शाण्डिल्यकृतं गुरुस्तोत्रम्
श्रीशाण्डिल्य उवाच ।
शास्त्रान्तरेऽपि यत्प्रोक्तं चरेच्छास्त्रानुसारतः ।
महतां समयश्चापि प्रमाणं वेदसम्मितम् ॥ १॥
अथ स्तोत्रं प्रवक्ष्यामि गुरोः स्वात्मस्वरूपिणः ।
येन भक्तिपथे दिव्यः प्रसिध्यति परात्मनि ॥ २॥
यः श्रीपुराणपुरुषस्य मुखारविन्दात्
सम्भूतभक्तिपथमाविरभूत्प्रणेतुम् ।
साक्षात्करोति सकलां सकलात्मलीलां
तं श्रीमदार्यचरणं शरणं भजेम ॥ ३॥
यस्याङ्घ्रिपङ्कजयुगेऽम्बुजवज्रचाप-
कौमोदकीव्रततितोरणसत्पताकाः ।
मीनाङ्कुशध्वजयवासिसरोजकुम्भा-
स्तं श्रीमदार्यचरणं शरणं भजेम ॥ ४॥
यः शारदेन्दुधवलां विमलाब्जगर्भ-
वासोभिशोभिततमां निजभूषणाङ्गीम् ।
स्वात्मेन्दिराथ हरिपदां दधतेऽमृतेब्धे-
स्तं श्रीमदार्यचरणं शरणं भजेम ॥ ५॥
यश्चक्रशङ्खसुगदाम्बुजभूषिताङ्गो
यो यज्ञसूत्रकलितो ललितोर्ध्वपाण्डुः ।
पीताम्बरस्तुलसिका भरणेत्युदार-
स्तं श्रीमदार्यचरणं शरणं भजेम ॥ ६॥
वर्णाश्रमश्रमकृतैर्विविधैः स्वधर्मै-
र्दा नैर्व्रतैरपि मखैः सुतपोभिरुग्रैः ।
नाशीर्भजन्ति चरणाम्बुजमस्य हित्वा
तं श्रीमदार्यचरणं शरणं भजेम ॥ ७॥
दीनस्य हीनसकलागमसाधनस्य
पीनस्य पापपटलैरपि लीनबुद्धेः ।
यस्याङ्घ्य्रधीनमनसः स्वयमेति भक्ति-
स्तं श्रीमदार्यचरणं शरणं भजेम ॥ ८॥
यः स्वाश्रितोद्धृतिकृते चकमेऽवतारान्
तीर्थात्मना ह्युपदिदेश सुभक्तिमार्गान् ।
सद्यः स्वयं हरिरमुष्य वशीकृतश्च
तं श्रीमदार्यचरणं शरणं भजेम ॥ ९॥
निःसाधनाय चरणाम्बुजमाश्रिताय
सम्यग् विशोध्य कुरुते हरिसाज्जनाय ।
यस्मात्परो न करुणावरुणालयोऽन्य-
स्तं श्रीमदार्यचरणं शरणं भजेम ॥ १०॥
इदं गुरुवरस्तोत्रं गुरुप्रीत्यै सदा पठेत् ।
गुरुपूजाफलं प्राप्य हरिभक्तिं च विन्दति ॥ ११॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये
गुरुस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar