शान्तिधर्मकृतं अग्निस्तोत्रम्
कर्तव्योऽत्र मया सोऽयं धर्मोऽत्र प्रथमो मम ।
विचार्येत्थं स मतिमान् वह्रिस्तोत्रं जगौ तदा ॥ २१॥
शरणं पावकं गत्वा त्वेकचित्तः स्तवं व्यधात् ।
``ॐ नमोऽनन्तशक्त्युग्रशक्त्यात्मने हरेः प्रभोः ॥ २२॥
ॐ नमः सर्वलोकानां मखसाधनमूर्तये ।
एकद्विपञ्चधिष्ट्याय राजसूये षडात्मने ॥ २३॥
प्रत्यक्षदेवरूपाय नमस्ते देववृत्तये ।
सर्ववर्ष्मवतां शुक्ररूपाय बलिने नमः ॥ २४॥
त्वं मुखं सर्वदेवानामीश्वराणां हरेरपि ।
त्वं पाकः सर्वभूतानामन्नानां रसिनां तथा ॥ २५॥
हुतं हविर्भक्षयँस्त्वं मेघत्वाय करोषि वै ।
वृष्टिरूपं तु तद्भूत्वौषधिव्रातान् प्रपुष्यति ॥ २६॥
तत्फलाद्यैर्भूतवासाः सुखं जीवन्ति जन्तवः ।
तत्समिद्भिर्जना यज्ञान् प्रकुर्वन्ति सुरा अपि ॥ २७॥
दैत्याश्च राक्षसाश्चापि त्वदाधारा विभावसो ।
जरायुजाश्चाण्डजाश्च स्वेदजा भूमिजा अपि ॥ २८॥
आप्यायन्ते त्वया सर्वे संवृध्यन्ते त्वयाऽनल ।
संरक्ष्यन्ते त्वया सर्वे तथा मां परिरक्षय ॥ २९॥
देवेषु तैजसत्त्वं वै कान्ति सिद्धेषु वै भवान् ।
विषं नागेषु चास्से त्वं वायुभागः पतत्रिषु ॥ ३०॥
मनुजेषु पशुपक्षिगणे क्रोधो भवानपि ।
अवष्टम्भश्च तरुषु काठिन्यं त्वं क्षितावपि ॥ ३१॥
जले द्रवो भवानेव जवो भवान् हि वायुषु ।
व्यापकस्त्वं नभस्येव सर्वम्भूतान्तरस्थितः ॥ ३२॥
त्वमेकस्त्रिविधश्चाप्यष्टधा सहस्रधापि च ।
स्वाहास्वधादिभिर्भोक्ता हव्यकव्यस्य वै भवान् ॥ ३३॥
हेतिष्वापि भवानेव धारासु संविराजते ।
जातवेदो नमस्तुभ्यं पिङ्गाक्ष ते नमोऽस्तु च ॥ ३४॥
हुताशन नमस्तेऽस्तु नमस्ते हव्यवाहन ।
पावकाऽद्य नमस्तेऽस्तु नमस्ते विश्वपावक ॥ ३५॥
पाककर्तर्नमस्तेऽस्तु पोष्टस्ते च नमो नमः ।
त्वं ज्योतिस्त्वं महादित्यो विभावसो नमोऽस्तु ते ॥ ३६॥
हिरण्यरेता वह्निस्त्वं सप्तजिह्व नमोऽस्तु ते ।
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१५८-अध्यायान्तर्गतं शान्तिधर्मकृतं अग्निस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १५८/२१-३६॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 158/21-36..
Proofread by PSA Easwaran