श्रीशारदामणिवन्दना
माता गुरुभ्यां परमो गुरुर्मतः,
सा दैवतानां परमं च दैवतम् ।
सर्वाश्रयाणां परमाश्रयोऽपि सा,
तुल्यं जनन्या न ततोऽस्ति भुवने ॥ १॥
विलोक्य तीर्थाणि सहस्रवारं
प्रजायते यत् फलमत्र लोके ।
फलं ततः कोटि-गुणाधिकं स्यात्
सकृन्मुखावलोकनतो जनन्याः ॥ २॥
श्रुत्वा हरेर्नाम सहस्रबारं
प्रजायते यत् फलमत्र लोके ।
फलं ततः कोटिगुणाधिकं स्यात्
श्री नाम्न आकर्णनतो जनन्याः ॥ ३॥
सहस्रबारं श्रुति-मन्त्रपाठात्
प्रजायते यत् फलमत्र लोके ।
फलं ततः कोटिगुणाधिकं स्या-
च्छ्रीनाम्न उच्चारणतो जनन्याः ॥ ४॥
सहस्रकृत्वोऽमर-विग्रहाङ्घ्रि
स्पर्शेन यावत् फलमत्र लोके ।
फलं ततः कोटि गुणाधिकं स्यात्
मातुः सकृच्छ्रीपद-सङ्ग्रहेण ॥ ५॥
जननी मम धरणी-सम सर्वसहन-सारा ।
स्वीकृत-नत-सन्तति-शत-पालन-वर-भारा ॥ ६॥
अम्ब ! सदयमृच्छ हृदय-जात-कुसुम-गुच्छम् ।
क्व सुरसद्म चरण-पद्म-विरहित मति तुच्छम् ॥ ७॥
वीताशन-पान-गमन-शयनासन-शोकम् ।
जननि ! बहसि निजवक्षसि दुर्दमपि तोकम् ॥ ८॥
माता मम करुणा-कम-मूर्तिः शम-धात्री ।
प्रति जनुरनुसरतु वितनु पुत्रममृत-पात्री ॥ ९॥
परम-जननि दैत्य-दलनि मोक्ष-धरणि धन्ये ।
वितर वितर मङ्गलकरचाचलेश्वर-कन्ये ॥ १०॥
ब्रह्म-महिषि परम-विदुषि चिन्मयि चिर-सत्ये ।
ज्ञान-विभवमर्पय भव-जलधि-तरण-कृत्ये ॥ ११॥
हृदयं ममभेद-विषम-वोध-विघुरमन्धम् ।
मृगयति सति हत-निर्वृति भवतीमनुसन्ध्यम् ॥ १२॥
धरणी-शरणी भवाब्धि तरणी बन्ध-मोक्ष-कारिणी ।
नमामि चरणे त्रिताप-तारिणी मलिन-मरण-हारिणी ॥ १३॥
कोटि-सूर्य-शोभा-सारिणी, कोटि-चन्द्र-भारिणी ।
कोटि-तारक-किरण धारिणी, कोटि-ग्रह-विचारणी ॥ १४॥
विमल-हासिनी कनक-काशिनी दिव्यधामवासिनी ।
श्री शारदामणिः नित्यानन्दखनिः सुधा-रस-निर्झरिणी ॥ १५॥
भुवनादरिणी भवनाभरणी जननी शारदामणिः ।
तनया तापिनी सदा-विलापिनी पाद-रेणु-कामिनी ॥ १६॥
नौमि श्री शारदामणिं ! नौमि श्री शारदामणिं !! नौमि श्री शारदामणिं !!!
॥ ॐ शान्तिः ॥
इति डाॅ रमाचतुर्धुरिण्याविरचिता श्रीश्रीशारदामणिवन्दना सम्पूर्णा ।
Proofread by Aruna Narayanan