श्रीशारदादेवीस्तोत्रामृतम्
ब्रह्मयुक्तनित्यशक्तिसृष्टजीवपालिकां
रामकृष्णशक्तिशुद्धबुद्धिमुक्तिदायिकाम् ।
रामकृष्णभावसिक्तरामकृष्ण वल्लभां
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ १॥
ब्रह्मशक्तिदिव्यरूपसर्वसृष्टि भासिकां
ज्ञानभक्तिपूर्णमूर्तिनित्यसत्यसुस्थिराम् ।
प्रेमभक्तिरागशुद्धिनित्यमोक्षदायिनीं
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ २॥
रामकृष्णपूजितां सुपावनीं भवेश्वरीं
दृष्टिपातशुद्धिदान दक्षजन्मघातिनीम् ।
रामकृष्ण शुद्धनित्य भक्तिदानतत्परां
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ३॥
रामकृष्णनाममुग्धतत्सुधाकथाप्रियां
रामकृष्णलुप्तचित्तसर्वकामवर्जिताम् ।
विश्वलोकपूज्य-नित्यसिद्ध-साधिकासतीं
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ४॥
भर्तृदेवरामकृष्ण-शेषकर्मसाधिकां
दीर्घकालपुण्ययोग-पूर्णसिद्धिकारिकाम् ।
प्राप्त सर्वयोगसिद्धि -पूर्णकाममातरं
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ५॥
गेहिकृत्य-गेहकर्मनीति धर्मदेशिकां
त्यागिसेव्य-दिव्यधर्म-कायचित्तमण्डिताम् ।
कोटिभक्त-कण्ठगीत-मातृनामवन्दितां
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ६॥
ज्ञानभक्तिमिश्रपूर्ण शौर्यवीर्यदायिकां
क्लैव्यमोह-दीनहीनभीति भावनाशिकाम् ।
दृष्टविश्वरामकृष्ण भावपूतनन्दितां
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ७॥
सर्वसम्प्रदायहीनसत्यधर्मदेशिनीं
देशकालजातिमध्यतुच्छभावनाशिनीम् ।
देशपूज्य-कालपूज्य-कार्यहेतुवर्जितां
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ८॥
आद्याशक्तिदिव्यमूर्ति-हृद्यशान्तिदायिनीं
वेदमूर्तिसत्यमूर्तिं-कल्पवल्लिरूपिणीम् ।
भक्तसूनुचित्तनित्य-वित्तवृद्धिकारिणीं
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ ९॥
सर्वभीतिनाशिनीं च पापपुण्यकारिणीं
सूपदेशदायिनीं च शोकमोहतारिणीम् ।
रामकृष्ण-भावयुक्तसर्वसिद्धिदायिनीं
तां नमामि शारदां हि विश्वमातृरूपिणीम् ॥ १०॥
इति स्वामिजीवानन्दविरचितं ``श्रीश्रीशारदादेवीस्तोत्रामृतम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan