श्रीसर्वेश्वर प्रातः स्तोत्रम्
ब्रह्मेन्द्रवृन्दारकवन्दिताय वृन्दाटवीधामविराजिताय ।
सर्वेश्वराय श्रुतिगोचराय प्रातर्नमस्ते प्रणतप्रियाय ॥ १॥
सनत्कुमारादिकसेविताय देवर्षि-निम्बार्कसमर्चिताय ।
सर्वेश्वराय श्रुतिगोचराय प्रातर्नमस्ते प्रणतप्रियाय ॥ २॥
श्रीराधिकावल्लभमाधवाय रङ्गाऽऽदिसख्यावलिरञ्जिताय
सर्वेश्वराय श्रुतिगोचराय प्रातर्नमस्ते प्रणतप्रियाय ॥ ३॥
अनन्तचिन्मङ्गलविग्रहाय सर्वार्थविद्यावरसम्प्रदाय ।
सर्वेश्वराय श्रुतिगोचराय प्रातर्नमस्ते प्रणतप्रियाय ॥ ४॥
प्रातः स्तोत्रं सुधापूर्णं सर्वेश्वर-प्रभोरिदम् ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ॥ ५॥
इति अनन्त श्रीविभूषित जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर
श्री श्रीजी श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज द्वारा प्रणीत
श्रीसर्वेश्वर प्रातः स्तोत्रं सम्पूर्णम् ।
Proofread by Mohan Chettoor