श्रीसद्गुरुदासगणुवन्दनम्
ॐ श्री ।
श्रीशङ्कर ।
सद्गुरुं केवलानन्दं प्रणताखिलमङ्गलम् ।
विभुं सन्तकविश्रेष्ठं वन्दे दासगणुं गुरुम् ॥ १॥
नगरप्रान्तकासारप्रफुल्लाब्जमनोहरम् ।
भक्तिप्रेमरसाकीर्णं वन्दे दासगणुं गुरुम् ॥ २॥
नन्दीतटप्रियं शान्तं गोरटेग्रामभूषितम् ।
भक्तिमार्गप्रणेतारं वन्दे दासगणुं गुरुम् ॥ ३॥
कर्मभक्तिज्ञानरूपत्रिपुण्ड्रतिलकाङ्कितम् ।
मृदुलारक्तहस्ताग्रं वन्दे दासगणुं गुरुम् ॥ ४॥
वात्सल्यकरुणादृष्टिं प्रभुं तातं पितामहम् ।
गौरवर्णं महोरस्कं वन्दे दासगणुं गुरुम् ॥ ५॥
सच्छीलकान्तिं दातारं शिवलिङ्गाङ्क शेखरम् ।
क्षमया तुन्दिलं भव्यं वन्दे दासगणुं गुरुम् ॥ ६॥
गायकं सञ्चरित्रस्य सत्पूरूषगुणालयम् ।
भक्तमानसकल्पद्रुं वन्दे दासगणुं गुरुम् ॥ ७॥
महाराष्ट्रीयभाषायाः भूषणं च महाकविम् ।
प्रसादकविताकान्तं वन्दे दासगणुं गुरुम् ॥ ८॥
भक्तिगोदातीरवासं भक्तिगोदाविहारिणम् ।
भक्तिगोदाजले स्नातं वन्दे दासगणुं गुरुम् ॥ ९॥
श्रीविठ्ठलपदाम्भोजे रसास्वादनलोलुपम् ।
गुञ्जन्तं नामसाहस्रं वन्दे दासगणुं गुरुम् ॥ १०॥
पुण्डरीकपुरे शश्वत् भीमरथ्यास्तटे शुभे ।
पाण्डुरङ्गपदे लीनं वन्दे दासगणुं गुरुम् ॥ ११॥
सन्मार्गदीपकं नाथं प्रसन्नं पावनं शुभम् ।
अनन्तवरदं नित्यं वन्दे दासगणुं गुरुम् ॥ १२॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीसद्गुरुदासगणुवन्दनं सम्पूर्णम् ।
भावार्चना (प्राचार्य अ. दा. आठवले)
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar