सीताया कृतं अग्निस्तोत्रं अथवा वह्न्यष्टकम्
सीता उवाच -
उपतस्थे महायोगं सर्वदोषविनाशनम् । (सर्वलोकविदायकम्)
कृताञ्जली रामपत्नी साक्षात्पतिमिवाच्युतम् ॥ १॥
नमस्यामि महायोगं कृतान्तं गहनं परम् । (क्ऱ्^शानुं गह्वरं परम् ।)
दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ २॥
नमस्ये पावकं देवं साक्षिणं विश्वतोमुखम् ।
(प्रपद्ये पावकं देवं शाश्वतं विश्वरूपिणम् ।)
आत्मानं दीप्तवपुषं सर्वभूतहृदि स्थितम् ॥ ३॥
प्रपद्ये शरणं वह्निं ब्रह्मण्यं ब्रह्मरूपिणम् ।
भूतेशं कृत्तिवसनं शरण्यं परमं पदम् ॥ ४॥ (योगिनं कृत्तिवसनं भूतेशं)
ॐ प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् । (तं प्रपद्ये)
महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ ५॥ (महायोगीश्वरं)
प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।
कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ६॥
प्रपद्ये त्वां विरूपाक्षं भूर्भुवःस्वःस्वरूपिणम् ।
हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ ७॥ (हिरण्मये )
वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् ।
हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ८॥
प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवम् ।
भर्गमग्निपरं ज्योती रक्ष मां हव्यवाहन ॥ ९॥ (स्वर्ग्यमग्निं परं ज्योतिः)
इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ९॥
इति कूर्मपुराणे पूर्वभागे चतुस्त्रिंशाध्यायान्तर्गतं
सीताया कृतं अग्निस्तोत्रं अथवा वह्न्यष्टकं समाप्तम् ।
कूर्मपुराणे उत्तरभागे ३४/११६-१२४ अथवा ३३/११६-१२५
There are some variations and verse difference in different prints.
Proofread by PSA Easwaran