श्रीशारदादेवीस्तुतिः
रामकृष्णोऽब्रवीत् पत्नीं ``शारदे ! हे सरस्वति ! ।
शक्तिस्त्वं मम विश्वेऽस्मिन् ज्ञान दानार्थमागता'' ॥ १॥
श्री शारदैकदा प्राह, ``ठाकुरः स्वदिवं गतः ।
परं मामत्र मातृत्वप्रचाराय नियुक्तवान्'' ॥ २॥
परमा प्रकृतिः साक्षात् शक्तिरूपेण भूतले ।
देव श्रीरामकृष्णस्य गुप्तलीला-समागता ॥ ३॥
सिद्धा वा साधिका वाऽपि नासीत् साधारणी हि सा ।
मानवं देहमाश्रित्य सा साक्षाद्भवतारिणी ॥ ४॥
विविधाः साधनास्तस्या जपो वा लक्ष सङ्ख्यकः ।
नासीत् स्वफललाभाय जगत्कल्याणहेतवे ॥ ५॥
उवाच बहुशो देवी ``दुर्लभं नेशदर्शनम् ।
सकृच्चक्षुर्निमीलिते शक्यं कर्तुं न संशयः'' ॥ ६॥
परवर्तिनि काले तु चक्षुरुन्मीलनेऽपि सा ।
सर्वत्रैवाकरोद्देवी निश्चलं ब्रह्मदर्शनम् ॥ ७॥
असङ्ख्य-नरनारीणां गणं समवतारयत् ।
धृतहस्ताऽमृताम्भोधेस्तीरं श्रीरामकृष्णवत् ॥ ८॥
मातृनाम्ना तदाह्वानं श्रवणे तत्सुचेतसि ।
सविशेषोर्मिमालायाः सृष्टिः प्रभवति स्म वै ॥ ९॥
ये ``मात'रिति तां देवीं सम्बोध्योचुः सभक्तिकाः ।
मुक्तेर्मार्गं च तेषां तु कृतेऽकारि तया ध्रुवम् ॥ १०॥
संन्यासिनी न सिद्ध्यर्थं साधनायै तथा न च ।
पर्वतारोहणं चक्रे पतिसेवापराऽनिशम् ॥ ११॥
``मातृदेवो भवे'त्युक्तं ``पितृदेवो'' भवेत्यपि ।
शास्त्रे तत्र तया प्रोक्तं ``पतिदेवाः'' स्त्रियो मताः ॥ १२॥
धार्मिके जीवने पत्युः कृत्वा साहाय्यमद्भुतम् ।
इत्यस्य ख्यापनं चक्रे पत्नी हि सहधर्मिणी ॥ १३॥
सदाक्षरिकभावेन स्वाम्यादेशस्य पालनम् ।
आसीत्तस्याः कृते नूनं जीवनस्य परं व्रतम् ॥ १४॥
स्त्रीभिः कथमवस्थेयं संसारेऽस्मिन्नदर्शयत् ।
आदर्शरूपमास्थाय समग्रे जीवने निजे ॥ १५॥
श्रीमत्याः शारदादेव्या जीवनं निर्मलं महत् ।
विश्वजगति स्त्री जातेः श्रेष्ठादर्शो न संशयः ॥ १६॥
आदर्शरूपिणी कन्या भार्या चादर्शरूपिणी ।
सर्वेषां मातृरूपा सा गुरुर्नैवात्र संशयः ॥ १७॥
सीता श्रीरामचन्द्रस्य राधाकृष्णस्य या मता ।
सैव श्रीरामकृष्णस्य शारदैक्यं त्रिषुस्थिरम् ॥ १८॥
इति न्यायाचार्यपण्डित-आनन्दझाइत्येतेनविरचिता
``श्रीशारदादेवीस्तुतिः'' समाप्ता ।
Proofread by Aruna Narayanan