श्रीशारदादेवीस्तोत्रम्
रामकृष्णस्य या शक्तिर्भिन्नरूपेण रूपिता ।
नमामि ब्रह्मशक्तिं तां, शारदां परमेश्वरीम् ॥ १॥
माता ब्रह्ममयी पूज्या, ह्युद्बोधन निवासिनी ।
नमामि वैष्णवीं मायां, शारदां परमेश्वरीम् ॥ २॥
नारीरूपं समाश्रित्य, छद्मरूपेण या स्थिता ।
प्रणमाम्यादिशक्तिं तां; शारदां परमेश्वरीम् ॥ ३॥
परमा प्रकृतिर्नित्या, माया च त्रिगुणात्मिका ।
सगुण निर्गुणा चैव, शारदा परमेश्वरी ॥ ४॥
सर्गस्थितिलयादीनां, लीलाशक्तिः सनातनी ।
आविर्भूता जगत्त्रातुं, शारदा परमेश्वरी ॥ ५॥
सीता-राधादिरूपैश्च; याऽवतीर्णा युगे युगे ।
नमामि योगमायां तां, शारदां परमेश्वरीम् ॥ ६॥
कालीदुर्गादिरूपैश्च, या शक्तिरर्चिता जनैः ।
प्रणमाम्यादिशक्तिं तां, शारदां परमेश्वरीम् ॥ ७॥
उमा-देवात्मशक्त्यादि, नाम्ना वेदेषु वर्णिता ।
प्रणमाम्यादिमायां तां, शारदां परमेश्वरीम् ॥ ८॥
तुरीये न कदा दृष्टा, शुष्ककाष्ठेऽनलो यथा ।
नमामि ब्रह्मशक्तिं तां, शारदां परमेश्वरीम् ॥ ९॥
यया च भ्राम्यते जीवो, ब्रह्मचक्रे पुनः पुनः ।
नमामि वैष्णवीं मायां, शारदां परमेश्वरीम् ॥ १०॥
या शक्तिर्गुरुरूपेण, त्रायते भवबन्धनात् ।
नमामि गुणशक्तिं तां, शारदां परमेश्वरीम् ॥ ११॥
रामकृष्णः परब्रह्म, तच्छक्तिः शारदा तथा ।
एकस्य द्विविधे रूपे, उभौ तौ प्रणमाम्यहम् ॥ १२॥
इति स्वामिबलरामानन्देनविरचितं ``श्रीश्रीशारदादेवीस्तोत्रम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan