सावित्रीकृतं यमाष्टकम्
इत्युक्ता सा तु सावित्री यमं भक्तवरं परम् ।
ज्ञात्वा यमाष्टकं प्राह शृणु लक्ष्मि! वदामि ते ॥ १२॥
सूर्यनारायणस्तीर्थे पुष्करे तपसा पुरा ।
धर्मेशं यं सुतं प्राप धर्मराजं नमाम्यहम् ॥ १३॥
सर्वेषां प्राणिनां कर्मभोगान्तं संविधाय यः ।
शान्तिं करोति यो देवः शमनाय तु ते नमः ॥ १४॥
कृतानां कर्मणां त्वन्तं न्यायरीत्या करोति यः ।
सर्वेषां देहिनां सोऽयं तं कृतान्तं नमाम्यहम् ॥ १५॥
पापिनां दण्डकर्ता यो दण्डं बिभर्ति शुद्धिदम् ।
शास्त्रे तस्मै नीतियुजे दण्डिने ते नमो नमः ॥ १६॥
सर्वेषां वस्तुकार्याणां परिच्छेदं करोति यः ।
सर्वायुःकलनं देवं कालरूपं नमाम्यहम् ॥ १७॥
जीवान् दण्डप्रदानैर्यो यमयत्येव सर्वथा ।
कर्मानुरूपफलदस्तं यमं प्रणमामि वै ॥ १८॥
यथा कर्म तथा दाता न रागान्न च रोषतः ।
तस्माच्छुद्धिकरं मित्रं सर्वमित्रं नमाम्यहम् ॥ १९॥
कृष्णनारायणमूर्तेः समुत्पन्नस्तु यः पुरा ।
ब्रह्मणोंऽशस्ततो जातस्तं ब्राह्मं प्रणमामि च ॥ २०॥
इत्युक्त्वा तं प्रणनाम यमस्तुष्टो बभूव ह ।
यमाष्टकं पठतस्तु भवेन्नैव यमाद्भयम् ॥ २१॥
कायव्यूहेन च शुद्धिः कर्मणां तस्य जायते ।
मुच्यते यमपाशाच्च सतीं प्राहेति धर्मराट् ॥ २२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ३७०-अध्यायान्तर्गतं
सावित्रीकृतं यमाष्टकं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ३७०/१२-२२॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 370/12-22..
Proofread by PSA Easwaran