श्री सन्तदासस्तोत्रम्
येन भक्तजनचित्तचारिणा
जन्मना वसुमती पवित्रता ।
पूतपादरजसा तमोहरं
सन्तदासमनिशं भजामि तम् ॥ १॥
अन्तरेण विषये विरागिणा
कर्मजातमतिवाहयलीलया ।
येन सत्यसनमास्थितं गुरुं
सन्तदासमनिशं भजामि तम् ॥ २॥
यो विहाय जगदुत्तरं यशो
दुस्त्यजां विपुलवित्तसम्पदम् ।
प्रापदीशपदपङ्कजाश्रयं
सन्तदासमनिशं भजामि तम् ॥ ३॥
दोक्षया परमशुद्धया मनः
शोधयन् निखिलशिष्यसन्ततेः ।
रागमूढमलूनार्दाविद्यया
सन्तदासमनिशं भजामि तम् ॥ ४॥
यस्य भूतिसितया रुचान्वितं
लम्बमानजटयाञ्चितं वपुः ।
कान्तिमन्नयनमात्मदर्शनात्
सन्तदासमनिशं भजामि तम् ॥ ५॥
चेतसा परकृपालुना कला
व्युत्पथप्रहितचेतसां नृणाम् ।
ईशपादतरितं भवाम्बुधौ
सन्तदासमनिशं भजाम्यहम् ॥ ६॥
दुःखमग्नजगदुद्धिधीषया
सदगुरुं कलितकायमीश्वरम् ।
तत्त्वमस्यमृतभारतीरितं
सन्तदासमिह सन्ततं भजे ॥ ७॥
यत्कृपानिपुणमन्वभावय -
न्नामरूपमखिलं न वास्तवम् ।
वस्तु तत् परमचिन्मयं विभु
सन्तदासमनिशं भजाम्यहम् ॥ ८॥
परमशमं परं करुणाकरं
निखिलतापहरं गुणसागरम् ।
तमसि तत्पददर्शनभास्करं
ब्रजविदेहिमहान्तमहं भजे ॥ ९॥
इति श्रीहेमन्तकुमार भट्टाचार्य काव्य-व्याकरण-तर्कतीर्थविरचितं
श्रीसन्तदासस्तोत्रं सम्पूर्णम् ।
Proofread by Mohan Chettoor