधोऽपि तुरीयभावे । द्वन्द्वानि यद्वन्न भवन्ति तुर्ये तथा त्रिपुट्योऽपि न तत्र सन्ति ॥ २८८॥ एकः स आत्मैव हि तुर्यभावे ज्ञानाज्ञताभ्यां रहितश्चकास्ति । ज्ञानस्वरूपः स्वयमव्ययो य- च्छून्यं कथं तत् परमं पदं स्यात् ॥ २८९॥ चैतन्यभासा निजयैव तस्मिन् भात्यात्मरूपं शिवमद्वितीयम् । न भासकं तस्य न तेन भास्यं सत्यं किमप्यस्ति तुरीयभावे ॥ २९०॥ नोदेति नाप्यस्तमुदेति तस्य चैतन्यदीप्तिः सततैकरूपा । आदाय तस्यैव चिदंशलेशं प्रतीयते चेतनवन्मनो हि ॥ २९१॥ मत्वाऽऽत्मनाशस्य पदं तुरीयं बिभ्यत्यमुष्मादविवेकिनो ये । वाञ्छन्ति ते नित्यसुखाय गन्तुं लोकान्तरं दिव्यमबुद्धशिष्याः ॥ २९२॥ लोको यथाऽयं भविता मृषैव तथैव लोका अनृताः परे च । आत्मैव लोकः खलु बुद्धपुंसः स एव तस्माद् गदितः स्वयं सन् ॥ २९३॥ किं नो धनेन प्रजयाऽपि येषां आत्मैव लोको भवतीति बुद्धाः । नापि प्रवृत्तिं न च वा निवृत्तिं वाञ्छन्ति संशान्तसमस्तकामाः ॥ २९४॥ एकः स बोधात्मक एव सत्यो बोधः प्रपञ्चाकृतिरज्ञतैव । बोधात् प्रपञ्चाकृतिकात् प्रपञ्चो भिन्नो यतो नास्त्यत एव मिथ्या ॥ २९५॥ अज्ञानमेतत् तमसा समानं न शक्यमस्तीति तु वक्तुमेतत् । तमो न यद्वत् सहते प्रकाश- मज्ञानमेवं सहते न बोधम् ॥ २९६॥ प्रतीयतेऽज्ञानमिदं परस्मिन् प्रपञ्चरूपं सदिवाज्ञमर्त्यैः । सत्ये सुवर्णे रुचकान्यसन्ति सद्वत् प्रतीतानि यथा भवन्ति ॥ २९७॥ सत्यं सुवर्णं रुचकान्यसन्ती- त्येतत् कथं स्यादिति चेद् गुरोर्नः । दार्ष्टान्तिकं विश्वमिदं मृषेति सन्दर्शनायात्र पदप्रयोगः ॥ २९८॥ दार्ष्टान्तिकस्य स्फुटबोधनाय सर्वोऽपि दृष्टान्त उदीर्यते यत् । विवक्षितार्थावगतिर्यथा स्यात् तथैव दृष्टान्तनिवेदनानि ॥ २९९॥ सुवर्णमासन् रुचकानि पूर्वं तदेव मध्येऽपि तदेव चान्ते । सत्यं सुवर्णं रुचकान्यपेक्ष्य विनश्वरत्वाद्रुचकानि मिथ्या ॥ ३००॥ अनित्यतैवात्र मृषात्वलिङ्गं सत्यत्वमुक्तं खलु नित्यतैव । अतोऽज्ञता तज्जमिदं च विश्वं रज्ज्वामहिर्यद्वदसत्यमेव ॥ ३०१॥ पटे प्रकाशेन युते यथा वा मृषैव चित्राण्यचले चलन्ति । तद्वज्जगच्चित्रततिश्च सेय- मायाति संयाति मृषैव सत्ये ॥ ३०२॥ द्रष्टा चलच्चित्रततेर्विभिन्नो द्रष्टा जगच्चित्रततावभिन्नः । विशेष एवं जगतोऽस्ति यस्मात् सद्रष्टृकस्यास्य मृषात्वसिद्धिः ॥ ३०३॥ यथा चलच्चित्रततेर्विरामे पटप्रकाशोऽस्ति विशुद्ध एवम् । मृषा जगच्चित्रततेर्विरामे शिष्येत शुद्धा चितिरात्मरूपा ॥ ३०४॥ प्रतिक्षणं नूतनमेव चित्रं वीक्ष्यापि सर्वं मनुते यथैकम् । तथैकमज्ञो मनुते हि वीक्ष्य प्रतिक्षणं नूतनमेव विश्वम् ॥ ३०५॥ आधारवस्त्रेऽपि तदीयभासा यथा चलच्चित्रततिर्विभाति । एवं प्रपञ्चोऽपि सदात्मरूपे तदीयसंवित्प्रभयैव भाति ॥ ३०६॥ आत्मा स्वतः सन्नत एव हेतो- र्नैव स्वतः सत्यमिदं हि विश्वम् । विज्ञेयमेवं जगतो मृषात्वं सत्ताऽऽत्मनश्चापि चिदात्मकस्य ॥ ३०७॥ देशेन कालेन विभक्तमेव स्वप्ने मनो जागरिते समानम् । अवैति देहादिसमस्तदृश्य- मतो विचार्याऽस्त्यनयोश्च सत्ता ॥ ३०८॥ त्रयं मनोमात्रमिदं प्रदिष्टं देशोऽपि कालोऽपि निमित्तयोगः । पाश्चात्यदेशीयविपश्चिताऽस्ति कान्ताभिधानेन सुयुक्तिवादैः ॥ ३०९॥ सर्वानुभूत्याऽपि सुषुप्तिभावे बुद्धानुभूत्याऽपि तुरीयभावे । मृषात्वमेतत् प्रकटीकरोति स्फुटं मुमुक्षोर्भगवान् गुरुर्नः ॥ ३१०॥ सुषुप्तिभावे मनसि प्रलीने तुरीयभावे मनसि प्रणष्टे । न कोऽपि जानाति हि देशकालौ मनोमयं तद्द्वितयं हि तस्मात् ॥ ३११॥ मनः सविश्वं सृजति द्वयं च स्वप्ने यथा जागरिते तथैव । ताभ्यां विना वेत्ति मनो न किञ्चि- देष स्वभावो मनसो हि नित्यः ॥ ३१२॥ देहोऽहमित्यज्ञतयैव मर्त्यो देशेऽपि कालेऽस्म्यहमित्यवैति । देशे भवामो न हि नापि काले देहा वयं चेदुभयोर्भवेम ॥ ३१३॥ देहा वयं नो न च देहिनो वा जीवा वयं नैव कदाऽप्यभूम । अस्मासु तौ द्वौ मनसोपक्लृप्तौ ह्यविद्यया यद्वदिदं समस्तम् ॥ ३१४॥ मनोऽहमो जन्मभुवं विमृग्य लभेत शान्तिं यदि तुर्यभावे । तदा निगीर्येत सदात्मनैव सहाहमा तद्द्वितयं सविश्वम् ॥ ३१५॥ मायामयं कारणकार्यरूपं सदेशकालं बत विश्वमेतत् । न विक्रियामेति कदाचिदात्मा देशेन कालेन निमित्ततो वा ॥ ३१६॥ सदैकधैवाच्युत एक आत्मा कालातिगो देशविवर्जितश्च । पूर्णः प्रबुद्धैरनुभूयते यत् स एव सत्यो न तु किञ्चिदन्यत् ॥ ३१७॥ भूतोऽपि भावी च भवन्नितीमे कालस्य भेदा अपि नैव सत्याः । भूतोऽपि भावी भवदाश्रयौ च भवन् स्वकाले भवतो ह्युभौ च ॥ ३१८॥ अतो भवन्नेव समस्तकालो वाचैव कुर्वन्ति विभागमेवम् । आत्मस्वरूपं खलु नित्यसत्य- मतो भवन्नाम तदेव नान्यत् ॥ ३१९॥ इच्छेदतस्तत्त्वममुष्य बोद्धुं तुरीयभावाधिगमेन साधुः । चर्चेह भूतस्य च भाविनोऽपि विनैकसङ्ख्यां गणनेति दिष्टा ॥ ३२०॥ अस्त्येकसङ्ख्यैव न काचिदन्या सङ्ख्याः समस्ताश्च तदात्मिका हि , अस्त्येवमात्माकृतिका चिदेव तदात्मकं सर्वमिदं च विश्वम् ॥ ३२१॥ यथैकसङ्ख्यामवगम्य सम्यक् सङ्ख्यां समस्तामवगन्तुमीष्टे । ज्ञात्वैवमेकं निजतत्त्वमेव जानन्ति बुद्धा जगतोऽपि तत्त्वम् ॥ ३२२॥ बोधः स्वतोऽन्यस्य विना स्वबोध- मबोध एवेति गुरुर्ब्रवीति । स्वस्मिन्नबुद्धे सति वेत्ति यद्यत् तत्तद्विजानात्ययथावदेव ॥ ३२३॥ स्वस्मिन् विबुद्धे निजमार्गणेन बोद्धुं स्वतोऽन्यन्न हि किञ्चिदस्ति । बुद्धस्य भात्यात्मतयैव सर्व- मात्मा ततः सर्व इति प्रसिद्धः ॥ ३२४॥ सत्यात्मभावे स्थितिमेव तस्मात् सर्वज्ञतां श्रीरमणो ब्रवीति । सर्वज्ञतां यां गणयन्त्यबुद्धाः सैषाज्ञतैवेत्यपि वक्ति सोऽयम् ॥ ३२५॥ नेदं शरीरात् पृथगस्ति विश्वं नेदं शरीरं मनसोऽस्ति भिन्नम् । सत्यात्मनो नास्ति मनो विभिन्न- मात्मैव तस्मादखिलं च विश्वम् ॥ ३२६॥ अहं पुरा जन्मनि कीदृगास- मितः परं चापि कथं भवेयम् । ईदृग्विचारा बत मुग्धतैव न जन्म लेभे हि कदाचिदात्मा ॥ ३२७॥ व्यष्टेः समष्टेरपि चिन्तनानि निरर्थकान्येव मुमुक्षुपुंसाम् । चिन्ताः समस्ताः प्रभवन्ति यस्य तन्मूलचिन्तैव हि मुक्तिदात्री ॥ ३२८॥ प्रश्नाः क्रियन्तेऽत्र मुधैव मर्त्यैः सृष्टं जगत् केन कथं च पूर्वम् । का नाम माया कथमाऽप्यविद्या कथं न्वभूज्जीव इति प्रमादात् ॥ ३२९॥ दृष्टेर्न सृष्टिः पृथगस्ति काचिद् दृष्टिश्च सृष्टिर्द्वयमेकमेव । सा दृष्टिरज्ञानमयीति हेतो- स्तस्याः प्रहाणं निधनं हि सत्यम् ॥ ३३०॥ मायाभिधाना परशक्तिरेव मनस्सु बुद्धीन्द्रियबोधरूपम् । विचित्रमेतं सृजति प्रपञ्चं स सत्यवद् गृह्यत एव मुग्धैः ॥ ३३१॥ सद्वद्विचारेण मृषात्मकस्य सत्यात् प्रमादो भविता ध्रुवं हि । न च प्रमादादपरोऽस्ति मृत्युः स्वो नष्टकल्पोऽस्ति हि तेन साधोः ॥ ३३२॥ अस्मिन्नवेदीद्यदि जन्मनि स्वं तदैव सत्यं पुरुषस्य सत्यम् । न चेदवेदीदिह जन्मनि स्वं तस्यावृतं स्यादनृतेन सत्यम् ॥ ३३३॥ तद्देशकालवनृतौ विदित्वा विहाय विश्वं च समस्तमेव । इच्छेदधिष्ठानसदेव बोद्धुं स्वात्मस्वरूपं निजमार्गणेन ॥ ३३४॥ कर्ताऽस्म्यहं कर्मफलस्य भोक्ते- त्येवं नरो यो मनुते स एव । धीदैवयोर्भेदमवैति सत्यं कर्ताऽपि भोक्ता न तु सत्य आत्मा ॥ ३३५॥ इष्टं यदा कर्मफलं तदानीं बलीयसीं बुद्धिमवैति दैवात् । यद्यन्यथा कर्मफलं भवेत्तु दैवं बलीयो मनुते तदानीम् ॥ ३३६॥ दैवं भवेत् पूर्वकृतं हि कर्म धिया कृतं कर्म समस्तमेव । धीदैवयोर्द्वन्द्वमतो मृषैव तयोर्विरोधः कथमस्तु सत्यः ॥ ३३७॥ धीदैवयोर्मूलमहङ्कृतिर्यत् स्वान्वेषणात् सा यदि नाशमीयात् । धीदैवयोर्द्वन्द्वमिदं विनश्ये- न्न वेत्ति धीदैवभिदं प्रबुद्धः ॥ ३३८॥ बुद्धोऽमनस्को गलिताभिमानः सङ्कल्पशून्योऽपि भवेन्न कर्ता । भोक्ताऽपि नासौ भविता कदाऽपि न वेत्ति धीदैवभिदामतोऽसौ ॥ ३३९॥ स्वोऽबुद्धमर्त्यस्य च नित्यबुद्धो न सज्जते कर्मसु नैति मोहम् । तत्सन्निधानेन तु लब्धसञ्ज्ञा प्रवर्तते धीः स्वगुणानुरूपम् ॥ ३४० ,, चिन्तामतो दैवधियोर्विहाय सांसारिकीं चापि समस्तचिन्ताम् । ब्रह्मात्मकं केवलमात्मतत्त्वं यतेत बोद्धुं निजमार्गणेन ॥ ३४१॥ जीवाभिधानो जगदीक्षको य- स्तस्मिन्निगूढं जगतोऽस्य तत्त्वम् । उदेत्ययं चेदुदियाच्च विश्वं लीयेत विश्वं लयमेत्ययं चेत् ॥ ३४२॥ तत्तत्त्वमस्यैव निजानुभूत्या जानन् प्रबुद्धः समवैति विश्वम् । अन्ये तु देहात्मधियाऽभिभूता विश्वं विजानन्त्ययथावदेव ॥ ३४३॥ जीवोऽज्ञतायाः प्रथमं स्वरूपं जीवोऽङ्कुरः संसृतिदुर्द्रुमस्य । विभूतिरस्यैव जगत् समस्तं नाशोऽन्ततश्चास्य विमुक्ति भावः ॥ ३४४॥ तमेनमर्थं सुगतो गुरुश्चा- प्यूचे तथा शङ्करदेशिकेन्द्रः । ब्रूतेऽपि चास्मद्गुरुरर्थमेनं वेदान्तसारोऽप्ययमर्थ एव ॥ ३४५॥ विश्वं स्वदृश्यं न विना कदाऽपि द्रष्टाऽस्य जीवो भवति प्रतीतः । जीवो न कोऽप्यस्ति सुषुप्तिभावे मनोमनोऽयं हि यथाऽस्य दृश्यम् ॥ ३४६॥ सहैव देहेन भवेत् प्रतीतो जीवाभिधोऽयं खलु सर्वदाऽपि । मृतौ च देहस्य न पूर्वदेहं जहात्यनादाय हि देहमन्यम् ॥ ३४७ । जीवोऽयमेवं वपुषोऽपृथक्त्वा- दन्तर्भवत्येव जगत्स्वरूपे । नित्यत्वमस्यैव तु कल्पयन्ति शिष्या अबुद्धस्य गुरोरबुद्धाः ॥ ३४८॥ विना विचारं बत जीवमेनं देहीति चात्मेत्यपि मन्यमानाः । संसारिताद्यानपि चास्य धर्मा- नारोपयन्त्यात्मनि नित्यमुक्ते ॥ ३४९॥ अतो मतानि प्रभवन्ति नाना सत्यात्मनः सर्वमतातिगस्य । बद्धं तमेनं बत मन्यमाना- श्चरन्त्यनेकानपि योगमार्गान् ॥ ३५०॥ कर्तृत्वभोक्तृत्वशरीरिताद्याः संसारिता चाप्युत जीवधर्माः । धर्मा न ते शुद्धचिदात्मकस्य सत्यात्मनः सङ्गविवर्जितस्य ॥ ३५१॥ स्वं जीवभूतं बत मन्यते यो देहात्मभावो न हि तस्य नष्टः । बोधात्मतां स्वस्य न बुध्यते य- स्तस्यानिवार्यो वपुरात्मभावः ॥ ३५२॥ आत्मा सुषुप्तो च सुखस्वरूपो लोकैः समस्तैरनुभूयते यत् । देहात् पृथक् स्वो भवतीति बोद्धुं शक्नोति धीमान् खलु सूक्ष्मबुद्ध्या ॥ ३५३॥ नाङ्गीकरोति ह्यत एव धीमान् देहात्मतां स्वस्य विचारणायाम् । तथाऽप्यविज्ञातनिजस्वरूपो भूयोऽपि देहात्ममतिं करोति ॥ ३५४॥ यावन्न जीवत्वमतिव्यपैति देहात्मधीर्नैव विनाशमीयात् । नश्येत्तु सा तुर्यपदस्व लाभा- द्यत्रानुभूयेत परं स्वतत्त्वम् ॥ ३५५॥ जानाति यः स्वं परमद्वितीयं तुरीयभावे स्थितिमेत्य नित्याम् । न तस्य जीवोऽहमिति प्रतीतिः स एव देहात्मधिया विमुक्तः ॥ ३५६॥ देहात्मभावं मन आत्मभावं जीवात्मभावं च मृषेति बुद्ध्वा । बोधात्मतां स्वामवगन्तुमिच्छन् यतेत साधू रमणोक्तरीत्या ॥ ३५७॥ विचार्यमाणे सति जीवतत्त्वे बुद्धोपदेशैः परिशुद्धबुद्ध्या । आविद्यकोऽयं बत जीवनामा न तत्त्वतोऽस्तीति सुबोधमेव ॥ ३५८॥ मन्यन्त आत्मद्वितयं च केचिद् भेदेन जीवात्मपरात्मनश्च । जीवस्य चात्मेति परं वदन्ति जीवः शरीरं परमस्य चेति ॥ ३५९॥ जीवात्मतैवं चलमध्रुवं य- दात्मा यथार्थः पर एव नान्यः । जीवाभिधोऽसन् पर एव सत्य इत्युच्यतेऽस्मद्गुरुणा स्फुटं च ॥ ३६०॥ मृषात्ववाची खलु जीवशब्दः सत्यत्ववाची परशब्द एव । जीवो मृषेत्येवमवेत्य साधु- र्जीवात्मभावं प्रयतेत हातुम् ॥ ३६१॥ जैवेन रूपेण तमेव देहे- ष्वनुप्रविष्टं श्रुतयो वदन्ति । अतो न जीवोऽस्ति पृथक् परस्मा- दित्येवमर्थो भवति स्फुटं नः ॥ ३६२॥ उदेति जीवो न विलीयते च सत्यात्मनो नैव लयोदयौ स्तः । जीवा अनेके च स एक एव सत्येवमात्मा कथमस्तु जीवः ॥ ३६३॥ विशुद्धचिन्मात्रतया स्वतः सन् न लीयते स्वो हि सुषुप्तिभावे । असन् स्वतोऽज्ञानसमुत्थितोऽयं प्रयाति जीवस्तु लयं सुषुप्तौ ॥ ३६४॥ सुषुप्तिभावे सुखरूपको यो लोकैः समस्तैरनुभूयते च । तुरीयभावे परिशिष्यते च शुद्धोऽद्वयः सन् स हि सत्य आत्मा ॥ ३६५॥ सुषुप्तिभावेऽप्यहमि प्रलीने तुरीयभावेऽप्यहमि प्रणष्टे । विभात्यविच्छिन्नतयेत्यसौ स्वो निगद्यतेऽहम्पदलक्षितार्थः ॥ ३६६॥ ब्रह्मात्मकोऽसावहमित्यजस्रं स्वयं विभात्यात्मतया हृदन्तः । वपुर्मितं जीवमिमं तु तस्मिन् पूर्णे परेऽध्यस्यति हन्त मोहात् ॥ ३६७॥ अस्मीति बोधं न रुणद्ध्यविद्या बोधोऽहमस्मीति तु बोधमेव । जानाति सर्वोऽपि हि नैजसत्तां जानाति न स्वं निरुपाधिकं तत् ॥ ३६८॥ नाहन्तयोदेति चिदात्मकः स्वो जडो न देहोऽहमिति ब्रवीति । मध्ये तयोः कश्चिदुदेत्यबोधे वपुः प्रमाणस्त्वहमित्यसत्यः ॥ ३६९॥ अहंस्वरूपा चितिरात्मनो या जडं वपुश्चेत्युभयोश्च योगात् । उदेति देहोऽहमिति प्रतीतिः प्रतीतिरेषैव हि जीवरूपम् ॥ ३७०॥ देहात्मनोरेकतयाऽवगत्या प्रतीयते सत्यवदेष यस्मात् । तच्चिज्जडग्रन्थिरिति प्रथाऽस्य भवत्यविद्यापरिकल्पितस्य ॥ ३७१॥ जडेन देहेन कदाऽपि सङ्गः सत्यात्मनो नास्ति यथार्थतस्तु । नैवोदभूत् कश्चन जीवनामा नैवाप जीवत्वमसौ च पूर्णः ॥ ३७२॥ स्वयम्प्रकाशं निरपेक्षमेकं चैतन्यमात्माकृतिकं हि सत्यम् । चैतन्यमन्यन्न हि किञ्चि- दस्तीत्यचित्स्वरूपः खलु जीव एषः ॥ ३७३॥ प्रतीयते चेतनवत्तु जीव आत्मस्वरूपस्य चिदंशयोगात् । अतो हि वेदान्तिन आहुरेनं जीवं चिदाभासमसत्स्वरूपम् ॥ ३७४॥ स्वयं समागत्य यथा विवाहे वदन् वरस्यास्मि सखेति मिथ्या । वधूगृहिभ्यो लभते सपर्यां जीवोऽयमङ्गीक्रियते तयाऽज्ञैः ॥ ३७५॥ कोऽयं कुतो वेति विचार्यमाणो वधूगृहिभ्यः स्वयमेष धावेत् । धावेत् तथैव स्वयमेष जीवः कोऽयं कुतो वेति विचार्यमाणः ॥ ३७६॥ न रूपमस्यास्ति यथार्थतो यत् पिशाचवद् देहगृहे स्थितस्य । तद् देहरक्षार्थमयं नियुक्तः पिशाच एवेति गुरुर्ब्रवीति ॥ ३७७॥ न शिष्यते किञ्चन रूपमस्य तुरीयभावाधिगमे गवेषात् । एवं प्रबुद्धो भगवान् गुरुर्नो मृषात्वमस्य प्रकटीकरोति ॥ ३७८॥ आद्या मनोवृत्तिरियं ह्यहन्धी- रतोऽन्यधीवृत्तय उद्भवन्ति । अतो मनः सूक्ष्मवपुः प्रपञ्चो भवोऽपि बन्धोऽप्यमेव नान्यत् ॥ ३७९॥ बन्धोऽपि बद्धोऽप्ययमेक एव बद्धोऽस्ति नास्मादितरोऽत्र कश्चित् । स्वो नित्यमुक्तप्रकृतिर्हि सत्यः स बन्धमापेति कथं नु वाच्यम् ॥ ३८०॥ अस्मिन्नहन्नामनि जातमात्रे सञ्जायते विश्वमिदं सहैव । अस्मिन् विलीने लयमेति विश्वं तद्विश्वमस्यैव हि रूपमुक्तम् ॥ ३८१॥ नित्यापरोक्षोऽपि सदैव पुंस आत्मा महान् प्रेष्ठ उरुप्रकाशः । दुरात्मनाऽहङ्कृतिरूपकेण हृतप्रभो यद्वदलं न भाति ॥ ३८२॥ आच्छादयत्येष मृषात्मकोऽपि सत्यात्मरूपं खलु जीवनामा । अतोऽज्ञपुंसा बहुभिर्विकल्पै- र्विकल्पितः स्वोऽस्ति हि नष्टकल्पः ॥ ३८३॥ भानुप्रभासञ्जनिताभ्रपङ्क्ति- स्तिरोदधात्येव हि भानुरूपम् । तिरोदधात्येव तथाऽऽत्मरूपं तस्यैव संवित्प्रभयोदितोऽयम् ॥ ३८४॥ किं तेन चोरेण कृतं न पाप- मात्मापहर्त्रेत्यपि वेदवाणी । निन्दत्यहन्धीमुषितात्मतत्त्वं पापेन तेनैव च दूयमानम् ॥ ३८५॥ यदादिमं पापमूदीरयन्ति क्रीस्तानुगा मृत्युकरं नराणाम् । कर्माद्यपुंसो न हि तत् परं तु वपुष्यहन्तेति गुरुर्ब्रवीति ॥ ३८६॥ इदं नरस्यैव हि पापमुक्तं न ह्यस्ति पुंसां नरता सुषुप्तौ । देहात्ममत्यैव नरत्वधीर्यत् देहात्मधीरेव हि पापमाद्यम् ॥ ३८७॥ नष्टिः समस्ताऽप्यगुणः समस्तो दुःखं समस्तं च वपुष्यहन्धीः । लाभः समस्तोऽपि गुणः समस्तः सुखं समस्तं च तदीयनाशः ॥ ३८८॥ आत्माऽज्ञपुंसोऽप्यहमा विनष्टो लब्ध्वाऽपि सर्वं कृपणो हि सोऽयम् । स्वमेव लब्ध्वा त्वहमो विनाशा- ल्लब्धव्यमन्यन्न हि वीक्षते ज्ञः ॥ ३८९॥ सत्यं शरीरं बत मन्यमाना आत्मेति मत्वाऽप्युत जीवमेव । वेदान्तवाक्यानयथावदेव बुद्ध्वाऽऽत्मनानात्वमुदीरयन्ति ॥ ३९०॥ यद्येक आत्मा द्विविधोऽस्ति दोष एकस्य मुक्तौ सकलस्य मुक्तिः । मुच्येत नो कोऽप्यथवेति मुग्धा मुधा वदन्त्यश्रुततुर्यतत्त्वाः ॥ ३९१॥ जीवा भवेऽस्मिन् बहवो भवन्तु सत्यात्मनो नैव बहुत्वमिष्टम् । नाना मृषैवाप्युत जीवरूप- मेकं च सत्यं शिवमात्मरूपम् ॥ ३९२॥ अंशां न सत्या हि चितः परस्य अविद्ययाऽंशाः परिकल्पिता हि । पदे तुरीये विदुषो विभाति पूर्णाऽविभक्ता च निरंशका सा ॥ ३९३॥ चिदेकका सर्वगता समा च तस्या विभागो विषमोऽज्ञतैव । देशो न सत्यो ह्यत एव तस्याः समो विभागोऽपि च नास्ति सत्यः ॥ ३९४॥ विस्पष्टमेवं गुरुणोपदिष्टा चितः परस्या अविभक्ततैव । मुह्यन्त्वबुद्धस्य गुरोस्तु शिष्या अस्माकमत्रास्तु कथं नु मोहः ॥ ३९५॥ सिद्धे मृषात्वे सति जीवनाम्न- श्चिन्त्ये कथं बन्धविमोचनेऽस्य । न बन्धमुक्ती भवतोऽच्युतस्य पूर्णस्य सत्यात्मन एककस्य ॥ ३९६॥ देहस्य दिक्कालमितस्य चास्य तयोरतीतस्य चिदात्मनश्च । परस्पराध्यासकृताविवेकात् प्रतीयते सत्यवदेष जीवः ॥ ३९७॥ क्वचिच्छरीरेऽहमिति प्रतीत्या तत्सत्यमेवेत्यपि निश्चयेन । पश्यन्ननेकानि वपूंशि सद्व- ज्जीवान् पृथक् पश्यति तत्र तत्र ॥ ३९८॥ एकः शरीरेष्वनृतेषु सत्यो विभक्तवद्भात्यविभक्त आत्मा । पूर्णं तमात्मानमरूपमज्ञो मत्वा सरूपं समवैत्यनेकम् ॥ ३९९॥ प्रतिक्षणं नूतनमेव चित्रं पश्यन् यथैकं मनुते तथैव । प्रतिक्षणं वीक्ष्य नवं शरीरं तत्सर्वमेकं मनुतेऽज्ञमर्त्यः ॥ ४००॥ एवं सदा नूतन एव देहे जीवं नवं कल्पयतेऽस्य चित्तम् । अतो हि बुद्धा निगदन्ति जीवं तमेनमेव क्षणिकं च मिथ्या ॥ ४०१॥ देहोऽहमित्युत्तमपूरुषं च देहान्तरे मध्यमपूरुषं च । अन्यत्र देहे प्रथमं पुमांसं पश्यत्यविज्ञातनिजस्वरूपः ॥ ४०२॥ भिन्नास्त्रिधैवं पुरुषा न सत्या देहोऽहमित्यज्ञतया प्रतीताः । नष्टेऽहमि स्वात्मगवेषणेन चिद्रूप आत्मैकक एव भायात् ॥ ४०३॥ प्रत्येति यः स्वं बत जीवभूतं जीवा अनेके विलसन्ति तस्य । एवंविधा ज्ञानविवर्जितस्य भायान्न बुद्धस्य तु कोऽपि जीवः ॥ ४०४॥ स्त्रियः पुमांसो बहवश्चरन्ति पटप्रकाशे खलु चित्रमात्राः । एवं चरन्त्यात्मनि चित्स्वरूपे जीवा अनेके बत चित्तमात्राः ॥ ४०५॥ पटप्रकाशोपममात्मतत्त्वं चित्रोपमा एव भवन्ति जीवाः । आत्माद्वयत्वं परमार्थमेवं न बाध्यते जीवबहुत्वभानात् ॥ ४०६॥ आत्मेति जीवस्य विनिश्चयेन प्रत्येति नानात्वमिहात्मनां च । सत्यं तु नात्मानमवैति पूर्णं मुह्यत्यतो भेदधियाऽपकृष्टः ॥ ४०७॥ यथा शरावेषु पृथग् जलेषु विभान्त्यनेके प्रतिबिम्बचन्द्राः । तथैव देहेषु मनस्सु भान्ति जीवा अनेके प्रतिबिम्बमात्राः ॥ ४०८॥ यथार्थ चन्द्रो भविता यथैक आत्मा यथार्थोऽपि तथैक एव । यथा च नाना प्रतिबिम्बचन्द्राः विभान्ति नानेव तथैव जीवाः ॥ ४०९॥ पृथग् जलेन्दोर्निधने विभान्ति यथैव पूर्वं हि जलेन्दवोऽन्ये । पृथक् चिदाभासमृतौ तथान्ये पूर्वं यथा भान्ति मृषैव सन्तः ॥ ४१०॥ यो यो विजानाति निजं स्वरूपं तस्मै भवोऽयं विरतिं प्रयाति । अन्ये यथापूर्वमिह भ्रमन्ति यावद्विजानन्ति निजं न तत्त्वम् ॥ ४११॥ एषोपमा मन्दमतिभ्य उक्ता तेषां मृषाज्ञानमनूद्य बुद्धैः । जीवो मृषैवेत्यवयन्ति ये तु निरर्थकोऽयं भविता विवादः ॥ ४१२॥ स्वप्ने यथा मानसमोहजाता जीवा अनेके विलसन्ति सद्वत् । तथाऽज्ञपुंसां विलसन्त्यनेके जीवा इमे जागरितेऽप्यसन्तः ॥ ४१३॥ स्वानां बहुत्वं वदतां प्रमाणं निरस्तदोषं न हि किञ्चिदस्ति । आत्माद्वयत्वेऽस्त्युभयं प्रमाणं बुद्धानुभूतिश्च तदुक्तयुक्तिः ॥ ४१४॥ अहंस्वरूपेण सदैकधाऽन्त- रात्मा शरीरेषु विभाति यस्मात् । तत् सर्वदेहेषु स एक एवे- त्यस्मद्गुरुः श्रीरमणो ब्रवीति ॥ ४१५॥ ध्येया सदैवाद्वयता प्रयत्नाद् वर्तेत नाद्वैतधिया क्रियासु । मन्येत लोकत्रितयेऽद्वयत्वं मन्वीत नैवं गुरुणा तु साकम् ॥ ४१६॥ यथाऽज्ञपुंसां भुवनं विभाति भायात् तथेदं विदुषः कथं नु । येन प्रकारेण विभाति विश्वं बुद्धस्य तं चापि गुरुर्ब्रवीति ॥ ४१७॥ ईशोऽपि जीवा जडवस्तुजात- मिति प्रतीतं जगदज्ञमर्त्यैः । बुद्धस्य भात्यात्मतया समस्तं ह्यारोपितांशप्रविलापनेन ॥ ४१८॥ तत् तुर्यनिष्ठां सहजामवाप्य जीवन् विमुक्तो विनिवृत्तमोहः । नात्मेतरत् किञ्चन वीक्षते यत् किमप्यसत् तस्य भवेत् कथं नु ॥ ४१९॥ तत् स्वम् शरीरं भुवनं च सत्यं वदेत् प्रबुद्धोऽपि च यद्वदज्ञः । भावे द्वयोरस्ति महांस्तु भेदो नारोपितांशो विदुषो हि भाति ॥ ४२०॥ मुमुक्षुपुंसे हि विवेकदृष्टि- र्विधीयते नैव विमुक्तपुंसः । भवेन्मुमुक्षोरविवेकदृष्टि- र्न सम्भवेत् सा खलु बुद्धपुंसः ॥ ४२१॥ देहात्ममत्याऽज्ञजनः सरूपं वपुर्मितं चापि हि मन्यते स्वम् । ज्ञो वेत्त्यनन्तं स्वमरूपमेकं भावे भिदैवं भवति द्वयोश्च ॥ ४२२॥ शरीरमित्यज्ञजनेक्षितं यद् बुद्धस्य भात्यत्मतयैव तद्धि । तदेव बुद्धोऽहमिति ब्रवीति ह्युपेक्ष्य बोधेन शरीररूपम् ॥ ४२३॥ सत्यं प्रपञ्चं वदतोर्द्वयोश्च वाक्ये समानेऽपि भिदाऽस्ति भावे । अज्ञस्य भेदैर्हि निमीलितं सत् सत्यं यथावद्विदुषस्य भाति ॥ ४२४॥ आधारसत्यं जगतोऽविदित्वा समीक्ष्य चारोपितवस्तुजातम् । मन्वान एतत् स्वत एव सत्यं ब्रवीति सत्यं जगदित्यविद्वान् ॥ ४२५॥ विभात्यधिष्ठानसदेव शुद्ध- मनामरूपं विदुषो हि साक्षात् । नारोपितं भाति हि तस्य सद्वत् वदेन्मृषा विश्वमसौ कथं नु ॥ ४२६॥ आच्छादकं विश्वमिदं परस्य स्वाज्ञानसन्दूषितलोचनस्य । आच्छाद्यते तेन सता परेण स्वज्ञानसंशोधितलोचनस्य ॥ ४२७॥ तत्त्वं विजानन् मृगतृष्णिकाया भूयो यथा पश्यति ताममूढः । पश्यंस्तथा विश्वमिदं प्रबुद्धो न मन्यते सत्यमिदं यथाऽज्ञः ॥ ४२८॥ विश्वं यथाऽज्ञैः सदिति प्रतीतं नैवं हि सत्यं तदिदं कथञ्चित् । सत्यं यथेदं विदुषो विभाति जनन्त्यबुद्धा न हि तं प्रकारम् ॥ ४२९॥ यदज्ञपुंसां बहुभेदभिन्नं सरूपकं स्वान्यदिवावभाति । तदेतदात्मैव हि बुद्धपुंसो निरस्तभेदोऽप्युत रूपहीनः ॥ ४३०॥ अत्यन्तमिथ्या न हि विश्वमुक्तं नेदं नराश्वादिविषाणतुल्यम् । अत्यन्तमिथ्या यदि नैव भायाद् भाति त्वधिष्ठानसदंशयोगात् ॥ ४३१॥ मिथ्या ह्यधिष्ठानसता विहीनं वन्ध्यासुताद्यं न विभाति किञ्चित् । मिथ्य त्वधिष्ठानसति प्रतीतं रज्ज्वां यथाऽहिः सदिवावभाति ॥ ४३२॥ सत्ताऽप्यसत्ताऽप्युभयं च वाच्यं विश्वस्य नास्त्यत्र विरोधलेशः । सत्ताऽस्त्यधिष्ठानसदंशयोगा- न्मिथ्यात्वमारोपितनामरूपैः ॥ ४३३॥ सत्यत्वमङ्गीकृतमेवमस्य किं त्वेतदस्तीत्युचितं न वक्तुम् । सत्तास्तिते द्वे भवतो विभिन्ने तदुच्यतेऽस्तीति यत् स्वतः सत् ॥ ४३४॥ वदन्ति विश्वं व्यवहारसत्यं प्रातीतिकं स्वप्नसमीक्षितं च । ब्रह्माद्वितीयं परमार्थसत्यं मुधा विकल्पास्त इमे हि भेदाः ॥ ४३५॥ एकस्वरूपैव हि सत्यताऽस्ति न सन्ति भेदाः खलु सत्यतायाम् । अतो ह्यसत्यं द्वितयं समानं स्वप्नेक्षितं जागरितेक्षितं च ॥ ४३६॥ विश्वस्य मिथ्यात्वमिहोपदिष्टं स्वान्वेषणात् तुर्यपदस्यलिप्सोः । सत्यं प्रपञ्चं बत मन्यमानो विद्यात् कथं स्वं परमार्थसत्यम् ॥ ४३७॥ यत् सत्यवत् स्यादनृतस्य भानं ज्ञानेन तस्यस्ति विराम एव । संविद्धिवस्वान् खलु सत्य आत्मा तत्सन्निधाने कथमस्त्वविद्या ॥ ४३८॥ अस्त्यज्ञता चेदथ कस्य सेति प्रश्नोऽत्र जागर्ति हि साधकस्य । तेनात्मतत्त्वं परिमृग्यते चे- दज्ञोऽज्ञता द्वे व्रजतो विनाशम् ॥ ४३९॥ अज्ञानमङ्गीक्रियतेऽत्र शास्त्रे जीवाभिधस्यैव हि कल्पितस्य । नैवात्मनोऽङ्गीकृतमेतदस्ति स नित्यबुद्धप्रकृतिर्हि तुर्यः ॥ ४४०॥ सम्बध्यते नैव सहानृतेन द्वैतप्रपञ्चेन कदाचिदात्मा । देशेन कालेन निमित्ततो वा यथेह रज्जुर्भुजगेन साकम् ॥ ४४१॥ उक्ता जगत्कारणता परस्य भवत्यसत्यैव हि तत्त्वदृष्ट्या । परस्य शक्तिस्त्रिगुणात्मिका या मायाभिधा कारणमुच्यते सा ॥ ४४२॥ द्वे ब्रह्मणी हि श्रुतिषु प्रसिद्धे निर्बीजकं चापि सबीजकं च । निर्बीजकं ब्रह्म तुरीयसञ्ज्ञं सबीजकं शक्तिमदीशरूपम् ॥ ४४३॥ स्वभावतो निश्चल एक आत्मा नृत्यं करोतीव तयाऽऽत्मशक्त्या । लीना यदा सा त्वचलस्वरूपे भायादसौ निश्चल एककः सन् ॥ ४४४॥ मायेयमुक्ता व्यवहारदृष्ट्या मिथ्याजगत्कारणपृच्छकानाम् । मायाऽपि तत्कार्यमिदं जगच्च द्वयं च मिथ्या परमार्थदृष्ट्या ॥ ४४५॥ का नाम माया कतमाऽस्त्यविद्या सृष्टं जगत्केन कथं च पूर्वम् । कथं न्वभूज्जीव इति स्म मोहात् प्रश्नाः क्रियन्तेऽत्र मुधैव मर्त्यैः ॥ ४४६॥ मायेदृशी यन्निधनान्मुमुक्षु- र्लभेत निष्ठां निजसत्स्वरूपे । न वेत्ति बुद्धोऽपि तदीयरूपं सा प्रेक्ष्यमाणैव हि नाशमेति ॥ ४४७॥ Quote - Yoga Vasishtha ईदृशी राम मायेयं या स्वनाशेन हर्षदा । न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ मनस्तया ब्रह्म न पर्यणंसीत् जगत्तया ब्रह्म न प्रयणंसीत् । ब्रह्मास्ति नैजामलचित्स्वरूपा- दप्रच्युतं कालदिगाद्यतीतम् ॥ ४४८॥ नाभूज्जगन्न प्रलयं व्रजेद्वा नैवोदभूत् कश्चन जीवनामा । न बद्धमुक्तौ न च साधको वा सर्वोत्तमं सत्यमिदं निरुक्तम् ॥ ४४९॥ यथा चलच्चित्रतिप्रसृत्या नाधारवस्त्रं भजते विकारम् । न विक्रियामेति तथा परात्मा प्रतीयमाने सति च प्रपञ्चे ॥ ४५०॥ श्रीशङ्कराचार्यवरेण सोऽयं सिद्धान्त उक्तोऽस्त्यसकृत् स्फुटं च । अनेकधा स्पष्टमिमं ब्रवीति बुद्धो गुरुः श्रीरमणोऽपि साधोः ॥ ४५१॥ उक्तं हि नेतास्ति तुरीयमेव सत्यं तदन्यत् त्रितयं मृषेति । उक्तं च सत्यस्य सदाद्वयत्वं द्वैतं च नित्यं च मृषात्वमेव ॥ ४५२॥ न किञ्चनेह त्वदृतेऽस्ति सत्यं त्वमेककः कालदिगाद्यतीतः । अपास्य मिथ्याभ्रममास्स्व शान्त इत्यात्मनिष्ठा गदिताऽस्ति तेन ॥ ४५३॥ मत्स्थानि भूतानि न तत्त्वदृष्ट्या मदीयमायैव समस्तमेतत् । इत्यात्मनोऽजातिमुवाच सत्यां गीतासु कृष्णो भगवान् स्वयं च ॥ ४५४॥ पूर्णात्मतां स्वामजहत् परं सत् स्वमायया पूर्णमिदं बभूव । बुद्धस्य पूर्णात्मतयैव भाती- त्यजातिरुक्ता श्रुतिशीर्षवाचा ॥ ४५५॥ विस्मृत्य यत् स्वं वपुरात्ममत्या भ्रान्त्वाऽप्यसङ्ख्येषु भवेषु चान्ते । स्वतत्त्वबोधात् भवति स्व एव स स्वप्नलोकाटनतः प्रबोधः ॥ ४५६॥ यथा मनुष्यो मधुपानमत्तः कोऽहं नु कुत्राहमिति पपृच्छन् । आत्मैव सन्नेवमिहाज्ञमर्त्यः कोऽहं कुतोऽहं न्विति पृच्छति स्वम् ॥ ४५७॥ अस्त्यात्मनोऽन्तर्वपुरित्यबुद्ध्वा तस्मिञ्जडेऽस्मीत्यभिमन्यते यः । मन्येत चित्रस्थमसौ तदीय- माधारभूतं बत वस्त्रमेव ॥ ४५८॥ स्वर्णात् पृथग् भूषणमस्ति किं नु स्वस्मात् पृथक् किं नु शरीरमस्ति । शरीरमेव स्वमवैत्यबुद्धः शुद्धं स्वमेव स्वमवैति बुद्धः ॥ ४५९॥ तमेकमात्मानमनादिसत्यं मौनोपदेशाद् गुरुरादिमोऽपि । निबोधयामास कथं नु कोऽपि वाचा वदन् बोधयितुं समर्थः ॥ ४६०॥ इत्यात्मतत्त्वं बहुधोदितं चा- प्यनुक्तमेवानु भवैकवेद्यम् । ताम् स्वानुभूतिं निरुणद्धि चित्तं निरूढदेहात्मधिया मुमुक्षोः ॥ ४६१॥ श्रुत्यैव चैवं विमलान्तरङ्गाः सद्योऽपि निष्ठां सहजां लभेरन् । अन्यैस्त्वहङ्कारविनाशनाय सुसाधनं किञ्चिदनुष्ठितव्यम् ॥ ४६२॥ अन्तर्हृदि स्वं विमलं विशोकं जिज्ञासयाऽन्विष्य लभेत शान्तिम् । इति श्रुतिर्वक्ति गुरुश्च मार्गं ऋजुं स्वरूपानुभवाय साधोः ॥ ४६३॥ जिज्ञासनं नाम निगद्यतेऽत्र निजस्वरूपानुभवस्य लिप्सा । तयैव हि स्वात्मगवेषणेऽस्मि- न्नन्तर्मुखत्वं भविता मुमुक्षोः ॥ ४६४॥ श्रुतिप्रसिद्धं भवनं परस्य सत्यात्मभूतस्य हृदाख्यमस्ति । स एव सर्वं हि कथं नु तस्य निर्दिश्यते स्थानमिदं हृदाख्यम् ॥ ४६५॥ प्रज्ञास्वरूपं हृदयं हि सत्यं प्रज्ञास्वरूपः स च सत्य आत्मा । अतः स आत्मा हृदयं हि सत्यं प्रतिष्ठितं सर्वमिदं हि तस्मिन् ॥ ४६६॥ तथाऽपि बुद्धा निगमान्तवाचो विधातुमन्तर्मुखतां गवेषे । अन्तः शरीरे निलयं हृदाख्यं दिशन्ति तस्यानिलयस्य पुंसः ॥ ४६७॥ बहुर्मुखान्येव किलेन्द्रियाणि यतः प्रपञ्चेन निमील्यते स्वः । उपाय उन्मीलयितुं स्वरूपं स्वान्वेषणेऽन्तर्मुखतैव साधोः ॥ ४६८॥ Quote - Katha Upanishad पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात् पराङ् पश्यति । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ बन्धस्य मुक्तेरिदमन्तरं हि सन्दर्शितं स्वानुभवेन बुद्धैः । बद्धस्य पुंसः समुदेत्यहन्ता नोदेत्यहन्ता तु विमुक्तपुंसः ॥ ४६९॥ नित्यापरोक्षोऽपि सदैव जन्तो- रात्मा महान् प्रेष्ठ उरुप्रकाशः । दुरात्मनाऽहङ्कृतिरूपकेण हृतप्रभो यद्वदलं न भाति ॥ ४७०॥ देहोऽहमस्मीत्यनुभूतिरूपो भवत्यबोधः खलु बन्धरूपः । बोधोऽहमस्मीति विनाऽनुभूतिं कथं नु नीयेत विनाशमेषः ॥ ४७१॥ देहोऽहमस्मीति समुद्भवन्ती धीरेवरूपं खलु जीवनाम्नः । सत्यांशमस्यैव विविच्य साधु- र्गवेषयेज्जन्मभुवं तदीयम् ॥ ४७२॥ नात्यन्तमिथ्या खलु जीव एष नायं हि वन्ध्यातनयस्य तुल्यः । आत्माह्यधिष्ठानतयाऽस्ति तस्मा- न्मृषाऽपि सन् सत्यवदेव भाति ॥ ४७३॥ सत्यांश एतस्य हि जीवनाम्नः सत्यात्मचैतन्यमहंस्वरूपम् । आदाय सत्यांशमिमं मुमुक्षुः- र्भवेत् समर्थो निजमार्गणाय ॥ ४७४॥ अस्यासदंशं वपुरादिसर्वं विहाय शिष्टां निरुपाधिकां ताम् । सत्यात्मनो दीधितिवत् सुसूक्ष्मा- महंस्वरूपां चितिमाददानः ॥ ४७५॥ श्वा स्वामिनं स्वं समुपैति यद्वत् तद्गन्धमादाय गवेषयित्वा । लभेत यत्किञ्चन मग्नवस्तु निमज्ज्य यद्वत् सलिले तथा वा ॥ ४७६॥ अस्याहमो जन्मभुवं स्वतत्त्वं विमृग्य कोऽहं नु कुतोऽहमेषः । इति स्वतत्त्वानुबुभूषयाऽन्त- र्निमज्ज्य निष्ठां सहजां लभेत ॥ ४७७॥ बहिर्मुखत्वं निजमार्गणेऽस्मिन् व्रजेन्मनश्चेद्विषयाभिमुख्यात् । पुनर्मनोऽन्तर्मुखमेव कुर्यात् साधुः प्रयत्नात् प्रविलापदृष्ट्या ॥ ४७८॥ तरङ्गफेनादिकमब्धिमात्रं स्वाप्नं जगत् स्वप्नदृगेव यद्वत् । सर्वं जगच्चाप्यहमेव नान्य- दिति प्रतीतिः प्रविलापदृष्टिः ॥ ४७९॥ कस्येदमेवं विषयाभिमुख्य- मिति स्वतत्त्वस्य दिदृक्षया वा । अन्तर्मुखीकृत्य पुनः पुनश्च मनो नियुञ्जीत गवेषयोगे ॥ ४८०॥ कदा नु निष्ठां सहजां लभेये- त्येवं निरुत्साहमना विषीदन् । भक्तोऽथवा स्वात्मगवेषयोगी स्वयं विमुक्तेर्निरुणद्धि मार्गम् ॥ ४८१॥ उत्साहसन्तोषयुतेन भाव्यं मुमुक्षुणा सात्त्विकमानसेन । अनुस्मरन् कालमृषात्वमुक्तं मनो नियुञ्जीत गवेषयोगे ॥ ४८२॥ प्रश्नस्य कोऽस्मीति सदैव साधो- र्द्वाराणि सर्वत्र च सम्भवन्ति । द्वारेण केनापि गवेषणेऽस्मिन् मनो नियुञ्जीत पुनः पुनश्च ॥ ४८३॥ नास्योत्तरं काचनबुद्धिवृत्ति- र्न वेत्ति धीस्तं खलु तुर्यसत्यम् । अस्योत्तरं स्वानुभवस्तुरीये नष्टेऽहमि प्रष्टरि जीवनाम्नि ॥ ४८४॥ यो निर्विकल्पः सहजः समाधि- स्तत्रैव भायात् स्फुटमात्मतत्त्वम् । अन्यत्र धीवृत्तिविमिश्रितत्वाद् भायाद्यथावन्न हि सत्य आत्मा ॥ ४८५॥ नियुक्तमेवं तु मनो गवेषे लीयेत चेन्निष्फल एव यत्नः । लयात् प्रबोध्याथ पुनश्च साधु- र्मनो नियुञ्जीत मनोगवेषे ॥ ४८६॥ नाशो लयश्चेत्युभयप्रकारो मनोनिरोधो गुरुणाऽस्ति दिष्टः । मनोलयस्यानिलरोधनाद्या भवन्त्युपाया हठयोगमार्गे ॥ ४८७॥ मनो विलीनं सह वासनाभि- र्भवाय पश्चात् पुनरुद्भवेद्धि । नष्टं मनश्चेन्निजमार्गणेन निर्वासनं भर्जितबीजवत् स्यात् ॥ ४८८॥ बध्नात्यविद्या बत वासनाभिः स्वाज्ञं हि ता एव मनः स्वरूपम् । गवेषणे स्याद्यदि जागरूकं मनस्तु तासां भविताऽथ नाशः ॥ ४८९॥ ज्ञानोदयः स्यान्मनसो विनाशा- न्नष्टासु सर्वास्यपि वासनासु । मुक्तिर्निरुक्ताऽखिलवासनाना- मात्यन्तिको नाश इति प्रबुद्धेः ॥ ४९०॥ क्षुरस्य धारा निशिता यथैवं मार्गो ह्ययं स्वात्मविचारनामा । रागो लयश्चेत्युभयं विहाय तिष्ठेत् सदैकाग्रधिया गवेषे ॥ ४९१॥ अन्येषु योगेषु हि जीवनामा सन् कोऽपि कर्मादिकदोषयुक्तः । अस्तीति मत्वैव च दोषहीनं विधातुमेनं यतते हि योगी ॥ ४९२॥ कर्मित्वनाशाय च कर्मयोगो विभक्तिनाशाय च भक्तियोगः । वियोगनाशाय च राजयोगो- ऽप्यबोधनाशाय च बोधयोगः ॥ ४९३॥ स एव साक्षात् पुरुषः परः सन् स्वस्मात् पृथक् स्वं गणयन्नबुद्धः । तेनैक्यमिच्छन् यतते च योगै- र्हास्यं हि तस्मादितरत् किमस्ति ॥ ४९४॥ आदाय जीवस्य चिदंशमेव तन्मूलभूतात्मगवेषणेन । निर्दोष आत्मैव हि भात्यनन्तो न शिष्यते कश्चन तत्र जीवः ॥ ४९५॥ अतो महायोगसमाख्यकोऽयं नान्योऽस्य योगस्य समोऽधिको वा । अन्तर्भवन्त्यत्र समस्तयोगा अङ्गानि ते ह्यस्य यथोचितं स्युः ॥ ४९६॥ जीवोदयस्थानगवेषणं यत् स एक एवाखिलयोगमार्गाः । स कर्मयोगोऽप्युत भक्तियोगः स राजयोगोऽप्युत बोधयोगः ॥ ४९७॥ प्रश्नस्वरूपो हि गवेष एव न ध्यानवत् साधनमेतदुक्तम् । हृन्मज्जनं सम्भवति ह्यनेन प्रश्नेन न ध्यानपरम्पराभिः ॥ ४९८॥ केचिन्निदिध्यासनमाचरन्ति श्रुत्वाऽपि मत्वाऽपि निजं स्वरूपम् । अन्यो हि मार्गोऽयमुतान्य एव स्वान्वेषरूपो रमणोपदिष्टः ॥ ४९९॥ ब्रह्मात्मनोस्तत् त्वमसीत्यभेद- श्छान्दोग्यवेदान्तनिरूपितोऽस्ति । अभेद एष प्रतिपाद्यते च वाच्यार्थलक्ष्यार्थविवेचनेन ॥ ५००॥ वाक्येऽत्र तच्छब्दनिवेदितस्य चर्चां विना त्वम्पदलक्षितस्य । सत्यात्मनस्तत्त्वगवेषणस्य कर्तव्यतां श्रीरमणो ब्रवीति ॥ ५०१॥ एवं गवेषेण भवेन्मुमुक्षो- र्हृन्मज्जनात् स्वानुभवस्तुरीये । न स्यान्निदिध्यासनमस्य कार्यं नानेन कार्यं मननं च दीर्घम् ॥ ५०२॥ श्रुत्योदिते तत्त्वमसीति वाक्ये ध्यानं न किञ्चिद्विहितं हि साधोः । उक्ता परस्यैव तुरीयभावे बुद्धेन सत्यात्मतयाऽनुभूतिः ॥ ५०३॥ तत्त्वं स्वकं यन्निरुपाधिकं तद् ब्रह्मेति वेदान्तगिरा सुसिद्धे । ब्रह्मात्मनोरेकतयाऽनुभूत्यै स्वान्वेषणात् किं करणीयमन्यत् ॥ ५०४॥ विहाय देहात्ममतिं विमृग्य स्वमेव बुद्ध्वा हृदि निष्ठितस्य । भात्यात्मरूपः पर एव साक्षा- दित्यर्थको हि श्रुतिशीर्षवाणी ॥ ५०५॥ निजस्वरूपस्य गवेषणं यत् साक्षाद् भवेत् साधनमेतदेव । उक्तं निदिध्यासनमङ्गस्य देहात्मधीनिर्मथनाय साधोः ॥ ५०६॥ हृन्मज्जनं स्वात्मगवेषणेऽस्मिन् न सम्भवेद् दुर्बलमानसस्य । वृत्तिष्वनेकासु विभज्यमानं नितान्तमल्पं मनसो बलं हि ॥ ५०७॥ एकाग्रता या मनसो गवेषे मनोबलं नाम तदेव नान्यत् । ईदृग् बलं यस्य भवेत् स एव धीरः स्वधीरक्षणकौशलेन ॥ ५०८॥ ध्यानेन वर्धेत मनोबलं यत् तद् ध्यानमङ्गं निजमार्गणस्य । ध्यानान्मनो निश्चलतां प्रसाध्य ततः स्वतत्त्वं मृगयेत धीरः ॥ ५०९॥ अहंस्वरूपा चितिरात्मनो या सर्वोत्तमं ध्येयमिदं मुमुक्षोः । मज्जेदनेनैव मनो हृदन्त इत्यस्मदाचर्यवरोपदेशः ॥ ५१०॥ शान्तिं नयन् केवलकुम्भकेन चित्तं विना पूरकरेचकाभ्याम् । सज्जेत चेत् स्वात्मगवेषयोगे हृन्मज्जनं स्यान्मनसो मुमुक्षोः ॥ ५११॥ देहं पृथक्कृत्य निजस्वरूपे विश्रम्य तिष्ठेद्यदि चित्स्वरूपे । अहम्मतिस्तस्य विनाशमेती- त्येवं वसिष्ठो भगवानवोचत् ॥ ५१२॥ आत्मानमन्विष्य मनः कयाऽपि शक्त्या गृहीतं हृदये निमज्जेत् । तत्रात्मनश्चित्प्रभया निगीर्णं मनोऽहमा साकमुपैति नाशम् ॥ ५१३॥ शक्तिः कृपाख्या खलु सा परस्य सत्यात्मभूतस्य हृदि स्थितस्य । विद्यामयी सा हि समर्प्य तस्यै स्वमेव साधुर्भविता कृतार्थः ॥ ५१४॥ ज्ञानाग्निना विश्वमिदं प्रदग्धं सहाहमा यत्र महाश्मशाने । चिद्व्योम्नि तत्राहमहन्तयाऽऽत्मा सदाशिवो नृत्यति केवलः सन् ॥ ५१५॥ तदेव चिद्व्योम हि तत्स्वरूपं नृत्येदसौ तत्र कथं न्वरूपः । आनन्दरूपत्वममुष्य दिष्ट- मेवं हि तन्निश्चलनृत्यमेव ॥ ५१६॥ न तत्र मायाऽस्ति न काऽप्यविद्या न देशकालौ न च कोऽपि जीवः । तस्मिन् पदे निर्मलचित्स्वरूप आत्मैक एवास्ति न किञ्चिदन्यत् ॥ ५१७॥ मायाभिधाना परमेशशक्तिः सर्वं जगद्यत्परिणाम एव । नष्टैव सेयं ह्यचले परस्मिन् साकं स्वकार्यैरपि तुर्यभावे ॥ ५१८॥ विभात्यतस्तुर्यपदे प्रशान्ते सत्यात्मरूपं प्रतिबन्धहीनम् । तस्मिन् पदे स्वात्मतयाऽवशिष्टो निगद्यते मुक्त इति प्रबुद्धैः ॥ ५१९॥ सुदुःखिता स्त्री श्वशुरस्य गेहे मातुर्गृहे शान्तिमुपैति यद्वत् । एवं मनः संसृतिदुःखतप्तं निवृत्य मूलं निजमेव शान्तम् ॥ ५२०॥ यथा नरः स्वप्नसमुत्थितः सन् स्वाप्नं जनं पश्यति नैव कञ्चित् । अज्ञाननिद्रोत्थित एवमेको न वीक्षते कञ्चिदपि स्वतोऽन्यम् ॥ ५२१॥ यस्तन्मयानन्दनिमग्न आस्ते स्वान्यस्य बोधेन विनाऽद्वयत्वे । पदं तदीयं सहजं प्रशान्तं धीगोचरत्वं भजतां कथं नु ॥ ५२२॥ विनष्टचित्तं निजसत्यभावे विनष्टदेहं च विनष्टलोकम् । ज्ञातुं प्रबुद्धं भविता समर्थः स्वबुद्धिशक्त्यैव कथं नु मर्त्यः ॥ ५२३॥ अलक्षणं तन्न मनोऽपि मन्तुं शक्नोति तुर्यं न वचोऽपि वक्तुम् । अतन्निरासेन तु बोधयन्ति वेदान्तवाचोऽपि हि तत्स्वरूपम् ॥ ५२४॥ वाचाऽपि वक्तुं मनसाऽपि मन्तुं शक्यं यदल्पं खलु तत्समस्तम् । अगोचरत्वान्मनसो धियोऽपि भूमेति जानन्ति तमात्मनिष्ठाः ॥ ५२५॥ यद्यत् प्रबुद्धैर्निगमान्तवाक्यैः सत्यं परं प्रत्युपदिष्टमस्ति । तत्तत्फलं शिष्यमृषाग्रहाणां निरास एवेति वदन्ति बुद्धाः ॥ ५२६॥ सीता यथा दाशरथिं दिदेश निषेधनादन्यनृपात्मजानाम् । तथात्मनो रूपमतन्निरासै- र्वेदान्तवाचः प्रतिपादयन्ति ॥ ५२७॥ अर्थो न वेद्यो न च वेदनीयः स्वयम्प्रभः केवल एक आत्मा । तमो निरासेन विना न किञ्चित् गुरूपदेशैः क्रियते हि साधोः ॥ ५२८॥ ज्ञानात्मकः स्वो हि तिरोहितोऽज्ञैः प्रापञ्चिकज्ञानमयैस्तमोभिः । तमांसि तान्येव गुरूपदेशा निरस्य साधुं हि कृतार्थयन्ति ॥ ५२९॥ यथाऽवकाशं जनयेन्न कोऽपि निरोधकापाकरणं विहाय । तथाऽऽत्मलाभाय न कार्यमन्य- द्धित्वा मृषाज्ञाननिरासमस्ति ॥ ५३०॥ लब्धव्य आत्मा भविता कथं नु नासौ विनष्टः खलु तत्त्वदृष्ट्या । येनाहमाऽऽत्माऽस्ति तु नष्टकल्पो नाशस्तदीयो भविताऽऽत्मलाभः ॥ ५३१॥ परा च पश्यन्त्युत मध्यमा च वाग् वैखरी चेति चतुःप्रकारा । सा वाक् परा नाम तु मौनमेव तदेव रूपं च सतः परस्य ॥ ५३२॥ वाग् वैखरी मध्यमवाक्प्रसूता वाग् वीक्षमाणाऽस्ति तदीयमाता । तस्याः परा वागिति सुप्रसिद्धा वाक् सैव मौनं पर चित्स्वरूपम् ॥ ५३३॥ व्याख्या यथार्थाऽप्युत मौनमेव स्थितस्य बुद्धस्य पदे तुरीये । वाग् वैखरी भेदमतिप्रसूता वदेत् परं तं कथमस्तभेदम् ॥ ५३४॥ अतो हि मौनेन दिदेश रूप- मात्मस्वरूपस्य गुरुः पुराणः । मौनेन वाचो मनसोऽपि पूर्वे शिष्या अबुध्यन्त तदीयरूपम् ॥ ५३५॥ गुरोः प्रबुद्धस्य हि मौनभावात् स्वयं प्रबुद्धाश्च भवन्ति सन्तः । वाचोपदेशाः प्रभवन्ति नैव तत्त्वं परं बोधयितुं यथावत् ॥ ५३६॥ गुरोः प्रबुद्धस्य यदस्ति मौनं शक्तिस्तदीया न हि मानमेति । मौनोपदेशः परमो हि तस्मात् तेनैव साधोर्हि मनःप्रशान्तिः ॥ ५३७॥ दीक्षा त्रिधोक्ता गुरुणा प्रयोज्या निरीक्षणध्यानकराभिमर्शाः । गुरोस्तु मौनस्थितिसम्प्रयुक्तां ब्रवीति दीक्षां परमां गुरुर्नः ॥ ५३८॥ मौनोपदेशादपि मौनभावे स्थित्वैव लभ्या भवतीत्यतश्च । मौनं पदं तं निगदन्ति बुद्धा मौनी वदन्नेव स सम्प्रबुद्धः ॥ ५३९॥ सकृद्विभातं पदमव्यं त- च्चैतन्यभानोः प्रभयैव तस्य । अतः प्रमादाच्च्युतिरात्मभावा- न्न बुद्धपुंसो भविता कदाचित् ॥ ५४०॥ अत्ता समस्तस्य चराचरस्या- प्यात्मेति वेदान्तगिरा यदुक्तम् । निर्दिश्यते तेन तदीयभासा ग्रासोऽस्य विश्वस्य तमोमयस्य ॥ ५४१॥ निगीर्य सर्वं घनविश्वरूपं चैतन्यभासा निजया परात्मा । एकोऽद्वयो भात्यरुणाचलेश इति स्वरूपं गुरुणाऽस्ति गीतम् ॥ ५४२॥ ब्रह्मात्मभावं प्रतिपद्य तुर्ये विमुच्यते स्वो भवबन्धपाशात् । इत्येष वादो न भवेद्यथार्थो नहि स्वरूपाच्च्युतिरात्मनोऽभूत् ॥ ५४३॥ न श्वेतिमानं नवमेति धौतं वस्त्रं स्वभावो ह्ययमस्य यद्वत् । ब्रह्मत्वमात्मा नहि याति बोधाद् ब्रह्मत्वमात्मप्रकृतिर्हि नित्यः ॥ ५४४॥ ब्रह्मज्ञ आत्मज्ञ इति प्रसिद्धे बुद्धस्य पुंसो भवतोऽभिधे द्वे । ब्रह्मैव चात्मैव यतः स बुद्धो ज्ञाते उभे तेन कथं भवेताम् ॥ ५४५॥ अब्रह्मताधीरहितत्वमेव ब्रह्मज्ञतोक्ता न तु काचिदन्या । आत्मज्ञता नाम भवेदनात्म- न्यात्मत्वमत्या रहितत्वमेव ॥ ५४६॥ तत्त्वं स्वमन्विष्य परस्य तस्य सत्यात्मनोऽन्नत्वमुपेत्य तुर्ये । कथं नु तस्मान्निजसत्स्वरूपात् तिष्ठेत् पृथक् कश्चन बुद्धनामा ॥ ५४७॥ अद्वैतनिष्ठामनुभूय तुर्ये जीवेत् पृथक्त्वेन कथं परस्मात् । तद् ब्रह्मनिर्वाणमुदीरितं हि कृष्णेन साक्षात् परमेण पुंसा ॥ ५४८॥ निर्दिश्यते ब्रह्म यथैव शास्त्रे निर्दिश्यते बुद्धपुमांस्तथैव । ब्रह्मस्वरूपं खलु संविदेव बुद्धस्वरूपं न ततोऽस्ति भिन्नम् ॥ ५४९॥ नात्मद्वयं कस्यचिदस्ति यस्मात् तद् वेद्मि मामित्यपि नेति हास्ये । वेद्यत्वमात्मा न कदाऽपि याती- त्येषाऽस्ति वाणी भगवत्तमस्य ॥ ५५०॥ अद्वैतनिष्ठेत्युदिताऽस्ति सेय- मुपाधिनिर्मुक्तनिजस्वरूपे । यतो न तस्मात् पृथगस्ति पूर्णं ब्रह्माभिधानं परसत्यमेकम् ॥ ५५१॥ अद्वैतता सा विदुषाऽनुभूता सत्यात्मनस्तुर्यपदाधिगत्या । न साधनाभ्यासबलेन सिद्धा सत्यात्मनः सा खलु नित्यसिद्धा ॥ ५५२॥ द्वैतं भवेत् सत्यमिदं हि तावद् यावद् भवेत् साधनतत्परत्वम् । सिद्धौ भवेदद्वयतोद्भवस्तु द्वैतप्रणाशादिति केचिदाहुः ॥ ५५३॥ नेमे विजानन्ति तु तुर्यतत्त्वं कालातिगं चानुदितप्रपञ्चम् । अद्वैतमाद्यन्तविवर्जितं हि द्वैतं सदिक्कालमसत् सदैव ॥ ५५४॥ मिथ्याभ्रमस्यैव विराम उक्तः शास्त्रे मुमुक्षोरहमो विनाशात् । सत्यं न बोधेन विनाशमीया- न्न भासते किञ्चिदसत् तुरीये ॥ ५५५॥ द्वैतं भवेत् सत्यमिदं सदैव ज्ञानेऽपि नैवास्य भवेद्विनाशः । अद्वैतसिद्धिर्न भवेत् कदाऽपी- त्येष मतिर्दूरतरैव साधोः ॥ ५५६॥ सत्या सदैवाद्वयताऽऽत्मनोऽसौ स्वान्वेषणे सत्यपि चात्मलाभे । लब्ध्वोऽभवद्यो दशमो गवेषात् पूर्वं च सोऽयं दशमो हि नान्यः ॥ ५५७॥ जानन्त्यजातिं परवस्तुनो ये माण्डूक्यवेदान्तनिरूप्यमाणाम् । तत्त्वे परे निश्चितबुद्धयस्ते मुह्यन्ति नैतादृशमुग्धवादैः ॥ ५५८॥ न भीतिकामौ भवतोऽद्वयत्वे स्थितस्य बुद्धस्य यथाऽज्ञपुंसः । द्वैतेक्षया मोहितमानसानां नृणामुभे कामभयेऽनिवार्ये ॥ ५५९॥ भीतिर्द्वितीयाद्धि भवेदितीदं भीत्यास्पदं द्वैतमिदं प्रदिष्टम् । भेदप्रतीत्या मुषितात्मभावो नात्येति भीतिं खलु कोऽपि जन्तुः ॥ ५६०॥ विद्वानगम्ये मनसोऽपि वाचा- मानन्दरूपात्मनि मोदमानः । बिभेत्यसौ नैव कुतश्चनेति श्रुत्योदिता निश्चलता तुरीये ॥ ५६१॥ नोदेति कामोऽपि हि कोऽपि तुर्ये मृतो ह्ययं कामयिताऽहमाख्यः । सर्वांश्च कामान् समकालमेव लब्ध्वेव बुद्धोऽस्ति हि नित्यतृप्तः ॥ ५६२॥ आत्मैव सर्वं हि तदीयलाभे लब्धव्यमन्यन्न हि किञ्चिदस्ति । तदाप्तकामो गदितोऽप्यकामः शास्त्रे प्रबुद्धोऽस्ति हि यद्वदीशः ॥ ५६३॥ साक्षात्कृतं येन निजं स्वरूपं स कस्य कामाय च किं समिच्छन् । तप्येत देहात्मधियेति वक्ति बुद्धस्य कामानुदयं श्रुतिर्हि ॥ ५६४॥ देहात्मना संस्थित एव कामी बुद्धस्तु देहात्मधिया विमुक्तः । स्वकं शरीरं समवैति बुद्धः शरीरमन्यस्य यथा तथैव ॥ ५६५॥ सुखस्य नास्वादनमस्ति तुर्ये सुखित्वदुःखित्वमती न तत्र । सुखस्य दुःखस्य विलक्षणं तत् तुर्यं पदं द्वन्द्वविवर्जितत्वात् ॥ ५६६॥ न शिष्यते कश्चन तत्र कोशः स्वरूपसङ्कोचकरोऽज्ञपुंसाम् । अखण्ड आत्मा निरुपाधिको हि विराजते तत्र वियत्समानः ॥ ५६७॥ निर्वाणसञ्ज्ञां सुगतो गुरुर्यां दिदेश निष्ठां भवदुःखहन्त्रीम् । कोशे समस्ते गलिते तुरीये पदे स्थितिः सेति गुरुर्जगाद ॥ ५६८॥ न संशयानामुदयोऽस्ति तत्र पुमान् प्रबुद्धः स्थितधीर्हि नित्यम् । आस्ते स सङ्कल्पविकल्पहीनः प्रशान्तगम्भीरतयाऽस्तचेताः ॥ ५६९॥ Quote - Upanishad भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ आद्यन्तहीनं स्वमवेत्य बोधात् स मृत्युमत्येत्यपि सम्प्रबुद्धः । पुमानबुद्ध्वाऽमृतमात्मतत्त्वं नात्येति मृत्युं बत कोऽपि लोके ॥ ५७०॥ लेभे जनिं यः परमे स्वमूले विचार्य कस्मादहमित्युदारः । स एव जातः स च नित्यजातो नवो नवोऽयं सततं मुनीन्द्रः ॥ ५७१॥ इत्येवमाचार्यवरेण दिष्टा ब्रह्मात्मभावे सहजे स्थितस्य । निष्ठा परा सर्वविकारहीना निरामया कालदिगाद्यतीता ॥ ५७२॥ अज्ञस्य लोके मरणाय जन्म मृतिस्तदीया जननाय भूयः । तस्मादिमे जन्ममृती मृषैवे- त्यस्मभ्यमुक्तं भगवत्तमेन ॥ ५७३॥ मृतिर्यथार्था त्वहमो विनाशो जनिर्यथार्था सहजात्मनिष्ठा । द्वन्द्वैर्विमुक्तं पदमव्यं तद् यत्रैकतां जन्ममृती भजेते ॥ ५७४॥ अद्वैतभावे स्थितिमेत्य नित्यां भेदान् कथं पश्यतु सम्प्रबुद्धः । भेदाकुलं भाति यदज्ञपुंसां विश्वं तदात्मैव हि बुद्धपुंसः ॥ ५७५॥ अभेददृष्टिः समदर्शनं चे- त्येतद् द्वयं यद् विदुषो वदन्ति । तद् भेददृष्ट्या रहितत्वमेव न केवलत्वे खलु वीक्षणानि ॥ ५७६॥ स्वमेव सर्वत्र च नित्यबुद्धं बुद्धः पुमान् पश्यति न स्वतोऽन्यम् । तन्मन्यतेऽज्ञं कमपीह नासौ सर्वे प्रबुद्धा हि तदीयदृष्ट्या ॥ ५७७॥ यथा चरेत् कश्चन सुप्त एव तथैव बुद्धो जगति क्रियासु । दृश्येत जानन्निव लोकभेदान् भेदानजानन्नपि सर्वदैव ॥ ५७८॥ बुद्धस्य चाज्ञस्य भिदा स्फुटास्या- न्निन्दा नुतिश्चेत्युभयोश्च दृश्या । द्वयोर्न भेदं समवैति बुद्धो द्वन्द्वं मृषेदं खलु यद्वदन्यत् ॥ ५७९॥ विज्ञाय वेदान्तनिगूढमर्थं विहाय विश्वं तृणवत् समस्तम् । अप्राप्य निष्ठां निजसत्यभावे स्वस्यैव तत्त्वस्य गवेषणेन ॥ ५८०॥ अलुप्तदेहात्ममतिर्विमुह्यन् यः सत्यवज्जीवभिदामवैति । यात्येव सोऽयं ह्यवशोऽपि दास्यं वाराङ्गनाया नुतिनामिकायाः ॥ ५८१॥ कमप्यजानन् पुरुषं स्वतोऽन्य- मप्रच्युतः स्वीयपदात् प्रबुद्धः । निन्दानुतिभ्यां न विकारमेति निन्दा नुतिर्वा स्वकृतेव तस्मै ॥ ५८२॥ देहीव मर्त्यः परिदृश्यमानो नासौ शरीरी निरहङ्कृतिर्यत् । सूक्ष्मं वपुस्तस्य न देहपाते निर्याति किन्तु प्रविलीयतेऽत्र ॥ ५८३॥ सत्यं प्रपञ्चं बत मन्यमाना रूपं प्रबुद्धस्य वदन्ति केचित् । तस्येच्छयाऽरूपिण एव रूपं कदाचन स्यादिति केचिदाहुः ॥ ५८४॥ रूपस्य सर्वस्य निदानभूता नष्टा ह्यहन्ता निजतत्त्वबोधात् । रूपाण्यतोऽसन्ति हि बुद्धपुंस- स्तन्मुग्धतैषा बत रूपवार्ता ॥ ५८५॥ अभूदिदं पूर्वमथ प्रणष्ट- मित्येवमुक्तिश्च न युज्यते यत् । रूपी न कोऽप्यस्ति हि तत्त्वदृष्ट्या रूपी प्रबुद्धो भविता कथं नु ॥ ५८६॥ भावे तुरीये सहजे स्थितस्य बुद्धस्य देहत्रितयं विनैव । इच्छाऽपि रूपग्रहणे कथं स्यात् सेयं वृथा पामररञ्जनी वाक् ॥ ५८७॥ नदी यथा वारिधिमेत्य तस्मिन् हित्वा नदीरूपमुपैत्यभेदम् । एवं प्रबुद्धोऽपि विहाय रूपं परात्परे पुंसि भजत्यभेदम् ॥ ५८८॥ एवं श्रुतिर्वक्ति हि रूपहाना- दैक्यं परस्मिन् विदुषस्तुरीये । जीवन्विमुक्तोऽप्यशरीर एव शरीरिणं स्वं न हि मन्यतेऽसौ ॥ ५८९॥ बुद्धस्य रूपं प्रति योऽहमाख्यो वादी भवेत् तस्य विनाश एव । ब्रवीति मुक्तिं भगवान् गुरुर्य- न्निरर्थकोऽयं बत रूपवादः ॥ ५९०॥ अतो न निर्याति हि देहपाते सूक्ष्मं वपुस्तस्य यथाऽज्ञपुंसाम् । विलीयतेऽत्रैव हि तत् स्वमूले न शिष्यते किञ्चन निर्गमाय ॥ ५९१॥ प्रबुद्धपुंसां बहुताऽपि मर्त्यैः प्रतीयमाना न भवेद्यथार्था । प्रापञ्चिका एव हि सर्वभेदा न निष्प्रपञ्चे खलु ते भवन्ति ॥ ५९२॥ बुद्धः पुमानेष मयाऽद्य दृष्टो द्रक्ष्याम्यतोऽन्यानपि बुद्धपुंसः । इति ब्रुवाणो विदुषां स्वरूपं न वेत्ति सच्चित्सुखरूपमेकम् ॥ ५९३॥ अजानतः स्वं बत बुद्धमन्त- र्विभान्ति बुद्धा बहवो विभिन्नाः । तं स्वात्मभूतं समवैति यस्तु न तस्य नानात्वमिदं यथार्थम् ॥ ५९४॥ आद्यो गुरुर्यो मुनिसत्तमानां दिदेश मौनेन परं पदं स्वम् । पश्चाच्च यः शङ्करदेशिकेन्द्रः स एव हि श्रीरमणो गुरुर्नः ॥ ५९५॥ यन्नित्यसिद्धं निजतत्त्वमन्त- स्तदात्मना सुस्थितिरेव तुर्ये । सिद्धिर्यथार्था न तु काचिदन्ये- त्यस्मद्गुरुः श्रीरमणो ब्रवीति ॥ ५९६॥ लब्धव्य आत्मेति मतिर्न सत्या नासौ विनष्टः खलु तत्त्वदृष्ट्या । वदन्ति बुद्धा अत एव सत्यं तं नित्यसिद्धं निखिलस्य जन्तोः ॥ ५९७॥ भूमानमात्मानमतोऽन्यदल्पं श्रुतिर्वदन्ती दिशतीममर्थम् । विक्रीय तं विश्वमिदं समस्तं क्रीत्वाऽपि मर्त्यः कृपणो हि शोच्यः ॥ ५९८॥ अतो ह्यकार्पण्यपदं तुरीयं कार्पण्यमन्यच्छ्रुतयो वदन्ति । पूर्णो हि सम्राडिव सम्प्रबुद्धो भिक्षामटंश्चापि न दैन्यमेति ॥ ५९९॥ वदन्ति सिद्धीरणिमादिकांस्तु बहिर्मुखा भोगपरा विमूढाः । वक्तिश्रुतिर्मन्दधियां कथञ्चित् प्ररोचनार्थं बत ताश्च सिद्धीः ॥ ६००॥ आविद्यकाः स्वप्नसमाः यतस्ता न तासु मोहं भजते विवेकी । पूर्णस्तुरीये स्थितिमेत्य सत्ये बुद्धो न मुह्येदनृतासु तासु ॥ ६०१ । इत्यात्मलाभस्य समोऽन्यलाभो नास्तीति बुद्धैः प्रकटीकृतेऽपि । मत्वाऽऽत्मनाशस्य पदं तुरीयं बिभ्यत्यमुष्मादविवेकिनस्तु ॥ ६०२ ॥। प्रयान्ति वृद्धिं विदुषस्तुरीये स्थितस्य तेजो धिषणा बलं च । यथा वसन्तस्य समागमेन सौन्दर्यमुख्याः सुगुणास्तरूणाम् ॥ ६०३॥ शमादिका ये सुगुणा मुमुक्षो- र्यत्नेन सम्पाद्य च रक्षणीयाः । स्वाभाविकास्ते विदुषो भवन्ति स निर्गुणः सद्गुणशेवधिश्च ॥ ६०४॥ नाशेऽहमस्तन्न हि काऽपि नष्टि- र्नैवात्मनाशस्य पदं तुरीयम् । अहन्तयाऽऽत्माऽस्ति तु नष्टकल्पो नाशेऽहमो नश्यति नष्टिरेषा ॥ ६०५॥ एषोऽन्ततोऽहङ्कृतिनाश एव धर्मार्थकामा अपि सत्यवाणी । सन्न्यासमौने च तपोऽपि योगः सत्यं परस्मै स्वनिवेदनं च ॥ ६०६॥ भवन्त्यसत्यानि तदाख्यकानि वपुष्यहन्तामलिनीकृतानि । स्वाभाविकान्येव भवन्ति तानि स्थितस्य सत्यात्मतया तुरीये ॥ ६०७॥ अलङ्कृती द्वे विदुषो निरुक्ते कर्तव्यहानिः कृतकृत्यता च । अज्ञानमूलं ह्युभयं नरस्य कर्तव्यता चाप्यकृतार्थता च ॥ ६०८॥ न कर्मसाध्यं विदुषोऽस्ति यस्मात् किञ्चिन्न कर्तव्यमिहास्ति तस्य । कर्तव्यमत्रास्ति तु यस्य किञ्चित् स मोहपाशैर्बत बद्ध एव ॥ ६०९॥ पृच्छन्ति केचित् किमु बुद्धपुंसो ध्यानं न कार्यं भवतीति मुग्धाः । गत्वा विदेशान् ननु शिक्षणीया बुद्धेन मर्त्या इति पृच्छ्यतेऽन्यैः ॥ ६१०॥ अहं तदस्मीत्यनुसन्दधानो भवेन्न बुद्धः खलु साधकोऽसौ । ध्यानं तदस्मीति तु बुद्धपुंसा ध्यानं नरोऽस्मीति यथा नरेण ॥ ६११॥ यद्विस्मृतं तत्स्मृतिरेव युक्ता नाविस्मृतस्य स्मृतिरस्ति लोके । न विस्मृतं यद् विदुषाऽऽत्मतत्त्वं तस्य स्मृतिस्तेन कथं घटेत ॥ ६१२॥ ध्यानं यथार्थं तु सतः परस्य निष्ठैव चिन्तारहितात्मभावे । निरन्तरं ध्यानमिदं न हातुं शक्यं न कर्तुं विदुषा कदाऽपि ॥ ६१३॥ क्वचित् प्रदेशे स्थितवत् प्रबुद्धः सन्दृश्यमानोऽपि वियत्समोऽसौ । तिष्ठन् सदा स्वे सहजे समाधौ व्याप्नोति शक्त्या भुवनं समस्तम् ॥ ६१४॥ अवत्यसौ स्वानतिदूरतश्चा- प्यचिन्त्यशक्त्या निजया प्रबुद्धः । विनैव चिन्तां सहजे समाधौ स्थितोऽपि सन् सन्ततमस्तचित्तः ॥ ६१५॥ करोति चिन्तां किमु कोऽपि नॄणां स्वप्नेक्षितानां मनुजः प्रबुध्य । तथाऽज्ञनॄणां न करोति चिन्तां स्वाज्ञाननिद्रोत्थित आत्मबोधात् ॥ ६१६॥ गुणानसौ त्रीनतिवर्तते य- दतो न दोषाः प्रभवन्ति तस्मिन् । कर्मात्र यद्यत् कुरुते प्रबुद्ध- स्तत्तद् भविष्यत्यनवद्यमेव ॥ ६१७॥ अत्येति शास्त्राण्यत एव बुद्धो निबध्यते तैर्न हि निर्मनस्कः । भवन्त्यविद्वद्विषयाणि तानि ते ह्येव कर्तृत्वधिया विधेयाः ॥ ६१८॥ प्रतिष्ठितो यत्र पदे प्रबुद्धो भवन्त्यवेदाः खलु तत्र वेदाः । देवा अदेवा इति तस्य भावो निर्दिश्यते हि श्रुतिशीर्षवाचा ॥ ६१९॥ बुद्धोपदेशान् मनुजोऽनुतिष्ठेद् बुद्धैः कृतं कर्म तु नानुतिष्ठेत् । बुद्धोपदेशाः परमं प्रमाणं न कर्म तेषां तु तथा प्रमाणम् ॥ ६२०॥ सर्वांश्च योगानतिगत्य तिष्ठन् तुर्येऽच्युतो बुद्धपुमान् भवेऽत्र । योगीव वा भोगिवदेव वा स्यात् तौ योगभोगौ भवतो न सत्यौ ॥ ६२१॥ शिष्योपदेशे समुदीरिते द्वे बन्धो विमुक्तिर्भवतो न सत्ये । द्वन्द्वानि सर्वाणि मृषेति सिद्धे द्वन्द्वं तदेतत् कथमस्तु सत्यम् ॥ ६२२॥ आत्मा स्वयं नित्यविमुक्त एव बद्धस्त्वविद्योदित जीव एव । तत् तत्त्वतो नास्ति हि काऽपि मुक्ति- र्बन्धप्रतीत्यैव हि मुक्तिचिन्ता ॥ ६२३॥ कस्यास्ति बन्धोऽयमिति स्वतत्त्वं मुमुक्षुरन्विष्यति चेत् तदन्ते । आत्माऽनुभूयेत हि नित्यमुक्त इत्यस्ति वाणी भगवत्तमस्य ॥ ६२४॥ अजातिरेव प्रकटीकृता हि श्रुत्याऽपि बुद्धैश्च सतः परस्य । तस्यैव सत्यात्मतया स्थितत्वात् स बन्धमापेति कथं नु वाच्यम् ॥ ६२५॥ सत्यो हि बन्धो यदि नान्तमीया- दनादिरङ्गीक्रियते हि बन्धः । सान्तादिमत्वाच्च भवेद्विमुक्ति- र्बन्धस्य मिथ्यात्वमतोऽनिवार्यम् ॥ ६२६॥ बद्धोऽभवं पूर्वमथास्मि मुक्त इत्येवमुक्तिं शृणुमो न बुद्धात् । कालातिगा सा पदवी हि तुर्या चिन्त्यं भवेज्जन्म कथं तदीयम् ॥ ६२७॥ नैवागतं किञ्चन मत्स्वरूपे सदैकधैवास्मि विकारहीनः । इत्येवमूचे भगवान् हि पृष्टो लब्धा विमुक्तिर्भवता कदेति ॥ ६२८॥ पुर्यां सतां पण्ढरिनामिकायां यामः कदा तामिति गीतमादौ । प्राप्ता वयं तामिति गीतमन्ते यद्वत् तथैवेह विमुक्तिवार्ता ॥ ६२९॥ स्वप्ने भ्रमित्वा स्वगृहं निवृत्य भूयोऽपि तत्रैव गतः सुषुप्तिम् । प्रबुध्य पश्येत् स्वगृहे यथा स्वं मुक्तिस्तथैवेति गुरुर्जगाद ॥ ६३०॥ नित्यानुभूते मम सत्स्वरूपे स्थितोऽस्मि मिथ्या ह्यनुभूतयोऽन्याः । इति प्रबोधेन मतिप्रसादो भवेद्विमुक्तिर्न किमप्यपूर्वम् ॥ ६३१॥ बुद्धस्य नित्यो महिमाऽस्ति सोऽयं वृद्धिक्षयौ तस्य न कर्मणेति । अनिष्टमिष्टं च फलं कृतस्य न कर्मणः स्याद्विदुषः कदाऽपि ॥ ६३२॥ यथा कथासंश्रवणे सुदूरं धिया गतो नैव कथां शृणोति । कर्माणि कुर्वन्नपि बुद्ध एवं निर्वासनत्वान्मनसो न कर्ता ॥ ६३३॥ सवासनत्वान्मनसस्तु कर्ता भवत्यकुर्वन्नपि चाज्ञमर्त्यः । स्वप्ने यथाऽद्रेः शिखरादधस्तात् पतेच्छरीरे सति निश्चलेऽपि ॥ ६३४॥ शरीरमात्रेण कृतं न कर्म मनःकृतं यत् तु तदेव कर्म । नाचेतनं कर्तृ भवेच्छरीरं मनो भवेत् कर्तृ तु चेतनत्वात् ॥ ६३५॥ प्रारब्धवेगेन चरन्ति कर्म देहेन्द्रियप्राणमनांसि यद्यत् । न लिप्यते तेन पुमान् प्रबुद्ध इत्युक्तवान् श्रीभगवान् गुरुर्नः ॥ ६३६॥ न लिप्यते सृष्ट्यवनादि कर्म कुर्वन्नपीशः खलु तद्वदेव । न लिप्यते कर्मभिरत्र बुद्धो भिदा तयोर्नास्ति हि तत्त्वदृष्ट्या ॥ ६३७॥ अश्नंश्च गच्छंश्च वदन् स्मरंश्च कर्माणि कुर्वन्निव लक्ष्यतेऽज्ञैः । कर्ताऽपि भोक्ता न तु तत्त्वतोऽसौ स हीश्वराधीनसमस्तवृत्तिः ॥ ६३८॥ कर्ता यदि स्वः स भवेद्धि भोक्ता कर्तृत्वनाशे निजमार्गणेन । साकं विनश्येत् त्रिविधं च कर्म विमुक्तिमेतां समवेहि नित्याम् ॥ ६३९॥ भुङ्क्ते यथा निद्रितबालकोऽन्नं स्वमातृदत्तं न तु वेत्ति भुक्तम् । एवं प्रबुद्धोऽपि हि कर्मजन्यं भुङ्क्ते फलं भोक्तृतया विनैव ॥ ६४०॥ कर्ता न कोऽप्यस्ति हि तत्त्वदृष्ट्या स्वज्ञाज्ञयोरस्ति भिदेयमेव । कर्ताऽहमस्मीत्यभिमन्यतेऽज्ञो बुद्धस्य नोदेति तु कर्तृताधीः ॥ ६४१॥ आगामिकर्माण्यपि सञ्चितानि नश्यन्ति बुद्धस्य पुनर्न जन्म । प्रारब्धकर्म त्ववशिष्टमस्ती- त्युक्तिर्न सत्या परमार्थदृष्ट्या ॥ ६४२॥ यथा मृते भर्तरि सत्यमुष्य शिष्येत भार्याऽविधवा न काऽपि । एवं मृते कर्तरि नैव कर्म फलप्रदं किञ्चन शिष्टमस्ति ॥ ६४३॥ यथा प्रबोधे सति नैव कर्म स्वप्ने कृतं किञ्चन शिष्टमस्ति । कर्माज्ञतायां चरितं तथैव सत्यात्मबोधे सति नास्ति शिष्टम् ॥ ६४४॥ प्रारब्धमस्तीति वचः श्रुतीनां भवेदिदं त्वज्ञधियोऽनुरोधः । तदीयदृष्ट्या फलमस्ति तस्य बुद्धः शरीरी बत तन्मतेन ॥ ६४५॥ प्रियाप्रिये न स्पृशतो हि बुद्धं देहं विनैव स्थितमात्मभावे । नैष्फल्यमेवं विदुषः कृतीनां वेदान्तवाचैव निरुक्तमस्ति ॥ ६४६॥ कृत्तेऽपि दग्धे विदुषः शरीरे च्युतिर्न तस्यास्ति निजस्वरूपात् । यथा गुडं चूर्णितमग्नितप्तं त्यजेन्न माधुर्यरसं स्वकीयम् ॥ ६४७॥ सदेहमुक्तिश्च विदेहमुक्ति- रुक्ते उभे ह्यज्ञधियोऽनुवृत्या । देही भवेन्नैव हि कोऽपि मुक्तो भवेद्धि मुक्तिः सकलैकरूपा ॥ ६४८॥ प्रारब्धशक्तिर्भविता हि देहे नात्मस्वरूपेऽस्ति तु शक्तिरस्य । तस्मै स्वदेहो विदुषाऽर्पितो यत् कथं नु बाध्येत स तेन बुद्धः ॥ ६४९॥ प्रारब्धकर्मार्पित देहकोऽसौ बुद्धोऽस्ति देहे ममता विनैव । एवं स्फुटं शङ्करदेशिकेन दिष्टं मनीषाभिधपञ्चकेऽस्ति ॥ ६५०॥ सूक्ष्मं शरीरं विदुषोऽस्ति शिष्ट- मित्युच्यते चेदिह कारणाख्यम् । अज्ञानरूपं निधनं गतं यत् सूक्ष्मेण सङ्गो विदुषः कथं स्यात् ॥ ६५१॥ ब्रह्मास्त्यसङ्गं हि तथैव बुद्धो भवत्यसङ्गो हि भवे यथा खम् । वपुर्विकारा उत मानसाश्च बुद्धं कथञ्चिन्न हि संस्पृशन्ति ॥ ६५२॥ जागर्ति यो नैजपदे प्रबुद्धो याने सुषुप्तस्य समः स उक्तः । यानस्य तुल्यं गदितं शरीरं तुरङ्गवच्चापि दशेन्द्रियाणि ॥ ६५३॥ गतिं स्थितिं वाजिवियोजनं च यानस्य नो वेत्ति हि तत्र सुप्तः । एवं सुषुप्तश्च शरीरयाने न वेत्ति बुद्धो हि शरीरभावान् ॥ ६५४॥ बुद्धस्तु तिष्ठन् सहजे समाधौ कर्माणि कुर्वन्निव लक्ष्यतेऽज्ञैः । नानाऽप्यवस्था भजतीव भाति ता वीक्ष्य मुह्यन्त्यविवेकिनस्तु ॥ ६५५॥ सुप्तिः समाधिश्च शरीरचेष्टा इति त्रिधा भान्ति हि तस्य भावाः । एनांश्च भिन्ना इति मन्यतेऽज्ञो विलोक्य बुद्धस्य शरीरमात्रम् ॥ ६५६॥ सदैकधैवास्ति तु सम्प्रबुद्ध- स्तस्य स्थितिर्नित्यसमाधिरेव । न कर्मभिस्तस्य विरोधलेशो न कर्मणां तेन विरोधलेशः ॥ ६५७॥ द्वे निर्विकल्पे हि समाधिनिष्ठे स्यात् केवलैका सहजाभिद्याऽन्या । न केवलां प्राप्य भवेत् प्रबुद्धः स एव बुद्धः सहजस्थितो यः ॥ ६५८॥ यः केवलो नाम समाधिरुक्तः स योगिनः स्यान्मनसो लयेन । समाधिरुत्थानमिति प्रसिद्धे स्थिती विभिन्ने भवतोऽस्य लोके ॥ ६५९॥ मनः समाधौ बत योगिनोऽस्य सवासनं ह्येव भवेद्विलीनम् । स्थित्वा समाधौ सुचिरं च सोऽयं व्युत्थाप्यते वासनया भवाय ॥ ६६०॥ यदा समाधेरयमुत्थितः स्यात् पूर्वोज्झितां संसृतिमाददाति । सम्मोहनद्रव्यविनष्टबोधः कर्मासमाप्तं प्रतिबुध्य यद्वत् ॥ ६६१॥ संसारमेवं प्रतिपद्य योगी भूयः समाधिं प्रविशेत् प्रयत्नात् । बुद्धस्त्वयत्नः सहजस्थितत्वा- न्न तं विमुञ्चत्यपि नाददाति ॥ ६६२॥ न संसृतिं याति कदाऽपि बुद्धः समाधिरेव प्रकृतिर्हि तस्य । विना समाधिं स कदाऽपि नास्ती- त्यतः समाधिः सहजाभिधोऽयम् ॥ ६६३॥ अप्रच्युतोऽसौ निजसत्यभावात् स्थितः सदा स्वे सहजे समाधौ । जीवन् विमुक्तो व्यवहर्तुमीष्टे लोके यथा शङ्करदेशिकाद्याः ॥ ६६४॥ योगी यदा केवलभावमग्न- स्तदा न शक्नोति हि कर्म कर्तुम् । यदोत्थितोऽसौ भविता समाधेः करोति कर्माज्ञतया तदानीम् ॥ ६६५॥ तत्त्वोपदेशेऽपि मुमुक्षुपुंसां भवेत् समर्थो न स योगिमर्त्यः । तिष्ठान् सदैवाच्युत एव तुर्ये शास्ता समर्थोऽस्ति तु बुद्ध एव ॥ ६६६॥ नाङ्गीकृताऽसौ सहजा स्थितिश्चेद् गीतादिशास्त्राणि मृषेति सिद्ध्येत् । बुद्धोपदेशैर्भरितत्वहेतोः शास्त्रं प्रमाणं हि मुमुक्षुपुंसाम् ॥ ६६७॥ परम्पराऽसौ खलु बुद्धपुंसां मुमुक्षुलोकोद्धरणार्थमेव । रक्षत्यविच्छिन्नतया सदैव सुज्ञानशास्त्रस्य सुसम्प्रदायम् ॥ ६६८॥ अन्त्यं प्रमाणं हि निजानुभूति- र्न संशयानामुदयोऽस्ति यत्र । तावत् प्रमाणानि हि बुद्धवाचो लभ्येत यावन्न तथानुभूतिः ॥ ६६९॥ गत्वाऽम्बुधिं तन्मयतां गताया नद्याः समो बुद्ध उदीरितोऽस्ति । कूपे निमग्नस्य घटस्य तुल्यो रज्ज्वा निबद्धस्य तु केवलस्थः ॥ ६७०॥ घटः सरज्जुर्हि विकृष्यमाणो रज्ज्वा बहिर्याति पुनश्च कूपात् । एवं मनः केवलभावमग्नं विकृष्यते वासनया भवाय ॥ ६७१॥ नैष्कर्म्यमेवं सहजस्थितस्य स्फुटीकृतं नो भगवत्तमेन । विद्वानकर्ताऽपि भवन् स्वभावात् कर्ता महांश्चापि भवत्यसङ्गः ॥ ६७२॥ सत्सङ्गतिर्नाम निगद्यते या बुद्धस्य पुंसः खलु सङ्गतिः सा । अर्थो भवेद् ब्रह्म हि सत्पदस्य तदात्मकोऽसौ भविता हि बुद्धः ॥ ६७३॥ ब्रह्मैव सर्वोऽपि हि को विशेषः प्रबुद्धपुंसीति न शङ्कनीयम् । अहन्तयाऽन्यत्र हृतप्रभं सत् पूर्णप्रभं तत्तु विभाति बुद्धे ॥ ६७४॥ सङ्गं प्रबुद्धस्य भजन् मुमुक्षुः सङ्गात् समस्तादपि मुक्तिमेति । निस्सङ्गभावेन निरस्तमोहो यात्येकतां निश्चलचित्स्वरूपे ॥ ६७५॥ सत्सङ्गसञ्जातनिजस्वरूपा- न्वेषेण लभ्यं परमं पदं यत् । शास्त्रार्थबोधाच्छ्रवणादिभिर्वा साध्यं न तन्नेतरसाधनैर्वा ॥ ६७६॥ सत्सङ्गतिं चेद् भजते मुमुक्षु- श्चरेत् किमर्थं नियमान् यथाऽन्ये । शीतो वहेद् दक्षिणमारुतश्चेत् किमर्थमिच्छेद् व्यजनं तदानीम् ॥ ६७७॥ तापं शशी कल्पतरुश्च दैन्यं हरेच्च गङ्गा बत पापमात्रम् । वीक्षा सतां नाशयति त्रयं च न तत्समं किञ्चन विद्यतेऽन्यत् ॥ ६७८॥ समानि सद्भिर्न जलात्मकानि तीर्थानि देवाश्च मृदादिमात्राः । पुनन्ति तानि ह्यतिदीर्घकालात् सन्दर्शनादेव पुनन्ति बुद्धाः ॥ ६७९॥ गङ्गाम्भसि स्नानफलं विनाशः पापस्य पुंसो न तु पापकर्तुः । सङ्गात् सतां नश्यति पापकर्ता न तत्समं पावनमस्ति लोके ॥ ६८०॥ मृत्युञ्जयोऽसौ त्रिपुरान्तकोऽसौ स्मरान्तकोऽसौ नरकान्तकश्च । स हीश्वराणामपि चात्मभूत- स्तमेव सर्वेऽपि हि पूजयन्ति ॥ ६८१॥ नीतं यदन्तं वपुषां त्रयं च ज्ञानेन तेन त्रिपुरान्तकोऽसौ । नीतोऽहमाख्यो निधनं च तेने- त्यतः स बुद्धो नरकान्तकश्च ॥ ६८२॥ अहं स्वयं बुद्ध इति ब्रवीति गीतासु कृष्णो भगवान् स्वयं यत् । न कोऽपि तस्यास्ति समोऽधिको वा न मीयते तन्महिमा कथञ्चित् ॥ ६८३॥ यतः प्रबुद्धः पर एव साक्षात् तस्योपदेशाः परमं प्रमाणम् । ततः परं तस्य वचोभिरेव प्रामाण्यमस्ति श्रुतिशीर्षवाचाम् ॥ ६८४॥ परात्मशक्तेः करुणाभिधाया रूपं द्वितीयं हि गुरुः प्रबुद्धः । अतः सुभक्त्या स्वगुरुं प्रबुद्धं भजन् मुमुक्षुर्भविता कृतार्थः ॥ ६८५॥ शक्तिः शुभा काचन सन्निधाने बुद्धस्य पुंसोऽस्ति सुदूरतश्च । त्यजेत नो कोऽपि तया गृहीतः परं तु नीयेत विमुक्तिमेव ॥ ६८६॥ व्याघ्रेण यद्वद्धरिणो गृहीतो तदन्नतामेति तथैव साधुः । ध्रुवं प्रबुद्धेन दृशा गृहीत- स्तद्भावमेतीति गुरुर्जगाद ॥ ६८७॥ बहिः स्थितोऽन्तर्मुखतां विधाया- प्यन्तः स्थितोऽन्तश्च विकृष्य चित्तम् । परे पदे स्वे विदधाति निष्ठां साधोः प्रबुद्धो हि गुरुः स्वशक्त्या ॥ ६८८॥ अगोचरोऽसौ वचसो धियोऽपि निष्ठा हि बुद्धस्य पदे परस्मिन् । बोधाय साधोस्तु यथाकथञ्चित् किञ्चित् प्रबुद्धैरिदमुक्तमस्ति ॥ ६८९॥ व्याख्यात एवं सहजात्मभावः ससाधनोऽसौ गुरुणोपदिष्टः । अथोपदेशेष्विह सार एष निरुच्यते साध्ववधारणाय ॥ ६९०॥ विश्वं स्वदृश्यं च तदीक्षकं स्वं जानाति लोके सकलोऽपि जन्तुः । स्वतश्च सत्यं द्वयमप्यवैति मोहस्त्वयं संसृतिहेतुरस्य ॥ ६९१॥ सत्यं स्वतश्चेदुभयं तदेतत् भायाद्विच्छिन्नतया सदैव । कदाऽपि भातं च कदाप्यभातं भवेत् तु यत् तत् कथमस्तु सत्यम् ॥ ६९२॥ प्रकाशते मानसचेष्टयैव स्वप्नेऽपि जाग्रत्युभयं तदेतत् । भाति द्वयं नैव सुषुप्तिभावे ततो मनोमात्रमिदं द्वयं च ॥ ६९३॥ यस्मिन् मनो याति लयं च यस्मा- दुदेति भूयोऽपि तदेव सत्यम् । लयोदयाभ्यां रहितं तदेतत् सत्यं स्वतो मुक्तिपदं मुमुक्षोः ॥ ६९४॥ सत्ताप्रदं तज्जगतोऽखिलस्य ब्रह्माभिधानं परिपूर्णमेकम् । चैतन्यदीप्तिं मनसे तदेव ददाति चैतन्यविवर्जिताय ॥ ६९५॥ अन्तर्हृदि स्वात्मतया तदेव साक्षीव निश्चिन्तनमस्त्यसङ्गम् । आच्छाद्यते तत्तु बहिर्मुखत्वे मृषाप्रपञ्चेन मनोमयेन ॥ ६९६॥ अतो न तं कश्चन वेत्ति लोके पश्यन्निदं सत्यवदेव मोहात् । शरीरमेवात्मतयाऽपि मत्वा भ्राम्यत्यसङ्ख्येषु भवेषु दुःखी ॥ ६९७॥ तेनात्मरूपेण परेण विश्व- माच्छादनीयं तु मनोविनाशात् । भायात् तदैव प्रतिबन्धहीनं ह्यात्मस्वरूपं विमलं यथावत् ॥ ६९८॥ विवेकवैराग्ययुतो विमुक्त्यै गुरूक्तमार्गेण यदा यतेत । मूले निजे ब्रह्मणि जन्म लब्ध्वा विमुच्यतेऽसौ भवबन्धपाशैः ॥ ६९९॥ कृत्वा मनोऽन्तर्मुखमस्तचिन्तं निमज्य चान्तर्निजमार्गणेन । मनोविनाशेन विनष्टमोहो भवेद्विमुक्तः स नरः प्रबुद्धः ॥ ७००॥ परात्परं यत् सकलात्मभूत- मस्मद्गुरुः श्रीरमणो बभूव । यावद् भविष्यत्यहमो विनाशः सहस्रशः सन्तु नमांसि तस्मै ॥ ७०१॥ ॥ ॐ नमो भगवते श्रीरमणाय ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com Text composed by Shri LakShmanasharmana. This work is published by Sri Ramanasramam www.sriramanamaharshi.org It has been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.
% Text title            : Shri Ramana Paravidya Upanishad
% File name             : ramaNaparavidyopanishad.itx
% itxtitle              : ramaNa paravidyopaniShat
% engtitle              : Shri Ramanaparavidyopanishad
% Category              : deities_misc, ramana
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ramana
% Author                : 'WHO'  (K. Lakshmana Sarma)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Source                : Ramanashrama Publication ISBN 81-8288-058-0 2nd ed. 2009
% Acknowledge-Permission: Sri V.S. Ramanan, President, Sri Ramanasramam sriramanamaharshi.org
% Latest update         : Dec. 14, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP