श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारत्यष्टकम्
पिङ्गलाभिधानहायने गृहीतजन्मनः
सर्वमङ्गलासहायपादसेवने रतान् ।
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
भावयामि भक्तिपूर्णचेतसा निरन्तरम् ॥ १॥
श्रीनृसिंहगुरुपदाब्जबम्भरायितान्तरान्
श्रीसदाशिवेन्द्रयोगितुल्यसिद्धिसंयुतान् ।
श्रीशिवाभिनवनृसिंहभारतीयतीश्वरान्
भावयामि भुक्तिमुक्तिदायिनो नतालये ॥ २॥
धर्मतत्त्वबोधकानधर्मनिग्रहे रतान्
शर्मदानतत्परानशेषभक्तकोटये ।
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
शीलयामि सन्ततं शिवेतरापनुत्तये ॥ ३॥
स्वीयपादपांसुपाविताखिलक्षमातलान्
स्वप्रकाशचिन्निविष्टमानसाननारतम् ।
श्रीशिवाभिनवनृसिंहभारतीजगद्गुरून्
सादरं नमामि सर्वलोकरक्षणव्रतान् ॥ ४॥
वेदशास्त्रसम्प्रदायपालने धृतव्रतान्
विद्वदालिगीयमानपाण्डितीविभूषितान् ।
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
चिन्तयामि शिष्यहृत्तमोविवस्वतोऽनिशम् ॥ ५॥
दम्भदर्पवर्जितानशेषलोकवन्दितान्
कुम्भजन्मनस्समस्तवेदशास्त्रवारिधेः ।
श्रीशिवाभिनवनृसिंहभारतीयतीश्वरान्
संस्मरामि संयमीन्द्रसेव्यपादपङ्कजान् ॥ ६॥
भूमिपालवन्दितानपूर्ववाग्झरीयुतान्
कामितेष्टदायकान् प्रपन्नलोकपङ्क्तये ।
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
भावयामि भद्रपूगदायिदिव्यवीक्षणान् ॥ ७॥
शारदाशशाङ्कमौलिविघ्नराजपूजकान्
शारदेन्दुतुल्यकीर्तिशालिनश्शिवङ्करान् ।
श्रीशिवाभिनवनृसिंहभारतीजगद्गुरून्
शीलयामि शान्तिदान्तिमुख्यसम्पदाप्तये ॥ ८॥
इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदा-पीठाधीश्वर-
जगद्गुरुशङ्कराचार्य-अनन्तश्रीविभूषित-श्रीभारतीतीर्थ-
महास्वामिविरचित-श्री-सच्चिदानन्द-शिवाभिनव-
नृसिंह-भारत्यष्टकं सम्पूर्णम् ।