श्रीशारदास्वरूपव्याख्यानम्
वर्णिता या वाणीरूपेति रामकृष्णेन शाश्वती
स्वस्वरूपं यन्मुखात् कालिकेति प्रकाशितम् ।
दुर्गा बगलामुखी चेति विवेकानन्देन घोषिता
सैव ज्ञानेच्छाक्रियामयी श्रीशारदादेवी स्वयम् ॥ १॥
या देवी श्रीविद्येत्यागमादिषु संज्ञिता
षोडशीति च या भगवता रामकृष्णेन पूजिता ।
रामकृष्णलीला प्रसारणाय सर्वकल्याणकरणाय च
सा नारीरूपेणेह मातृभूमावाविर्भूता ॥ २॥
षोडशीविद्यायास्त्रिकूटमन्त्रमध्ये यो वाग्भवकूटः,
सा देव्याः सरस्वत्या ज्ञापयति स्वरूपं कथितं रामकृष्णपादैः ।
त्रिकूटमध्ये कामराजकूट इच्छात्मकं वर्णयति
श्रीकालिकायाः स्वरूपमथ शक्तिकूटेन क्रियात्मकं यत् सूचितं
तदेव दिव्य दृष्ट्या दुर्गा बगला चेति
विवेकानन्दपादैः कीर्तितम् ॥ ३॥
भावत्रयविग्रहायाः शारदाया एकैकभावः
प्रकटीकृतो विभिन्नकाले भगवता रामकृष्णेन
स्वयं शारदया विवेकानन्दपादेन च ।
अतः सैव निरतिशयप्रकाशा महाशक्तिर्देवी शारदेति ॥ ४॥
यस्यास्त्रिपुरसुन्दर्या विभिन्नरूपाणि महालक्ष्मीरिति
महासरस्वतीति महाकालिकेति च
जगदुद्भव-पालन-लयान् कुर्वते
श्यामा यस्याः प्रधानामात्यो-वाराही च दण्डनायिका
सा सर्वेश्वरेश्वरी संराज्ञी भुवनान्नाम् ।
तस्या अर्चां विधातुं श्यामां महाविद्यां
प्रथमं पूजयतः सिद्धौ सत्यां
जायतेऽधिकारस्त्रिपुरसुन्दर्याः पूजायाम् ॥ ५॥
यस्या महिमानं हरिहरादिदेवताः कदापि-वक्तुमलम् ।
सा देवी शारदा सकलभुवनानां
सर्वभूताधिवासासर्वदा मामवतु ॥ ६॥
इति स्वामिहिरण्यमयानन्देन अमित्राक्षरछन्दसाविरचितं
``श्रीश्रीशारदास्वरूपव्याख्यानम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan