श्रीशारदादेवीस्तोत्रम्
संसारसारभूता या, शारदा मातृरूपिणी
गाढ़ान्धतमसि सा वै, ज्ञानदीप स्वरूपिणी ।
जनानां हृदिसंस्था या, शोभमाना निरन्तरम्
शारदां सारदां तां वै शिरसा प्रणमाम्यहम् ॥ १॥
अभ्युदयाय नारीणां याऽविर्भूता महीतले
दुःखार्तानां सेवायै या सर्वकालेषु तत्परा ।
तृष्णाप्रशमनार्थं या, कारुण्यामृतवर्षिणी
करुणार्द्रां शारदां तां भूयो भूयो नमाम्यहम् ॥ २॥
अनुभवाय दारिद्र्यदुःखं सम्यक्रूपेण या
कुटीरे रामचन्द्रस्य सागता धरणीमिह ।
बाल्यात् प्रभृति या गुणैर्जनचित्तापहारिणी
शारदां स्नेहरूपां तां भक्तितः प्रणमाम्यहम् ॥ ३॥
घोषिका नवयुगानां पत्या सम्पूजिता सती
रामकृष्णस्य दयिता, तद्भाष्य रूपिणी तु या ।
महासङ्घस्य जननी वरेण्या गुरुरूपिणी
स्त्री रत्नभूता या देवी शारदां तां नमाम्यहम् ॥ ४॥
मर्त्यानां जननीं देवीमखिलार्तिप्रणाशिनीम्
सदसच्चेतरे जीवा येऽन्ये कृपाभिलाषुकाः ।
यत्कृपादृष्टिमात्रेण धन्याः सर्वेऽभवन्निह
सर्वजीवप्रसूं देवीं शारदां तां स्मराम्यहम् ॥ ५॥
अमृतभाषिणीं देवीं श्रवणसुखदां तथा
सुस्मितवदनां चैव, नयनानन्ददायिनीम् ।
निर्वाणदायिनीं देवीं मोहमेधापहारिणीम्
मुक्तिमार्गप्रदात्रीं तां शारदां संस्मराम्यहम् ॥ ६॥
परमां प्रकृतिं देवीं सर्वकारणरूपिणीम्
सच्चिदानन्ददां देवीं क्षमाविग्रहधारिणीम् ।
सर्वेषामादिभूतां तां भवभीतेः प्रणाशिणीम्
शारदां ज्ञानदात्रीं तां पुनः पुनर्नमाम्यहम् ॥ ७॥
चन्द्रादप्यकलङ्का या, याष्टासखीसमावृता,
जानकी-राधिका देव्योः या प्रतीकस्वरूपिणी ।
आनन्दघटरूपेण पत्युः स्मृतिं वहन्ति या
गृह्णीयात् शारदा माता ममेदं वाक्य संस्तवम् ॥ ८॥
इति अध्यापिका (कुमारी) मितारायचतुर्धुरिण्याविरचितं
``श्रीश्रीशारदादेवीस्तोत्रम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan