श्रीसत्यविजयतीर्थस्तुतिः
श्रीबिभीषणसाम्राज्यप्रदरामपदाम्बुजे ।
संसक्तः सत्यविजयहंसो मे भासतां हृदि ॥ १॥
अतिसत्यवादनिरतोऽतनुधीः
सुकृतान्तसम्प्रवचने चतुरः ।
स उदैष्ट सत्यविजयो विजयी
सकलासु दिक्षु ऋतपूर्णमुनेः ॥ २॥
श्रीसत्यविजयं वन्दे सर्वाभीष्टप्रदायकम् ।
श्रीमदानन्दतीर्थायपादयोः भक्तिदं सदा ॥ ३॥
सत्यजैत्राभिधं नौमि श्रीमन्तं श्रीप्रदं मम ।
ज्ञानदं भक्तिदं मेऽद्य जयतीर्थार्यसेवकम् ॥ ४॥
सत्यपूर्णाब्धिसम्भूतं भक्तस्वान्तोत्पलं सदा ।
विकासयन्तं संशुद्धं सत्यजैत्रेन्दुमाश्रये ॥ ५॥
वेदान्तशास्त्रेषु सदा रमन्तं
स्वभक्तसंरक्षणबद्धचित्तम् ।
महानुभावं भुवनैकवन्द्यं
वन्दे गुरुं सत्यजयाभिधानम् ॥ ६॥
बन्धुस्त्वं गुरुरिष्टदैवतमिति त्वत्पादपङ्केरुहं
प्राप्तं मां परिपालयेति सततं याचे निबद्धाञ्जलिः ।
चित्तं मद्गुणदोषचिन्तनविधौ नूनं मनाङ् मा कृताः
नाऽन्या मे गतिरस्ति सत्यविजयस्वामिन् त्वदघ्रि विना ॥ ७॥
रामपूजारतान् नित्यं गुरुपादप्रपूजकान् ।
श्रीसत्यजयतीर्थाख्यान् प्रपद्ये ज्ञानसिद्धये ॥ ८॥
सत्यपूर्णाम्बुधेर्जातो विद्वज्जनविजृम्भितः ।
दनीध्वंसीतु नस्तापं श्रीसत्यविजयोडुपः ॥ ९॥
इति श्रीसत्यप्रियतीर्थविरचिता श्रीसत्यविजयतीर्थस्तुतिः समाप्ता ।
॥ श्रीकृष्णार्पणमस्तु ॥