श्रीशारदादेव्यष्टकम्
दक्षिणेश्वरपुराधिवासिनि दक्षजाभगिनि दुःखनाशिनि ।
स्वर्णनदीतटनिवासमोदिनि पाहि मां जननि शारदाम्बिके ॥ १॥
सत्त्ववर्णविमलाम्बरावृते ध्यानगे दरानिमीलितेक्षणे ।
कङ्कणोल्लसित सत्कराम्बुजे पाहि मां जननि शारदाम्बिके ॥ २॥
शैशवे धृतविवाहमङ्गले तापसेन्द्रपति पूजितेऽनघे ।
सर्वमङ्गल गुणैर्विराजिते पाहि मां जननि शारदाम्बिके ॥ ३॥
ब्रह्मयोगिसहधर्मचारिणि प्रेमवर्षिणि महातपस्विनि ।
मौक्तिकामलवचोविलासिनि पाहि मां जननि शारदाम्बिके ॥ ४॥
भक्तलोकभवभेदकारिणि दुष्टपावनि सदा विरागिनि ।
ब्रह्मवादिनि तमोनिवारिणि पाहि मां जननि शारदाम्बिके ॥ ५॥
श्री जगद्गुरु वचः प्रचारिणि धर्मरक्षिणि गुणानुरञ्जिनि ।
योगिवृन्द-जननीष्टदायिनि पाहि मां जननि शारदाम्बिके ॥ ६॥
भेषजं भवरोगाणां ज्योतिरज्ञाननाशनम् ।
त्वत्पादपङ्कजं देवि, प्रणमामि मुहुर्मुहुः ॥ ७॥
मातरं सर्वलोकानां सर्वमङ्गलविग्रहाम् ।
भक्तेष्वमितकारुण्यां मातृदेवीं नमाम्यहम् ॥ ८॥
इति श्रीमतीदेवकी, के, मेननविरचितं ``श्रीशारदादेव्यष्टकम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan