शास्तृशवर्णसहस्रनामावलिः
॥ श्रीः ॥
अस्य श्रीशास्तृशवर्णसहस्रनाममहामन्त्रस्य
नैध्रुव ऋषिः, अनुष्टुप्छन्दः, शास्ता देवता ।
ॐ भूताधिपाय विद्महे इति बीजम् ।
ॐ महादेवाय धीमहि इति शक्तिः ।
ॐ तन्नः शास्ता प्रचोदयात् इति कीलकम् ।
साधकाभीष्टसाधने पूजने विनियोगः ।
ॐ ह्रां भूताधिपाय विद्महे अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं महादेवाय धीमहि तर्जनीभ्यां नमः ।
ॐ ह्रूं तन्नः शास्ता प्रचोदयात् मध्यमाभ्यां नमः ।
ॐ ह्रैं तन्नः शास्ता प्रचोदयात् अनामिकाभ्यां नमः ।
ॐ ह्रौं महादेवाय धीमहि कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः भूताधिपाय विद्महे करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
ध्यानं -
श्रीशोमेशात्मपुत्रं श्रितजनवरदं श्लाघनीयापदानं
क्लेशोद्भ्रान्तिप्रणाशं क्लिशितरिपुचयं क्लेदसङ्काशमात्रम् ।
कोशोच्चाश्वाधिरूढं परिगतमृगयाखेलनानन्दचित्तं
पाशोच्चण्डास्त्रपाणिं वरदमभयदं स्तौमि शास्तारमीशम् ॥
ॐ शन्नोदात्रे नमः ।
ॐ शम्भृताङ्काय नमः ।
ॐ शन्तनवे नमः ।
ॐ शन्तनुस्तुताय नमः ।
ॐ शंवाच्याय नमः ।
ॐ शङ्कृतिप्रीताय नमः ।
ॐ शन्दाय नमः ।
ॐ शान्तनवस्तुताय नमः ।
ॐ शङ्कराय नमः ।
ॐ शङ्करिणे नमः । १०
ॐ शम्भवे नमः ।
ॐ शम्भुवे नमः ।
ॐ शम्भुवल्लभाय नमः ।
ॐ शंसाय नमः ।
ॐ शंस्थापतये नमः ।
ॐ शंस्याय नमः ।
ॐ शंसिताय नमः ।
ॐ शङ्करप्रियाय नमः ।
ॐ शंयवे नमः ।
ॐ शङ्खाय नमः । २०
ॐ शम्भवाय नमः ।
ॐ शंसापात्राय नमः ।
ॐ शकेडिताय नमः ।
ॐ शकटघ्नार्चिताय नमः ।
ॐ शक्ताय नमः ।
ॐ शकारिपरिपूजिताय नमः ।
ॐ शकुनज्ञाय नमः ।
ॐ शकुनदाय नमः ।
ॐ शकुनीश्वरपालकाय नमः ।
ॐ शकुनारूढविनुताय नमः । ३०
ॐ शकटासुफलप्रदाय(प्रियाय) नमः ।
ॐ शकुन्तेशात्मजस्तुत्याय नमः ।
ॐ शकलाक्षकयुग्रथाय नमः ।
ॐ शकृत्करिस्तोमपालाय नमः ।
ॐ शक्वरीछन्दईडिताय नमः ।
ॐ शक्तिमते नमः ।
ॐ शक्तिभृद्भक्ताय नमः ।
ॐ शक्तिभृते नमः ।
ॐ शक्तिहेतिकाय नमः ।
ॐ शक्ताय नमः । ४०
ॐ शक्रस्तुताय नमः ।
ॐ शक्याय नमः ।
ॐ शक्रगोपतनुछवये नमः ।
ॐ शक्रजायाभीष्टदात्रे नमः ।
ॐ शक्रसारथिरक्षकाय नमः ।
ॐ शक्राणीविनुताय नमः ।
ॐ शक्लाय नमः ।
ॐ शक्रोत्सवसमातृकाय नमः ।
ॐ शक्वरध्वजसम्प्राप्तबलैश्वर्यविराजिताय नमः ।
ॐ शक्रोत्थानक्रियारम्भबलिपूजाप्रमोदिताय नमः । ५०
ॐ शङ्कवे नमः ।
ॐ शङ्काविरहिताय नमः ।
ॐ शङ्करीचित्तरञ्जकाय नमः ।
ॐ शङ्करावासधौरेयाय नमः ।
ॐ शङ्करालयभोगदाय नमः ।
ॐ शङ्करालङ्कृतदराय नमः ।
ॐ शङ्खिने नमः ।
ॐ शङ्खनिधीश्वराय नमः ।
ॐ शङ्खध्माय नमः ।
ॐ शङ्खभृते नमः । ६०
ॐ शङ्खनखाय नमः ।
ॐ शङ्खजभूषणाय नमः ।
ॐ शङ्खास्याय नमः ।
ॐ शङ्खिनीलोलाय नमः ।
ॐ शङ्खिकाय नमः ।
ॐ शङ्खभृत्प्रियाय नमः ।
ॐ शचीविरहविध्वस्ताय नमः ।
ॐ शचीपतिविनोददाय नमः ।
ॐ शटीगन्धाय नमः ।
ॐ शटाजूटाय नमः । ७०
ॐ शठमूलकृतादराय नमः ।
ॐ शठपुष्पधराय नमः ।
ॐ शस्त्रे नमः ।
ॐ शठात्मकनिबर्हणाय नमः ।
ॐ शणसूत्रधराय नमः ।
ॐ शाणये नमः ।
ॐ शाण्डिल्यादिमुनिस्तुताय नमः ।
ॐ शतकीर्तये नमः ।
ॐ शतधृतये नमः ।
ॐ शतकुन्दसुमप्रियाय नमः । ८०
ॐ शतकुम्भाद्रिनिलयाय नमः ।
ॐ शतक्रतुजयप्रदाय नमः ।
ॐ शतद्रुतटसञ्चारिणे नमः ।
ॐ शतकण्ठसमद्युताय नमः ।
ॐ शतवीर्याय नमः ।
ॐ शतबलाय नमः ।
ॐ शताङ्गिने नमः ।
ॐ शतवाहनाय नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ शत्रुघ्ननुताय नमः । ९०
ॐ शत्रुजिते नमः ।
ॐ शत्रुवञ्चकाय नमः ।
ॐ शलालुकन्धरधराय नमः ।
ॐ शनिपीडाहराय नमः ।
ॐ शिखिने नमः ।
ॐ शनिप्रदोषसञ्जातस्वभक्तभरणोत्सुकाय नमः ।
ॐ शन्यर्चिताय नमः ।
ॐ शनित्राणाय नमः ।
ॐ शन्यनुग्रहकारकाय नमः ।
ॐ शबराखेटनरताय नमः । १००
ॐ शपथाय नमः ।
ॐ शपथक्षणाय नमः ।
ॐ शब्दनिष्ठाय नमः ।
ॐ शब्दवेदिने नमः ।
ॐ शमिने नमः ।
ॐ शमधनस्तुताय नमः ।
ॐ शमीगर्भप्रियाय नमः ।
ॐ शम्बाय नमः ।
ॐ शम्बरारिसहोदराय नमः ।
ॐ शयण्डविमुखाय नमः । ११०
ॐ शण्डिने नमः ।
ॐ शरणागतरक्षकाय नमः ।
ॐ शरजन्मप्राणसखाय नमः ।
ॐ शरजन्मसहोदराय नमः ।
ॐ शरजन्मानुसरणाय नमः ।
ॐ शरजन्मचमूपतये नमः ।
ॐ शरजन्मामात्यवर्याय नमः ।
ॐ शरजन्मप्रियङ्कराय नमः ।
ॐ शरजन्मगणाधीशाय नमः ।
ॐ शरजन्माश्रयाधराय नमः । १२०
ॐ शरजन्माग्रसञ्चारिणे नमः ।
ॐ शरासनधराय नमः ।
ॐ शरिणे नमः ।
ॐ शरारुघ्नाय नमः ।
ॐ शर्कुरेष्टाय नमः ।
ॐ शर्मदाय नमः ।
ॐ शर्मविग्रहाय नमः ।
ॐ शर्यातिजयदाय नमः ।
ॐ शस्त्रिणे नमः ।
ॐ शशभृद्भूषनन्दनाय नमः । १३०
ॐ शश्वद्बलानुकूलाय नमः ।
ॐ शष्कुलीभक्षणादराय नमः ।
ॐ शस्ताय नमः ।
ॐ शस्तवराय नमः ।
ॐ शस्तकेशकाय नमः ।
ॐ शस्तविग्रहाय नमः ।
ॐ शस्त्राढ्याय नमः ।
ॐ शस्त्रभृते देवाय नमः ।
ॐ शस्त्रक्रीडाकुतूहलाय नमः ।
ॐ शस्यायुधाय नमः । १४०
ॐ शार्ङ्गपाणये नमः ।
ॐ शार्ङ्गिस्त्रीप्रियनन्दनाय नमः ।
ॐ शाकप्रियाय नमः ।
ॐ शाकदेवाय नमः ।
ॐ शाकटायनसंस्तुताय नमः ।
ॐ शाक्तधर्मरताय नमः ।
ॐ शाक्ताय नमः ।
ॐ शाक्तिकाय नमः ।
ॐ शाक्तरञ्जकाय नमः ।
ॐ शाकिनीडाकिनीमुख्ययोगिनीपरिसेविताय नमः । १५०
ॐ शाड्वलनाथाय नमः ।
ॐ शाठ्यकर्मरताहिताय नमः ।
ॐ शाण्डिल्यगोत्रवरदाय नमः ।
ॐ शान्तात्मने नमः ।
ॐ शातपत्रकाय नमः ।
ॐ शातकुम्भसुमप्रीताय नमः ।
ॐ शातकुम्भजटाधराय नमः ।
ॐ शातोदरप्रभाय नमः ।
ॐ शाभाय नमः ।
ॐ शाड्वलक्रीडनादराय नमः । १६०
ॐ शानपादारसञ्चारिणे नमः ।
ॐ शात्रवान्वयमर्दनाय नमः ।
ॐ शान्ताय नमः ।
ॐ शान्तनिधये नमः ।
ॐ शान्तये नमः ।
ॐ शान्तात्मने नमः ।
ॐ शान्तिसाधकाय नमः ।
ॐ शान्तिकृते नमः ।
ॐ शान्तिकुशलाय नमः ।
ॐ शान्तधिये नमः । १७०
ॐ शान्तविग्रहाय नमः ।
ॐ शान्तिकामाय नमः ।
ॐ शान्तिपतये नमः ।
ॐ शान्तीड्याय नमः ।
ॐ शान्तिवाचकाय नमः ।
ॐ शान्तस्तुताय नमः ।
ॐ शान्तनुताय नमः ।
ॐ शान्तेड्याय नमः ।
ॐ शान्तपूजिताय नमः ।
ॐ शापास्त्राय नमः । १८०
ॐ शापकुशलाय नमः ।
ॐ शापायुधसुपूजिताय नमः ।
ॐ शापघ्नाय नमः ।
ॐ शापदीनेड्याय नमः ।
ॐ शापद्विजे नमः ।
ॐ शापनिग्रहाय नमः ।
ॐ शापार्जिताय नमः ।
ॐ शाकटिकवाहप्रीताय नमः ।
ॐ शामिनये नमः ।
ॐ शाब्दिकाय नमः । १९०
ॐ शाब्दिकनुताय नमः ।
ॐ शाब्दबोधप्रदायकाय नमः ।
ॐ शाम्बरागमवेदिने नमः ।
ॐ शाम्बराय नमः ।
ॐ शाम्बरोत्सवाय नमः ।
ॐ शामिनीदिग्विहाराय नमः ।
ॐ शामित्रगणपालकाय नमः ।
ॐ शाम्भवाय नमः ।
ॐ शाम्भवाराध्याय नमः ।
ॐ शामिलालेपनादराय नमः । २००
ॐ शाम्भवेष्टाय नमः ।
ॐ शाम्भवाढ्याय नमः ।
ॐ शाम्भवीशम्भुपूजकाय नमः ।
ॐ शारभ्रुवे नमः ।
ॐ शारदाय नमः ।
ॐ शारिणे नमः ।
ॐ शारदानिवहद्युतये नमः ।
ॐ शारदेड्याय नमः ।
ॐ शारदीष्टाय नमः ।
ॐ शारिस्थाय नमः । २१०
ॐ शारुकान्तकाय नमः ।
ॐ शार्कुखादिने नमः ।
ॐ शार्कुरेष्टाय नमः ।
ॐ शारीरमलमोचकाय नमः ।
ॐ शार्ङ्गिणे नमः ।
ॐ शार्ङ्गिसुताय नमः ।
ॐ शार्ङ्गिप्रीताय नमः ।
ॐ शार्ङ्गिप्रियादराय नमः ।
ॐ शार्दूलाक्षाय नमः ।
ॐ शार्वराभाय नमः । २२०
ॐ शार्वरीप्रियशेखराय नमः ।
ॐ शालङ्कीड्याय नमः ।
ॐ शालवाभाय नमः ।
ॐ शालकामार्चकादराय नमः ।
ॐ शाश्वताय नमः ।
ॐ शाश्वतैश्वर्याय नमः ।
ॐ शासित्रे नमः ।
ॐ शासनादराय नमः ।
ॐ शास्त्रज्ञाय नमः ।
ॐ शास्रतत्त्वज्ञाय नमः । २३०
ॐ शास्त्रदर्शिने नमः ।
ॐ शास्त्रविदे नमः ।
ॐ शास्त्रचक्षवे नमः ।
ॐ शास्त्रकर्षिणे अथवा शास्त्रकुक्षये नमः ।
ॐ शास्त्रकृते नमः ।
ॐ शास्त्रचारणाय नमः ।
ॐ शास्त्रिणे नमः ।
ॐ शास्त्रप्रतिष्ठात्रे नमः ।
ॐ शास्त्रार्थाय नमः ।
ॐ शास्त्रपोषकाय नमः । २४०
ॐ शास्त्रहेतवे नमः ।
ॐ शास्त्रसेतवे नमः ।
ॐ शास्त्रकेतवे नमः ।
ॐ शास्त्रभुवे नमः ।
ॐ शास्त्राश्रयाय नमः ।
ॐ शास्त्रगेयाय नमः ।
ॐ शास्त्रकाराय नमः ।
ॐ शास्त्रदृषे नमः ।
ॐ शास्त्राङ्गाय नमः ।
ॐ शास्त्रपूज्याय नमः । २५०
ॐ शास्त्रग्रथनलालसाय नमः ।
ॐ शास्त्रप्रसाधकाय नमः ।
ॐ शास्त्रज्ञेयाय नमः ।
ॐ शास्त्रार्थपण्डिताय नमः ।
ॐ शास्त्रपारङ्गताय नमः ।
ॐ शास्त्रगुणविदे नमः ।
ॐ शास्त्रशोधकाय नमः ।
ॐ शास्त्रकृद्वरदात्रे नमः ।
ॐ शास्त्रसन्दर्भबोधकाय नमः ।
ॐ शास्त्रकृत्पूजिताय नमः । २६०
ॐ शास्त्रकराय नमः ।
ॐ शास्त्रपरायणाय नमः ।
ॐ शास्त्रानुरक्ताय नमः ।
ॐ शास्त्रात्मने नमः ।
ॐ शास्त्रसन्देहभञ्जकाय नमः ।
ॐ शास्त्रनेत्रे नमः ।
ॐ शास्त्रपूताय नमः ।
ॐ शास्त्रयोनये नमः ।
ॐ शास्त्रहृते नमः ।
ॐ शास्त्रलोलाय नमः । २७०
ॐ शास्त्रपालाय नमः ।
ॐ शास्त्रकृत्परिरक्षकाय नमः ।
ॐ शास्त्रधर्माय नमः ।
ॐ शास्त्रकर्मणे नमः ।
ॐ शास्त्रशीलाय नमः ।
ॐ शास्त्रनुते नमः ।
ॐ शास्त्रदृष्टये नमः ।
ॐ शास्त्रपुष्टये नमः ।
ॐ शास्त्रतुष्टये नमः ।
ॐ शास्त्रचिदे नमः । २८०
ॐ शास्त्रशुद्धये नमः ।
ॐ शास्त्रबुद्धये नमः ।
ॐ शास्त्रधिये नमः ।
ॐ शास्त्रवर्धनाय नमः ।
ॐ शास्त्रप्रज्ञाय नमः ।
ॐ शास्त्रविज्ञाय नमः ।
ॐ शास्त्रार्थिने नमः ।
ॐ शास्त्रमण्डलाय नमः ।
ॐ शास्त्रस्पृशे नमः ।
ॐ शास्त्रनिपुणाय नमः । २९०
ॐ शास्त्रसृके नमः ।
ॐ शास्त्रमङ्गलाय नमः ।
ॐ शास्त्रधीराय नमः ।
ॐ शास्त्रशूराय नमः ।
ॐ शास्त्रवीराय नमः ।
ॐ शास्त्रसते नमः ।
ॐ शास्त्राधिपाय नमः ।
ॐ शास्त्रदेवाय नमः ।
ॐ शास्त्रक्रीडाय नमः ।
ॐ शास्त्रराजे नमः । ३००
ॐ शास्त्राढ्याय नमः ।
ॐ शास्त्रसारज्ञाय नमः ।
ॐ शास्त्राय नमः ।
ॐ शास्त्रप्रदर्शकाय नमः ।
ॐ शास्त्रप्रौढाय नमः ।
ॐ शास्त्ररूढाय नमः ।
ॐ शास्त्रगूढाय नमः ।
ॐ शास्त्रपाय नमः ।
ॐ शास्त्रध्यानाय नमः ।
ॐ शास्त्रगुणाय नमः । ३१०
ॐ शास्त्रेशानाय नमः ।
ॐ शास्त्रभुवे नमः ।
ॐ शास्त्रज्येष्ठाय नमः ।
ॐ शास्त्रनिष्ठाय नमः ।
ॐ शास्त्रश्रेष्ठाय नमः ।
ॐ शास्त्ररुके नमः ।
ॐ शास्त्रत्रात्रे नमः ।
ॐ शास्त्रभर्त्रे नमः ।
ॐ शास्त्रकर्त्रे नमः ।
ॐ शास्त्रमुते नमः । ३२०
ॐ शास्त्रधन्याय नमः ।
ॐ शास्त्रपुण्याय नमः ।
ॐ शास्त्रगण्याय नमः ।
ॐ शास्त्रधिये नमः ।
ॐ शास्त्रस्फूर्तये नमः ।
ॐ शास्त्रमूर्तये नमः ।
ॐ शास्त्रकीर्तये नमः ।
ॐ शास्त्रभृते नमः ।
ॐ शास्त्रप्रियाय नमः ।
ॐ शास्त्रजायाय नमः । ३३०
ॐ शास्त्रोपायाय नमः ।
ॐ शास्त्रगिये नमः ।
ॐ शास्त्राधाराय नमः ।
ॐ शास्त्रचराय नमः ।
ॐ शास्त्रसाराय नमः ।
ॐ शास्त्रधुके नमः ।
ॐ शास्त्रप्राणाय नमः ।
ॐ शास्त्रगणाय नमः ।
ॐ शास्त्रत्राणाय नमः ।
ॐ शास्त्रभाके नमः । ३४०
ॐ शास्त्रनाथाय नमः ।
ॐ शास्त्ररथाय नमः ।
ॐ शास्त्रसेनाय नमः ।
ॐ शास्त्रदाय नमः ।
ॐ शास्त्रस्वामिने नमः ।
ॐ शास्त्रभूम्ने नमः ।
ॐ शास्त्रकामिने नमः ।
ॐ शास्त्रभुजे नमः ।
ॐ शास्त्रप्रख्याय नमः ।
ॐ शास्त्रमुख्याय नमः । ३५०
ॐ शास्त्रविख्याय नमः ।
ॐ शास्त्रवते नमः ।
ॐ शास्त्रवर्णाय नमः ।
ॐ शास्त्रपूर्णाय नमः ।
ॐ शास्त्रकर्णाय नमः ।
ॐ शास्त्रपुजे नमः ।
ॐ शास्त्रभोगाय नमः ।
ॐ शास्त्रयोगाय नमः ।
ॐ शास्त्रभागाय नमः ।
ॐ शास्त्रयुजे नमः । ३६०
ॐ शास्त्रोज्ज्वलाय नमः ।
ॐ शास्त्रबालाय नमः ।
ॐ शास्त्रनाम्ने नमः ।
ॐ शास्त्रभुजे नमः ।
ॐ शास्त्रश्रिये नमः ।
ॐ शास्त्रसन्तुष्टाय नमः ।
ॐ शास्त्रोक्ताय नमः ।
ॐ शास्त्रदैवताय नमः ।
ॐ शास्त्रमौलये नमः ।
ॐ शास्त्रकेलये नमः । ३७०
ॐ शास्त्रपालये नमः ।
ॐ शास्त्रमुषे नमः ।
ॐ शास्त्रराज्याय नमः ।
ॐ शास्त्रभोज्याय नमः ।
ॐ शास्त्रेज्याय नमः ।
ॐ शास्त्रयाजकाय नमः ।
ॐ शास्त्रसौख्याय नमः ।
ॐ शास्त्रविभवे नमः ।
ॐ शास्त्रप्रेष्ठाय नमः ।
ॐ शास्त्रजुजे नमः । ३८०
ॐ शास्त्रवीर्याय नमः ।
ॐ शास्त्रकार्याय नमः ।
ॐ शास्त्रार्हाय नमः ।
ॐ शास्त्रतत्पराय नमः ।
ॐ शास्तग्राहिणे नमः ।
ॐ शास्त्रवहाय नमः ।
ॐ शास्त्राक्षाय नमः ।
ॐ शास्त्रकारकाय नमः ।
ॐ शास्त्रश्रीदाय नमः ।
ॐ शास्त्रदेहाय नमः । ३९०
ॐ शास्त्रशेषाय नमः ।
ॐ शास्त्रत्विजे नमः ।
ॐ शास्त्रह्लादिने नमः ।
ॐ शास्त्रकलाय नमः ।
ॐ शास्त्ररश्मये नमः ।
ॐ शास्त्रधिये नमः ।
ॐ शास्त्रसिन्धवे नमः ।
ॐ शास्त्रबन्धवे नमः ।
ॐ शास्त्रयत्नाय नमः ।
ॐ शास्त्रभिदे नमः । ४००
ॐ शास्त्रप्रदर्शिने नमः ।
ॐ शास्त्रेष्टाय नमः ।
ॐ शास्त्रभूषाय नमः ।
ॐ शास्त्रगाय नमः ।
ॐ शास्त्रसङ्घाय नमः ।
ॐ शास्त्रसखाय नमः ।
ॐ शास्त्रविशारदाय नमः ।
ॐ शास्त्रप्रीताय नमः ।
ॐ शास्त्रहिताय नमः ।
ॐ शास्त्रपूताय नमः । ४१०
ॐ शास्त्रकृते नमः ।
ॐ शास्त्रमालिने नमः ।
ॐ शास्त्रयायिने नमः ।
ॐ शास्त्रीयाय नमः ।
ॐ शास्त्रपारदृशे नमः ।
ॐ शास्त्रस्थायिने नमः ।
ॐ शास्त्रचारिणे नमः ।
ॐ शास्त्रगिये नमः ।
ॐ शास्त्रचिन्तनाय नमः ।
ॐ शास्त्रध्यानाय नमः । ४२०
ॐ शास्त्रगानाय नमः ।
ॐ शास्त्रालये नमः ।
ॐ शास्त्रमानदाय नमः ।
ॐ शिक्यपालाय नमः ।
ॐ शिक्यरक्षाय नमः ।
ॐ शिखण्डिने नमः ।
ॐ शिखरादराय नमः ।
ॐ शिखराय नमः ।
ॐ शिखरीन्द्रस्थाय नमः ।
ॐ शिखरीव्यूहपालकाय नमः । ४३०
ॐ शिखरावासनप्रीताय नमः ।
ॐ शिखावलवशादृताय नमः ।
ॐ शिखावते नमः ।
ॐ शिखिमित्राय नमः ।
ॐ शिखीड्याय नमः ।
ॐ शिखिलोचनाय नमः ।
ॐ शिखायोगरताय नमः ।
ॐ शिग्रुप्रीताय नमः ।
ॐ शिग्रुजखादनाय नमः ।
ॐ शिग्रुजेक्षुरसानन्दाय नमः । ४४०
ॐ शिखिप्रीतिकृतादराय नमः ।
ॐ शिताय नमः ।
ॐ शितये नमः ।
ॐ शितिकण्ठादराय नमः ।
ॐ शितिवक्षरुके नमः ।
ॐ शिञ्जञ्चिकाहेमकान्तिवस्त्राय नमः ।
ॐ शिञ्जितमण्डिताय नमः ।
ॐ शिथिलारिगणाय नमः ।
ॐ शिञ्जिने नमः ।
ॐ शिपिविष्टप्रियाय नमः । ४५०
ॐ शिफिने नमः ।
ॐ शिबिप्रियाय नमः ।
ॐ शिबिनुताय नमः ।
ॐ शिबीड्याय नमः ।
ॐ शिबिस्तुताय नमः ।
ॐ शिबिकष्टहराय नमः ।
ॐ शिब्याश्रिताय नमः ।
ॐ शिबिकाप्रियाय नमः ।
ॐ शिबिरिणे नमः ।
ॐ शिबिरत्राणाय नमः । ४६०
ॐ शिबिरालयवल्लभाय नमः ।
ॐ शिबिवल्लभसत्प्रेमाय नमः ।
ॐ शिराफलजलादराय नमः ।
ॐ शिरजालङ्कृतशिरसे नमः ।
ॐ शिरस्त्राणविभूषिताय नमः ।
ॐ शिरोरत्नप्रतीकाशाय नमः ।
ॐ शिरोवेष्टनशोभिताय नमः ।
ॐ शिलादसंस्तुताय नमः ।
ॐ शिल्पिने नमः ।
ॐ शिवदाय नमः । ४७०
ॐ शिवङ्कराय नमः ।
ॐ शिवाय नमः ।
ॐ शिवात्मने नमः ।
ॐ शिवभुवे नमः ।
ॐ शिवकृते नमः ।
ॐ शिवशेखराय नमः ।
ॐ शिवज्ञाय नमः ।
ॐ शिवकर्मज्ञाय नमः ।
ॐ शिवधर्मविचारकाय नमः ।
ॐ शिवजन्मने नमः । ४८०
ॐ शिवावासाय नमः ।
ॐ शिवयोगिने नमः ।
ॐ शिवास्पदाय नमः ।
ॐ शिवस्मृतये नमः ।
ॐ शिवधृतये नमः ।
ॐ शिवार्थाय नमः ।
ॐ शिवमानसाय नमः ।
ॐ शिवाढ्याय नमः ।
ॐ शिववर्यज्ञाय नमः ।
ॐ शिवार्थाय नमः । ४९०
ॐ शिवकीर्तनाय नमः ।
ॐ शिवेश्वराय नमः ।
ॐ शिवाराध्याय नमः ।
ॐ शिवाध्यक्षाय नमः ।
ॐ शिवप्रियाय नमः ।
ॐ शिवनाथाय नमः ।
ॐ शिवस्वामिने नमः ।
ॐ शिवेशाय नमः ।
ॐ शिवनायकाय नमः ।
ॐ शिवमूर्तये नमः । ५००
ॐ शिवपतये नमः ।
ॐ शिवकीर्तये नमः ।
ॐ शिवादराय नमः ।
ॐ शिवप्राणाय नमः ।
ॐ शिवत्राणाय नमः ।
ॐ शिवत्रात्रे नमः ।
ॐ शिवाज्ञकाय नमः ।
ॐ शिवपाय नमः ।
ॐ शिवक्रीडाय नमः ।
ॐ शिवदेवाय नमः । ५१०
ॐ शिवाधिपाय नमः ।
ॐ शिवज्येष्ठाय नमः ।
ॐ शिवश्रेष्ठाय नमः ।
ॐ शिवप्रेष्ठाय नमः ।
ॐ शिवाधिराजे नमः ।
ॐ शिवराजे नमः ।
ॐ शिवगोप्त्रे नमः ।
ॐ शिवाङ्गाय नमः ।
ॐ शिवदैवताय नमः ।
ॐ शिवबन्धवे नमः । ५२०
ॐ शिवसुहृदे नमः ।
ॐ शिवाधीशाय नमः ।
ॐ शिवप्रदाय नमः ।
ॐ शिवाग्रण्ये नमः ।
ॐ शिवेशानाय नमः ।
ॐ शिवगीताय नमः ।
ॐ शिवोच्छ्रयाय नमः ।
ॐ शिवस्फूर्तये नमः ।
ॐ शिवसुताय नमः ।
ॐ शिवप्रौढाय नमः । ५३०
ॐ शिवोद्यताय नमः ।
ॐ शिवसेनाय नमः ।
ॐ शिवचराय नमः ।
ॐ शिवभर्त्रे नमः ।
ॐ शिवप्रभवे नमः ।
ॐ शिवैकराजे नमः ।
ॐ शिवप्रज्ञाय नमः ।
ॐ शिवसाराय नमः ।
ॐ शिवस्पृहाय नमः ।
ॐ शिवग्रीवाय नमः । ५४०
ॐ शिवनाम्ने नमः ।
ॐ शिवभूतये नमः ।
ॐ शिवान्तराय नमः ।
ॐ शिवमुख्याय नमः ।
ॐ शिवप्रख्याय नमः ।
ॐ शिवविख्याय नमः ।
ॐ शिवाख्यगाय नमः ।
ॐ शिवध्यात्रे नमः ।
ॐ शिवोद्गात्रे नमः ।
ॐ शिवदात्रे नमः । ५५०
ॐ शिवस्थितये नमः ।
ॐ शिवानन्दाय नमः ।
ॐ शिवमतये नमः ।
ॐ शिवार्हाय नमः ।
ॐ शिवतत्पराय नमः ।
ॐ शिवभक्ताय नमः ।
ॐ शिवासक्ताय नमः ।
ॐ शिवशक्ताय नमः ।
ॐ शिवात्मकाय नमः ।
ॐ शिवदृशे नमः । ५६०
ॐ शिवसम्पन्नाय नमः ।
ॐ शिवहृते नमः ।
ॐ शिवमण्डिताय नमः ।
ॐ शिवभाषे नमः ।
ॐ शिवसन्धात्रे नमः ।
ॐ शिवश्लाघिने नमः ।
ॐ शिवोत्सुकाय नमः ।
ॐ शिवशीलाय नमः ।
ॐ शिवरसाय नमः ।
ॐ शिवलोलाय नमः । ५७०
ॐ शिवोत्कटाय नमः ।
ॐ शिवलिङ्गाय नमः ।
ॐ शिवपदाय नमः ।
ॐ शिवसन्धाय नमः ।
ॐ शिवोज्ज्वलाय नमः ।
ॐ शिवश्रीदाय नमः ।
ॐ शिवकलाय नमः ।
ॐ शिवमान्याय नमः ।
ॐ शिवप्रदाय नमः ।
ॐ शिवव्रताय नमः । ५८०
ॐ शिवहिताय नमः ।
ॐ शिवप्रीताय नमः ।
ॐ शिवाशयाय नमः ।
ॐ शिवनिष्ठाय नमः ।
ॐ शिवजपाय नमः ।
ॐ शिवसंज्ञाय नमः ।
ॐ शिवोर्जिताय नमः ।
ॐ शिवमानाय नमः ।
ॐ शिवस्थानाय नमः ।
ॐ शिवगानाय नमः । ५९०
ॐ शिवोपमाय नमः ।
ॐ शिवानुरक्ताय नमः ।
ॐ शिवहृदे नमः ।
ॐ शिवहेतवे नमः ।
ॐ शिवार्चकाय नमः ।
ॐ शिवकेलये नमः ।
ॐ शिववटवे नमः ।
ॐ शिवचाटवे नमः ।
ॐ शिवास्त्रविदे नमः ।
ॐ शिवसङ्गाय नमः । ६००
ॐ शिवधराय नमः ।
ॐ शिवभावाय नमः ।
ॐ शिवार्थकृते नमः ।
ॐ शिवलीलाय नमः ।
ॐ शिवस्वान्ताय नमः ।
ॐ शिवेच्छाय नमः ।
ॐ शिवदायकाय नमः ।
ॐ शिवशिष्याय नमः ।
ॐ शिवोपायाय नमः ।
ॐ शिवेष्टाय नमः । ६१०
ॐ शिवभावनाय नमः ।
ॐ शिवप्रधिये नमः ।
ॐ शिवविभवे नमः ।
ॐ शिवाभीष्टाय नमः ।
ॐ शिवध्वजाय नमः ।
ॐ शिववते नमः ।
ॐ शिवसम्मोहाय नमः ।
ॐ शिवर्धये नमः ।
ॐ शिवसम्भ्रमाय नमः ।
ॐ शिवश्रिये नमः । ६२०
ॐ शिवसङ्कल्पाय नमः ।
ॐ शिवगात्राय नमः ।
ॐ शिवोक्तिदाय नमः ।
ॐ शिववेषाय नमः ।
ॐ शिवोत्कर्षाय नमः ।
ॐ शिवभाषाय नमः ।
ॐ शिवोत्सुकाय नमः ।
ॐ शिवमूलाय नमः ।
ॐ शिवापालाय नमः ।
ॐ शिवशूलाय नमः । ६३०
ॐ शिवाबलाय नमः ।
ॐ शिवाचाराय नमः ।
ॐ शिवाकाराय नमः ।
ॐ शिवोदाराय नमः ।
ॐ शिवाकराय नमः ।
ॐ शिवहृष्टाय नमः ।
ॐ शिवोद्दिष्टाय नमः ।
ॐ शिवतुष्टाय नमः ।
ॐ शिवेष्टदाय नमः ।
ॐ शिवडिम्भाय नमः । ६४०
ॐ शिवारम्भाय नमः ।
ॐ शिवोज्जृम्भाय नमः ।
ॐ शिवाभराय नमः ।
ॐ शिवमयाय नमः ।
ॐ शिवचयाय नमः ।
ॐ शिवदायाय नमः ।
ॐ शिवोच्छ्रयाय नमः ।
ॐ शिवव्यूहाय नमः ।
ॐ शिवोत्साहाय नमः ।
ॐ शिवस्नेहाय नमः । ६५०
ॐ शिवावहाय नमः ।
ॐ शिवलोकाय नमः ।
ॐ शिवालोकाय नमः ।
ॐ शिवौकसे नमः ।
ॐ शिवसूचकाय नमः ।
ॐ शिवबुद्धये नमः ।
ॐ शिवर्धये नमः ।
ॐ शिवसिद्धये नमः ।
ॐ शिवर्धिदाय नमः ।
ॐ शिवधिये नमः । ६६०
ॐ शिवसंशुद्धये नमः ।
ॐ शिवधिये नमः ।
ॐ शिवसिद्धिदाय नमः ।
ॐ शिवनाम्ने नमः ।
ॐ शिवप्रेमाय नमः ।
ॐ शिवभुवे नमः ।
ॐ शिववित्तमाय नमः ।
ॐ शिवाविष्टाय नमः ।
ॐ शिवादिष्टाय नमः ।
ॐ शिवाभीष्टाय नमः । ६७०
ॐ शिवेष्टकृते नमः ।
ॐ शिवसेविने नमः ।
ॐ शिवकवये नमः ।
ॐ शिवख्याताय नमः ।
ॐ शिवच्छवये नमः ।
ॐ शिवलीनाय नमः ।
ॐ शिवच्छन्नाय नमः ।
ॐ शिवध्यानाय नमः ।
ॐ शिवस्वनाय नमः ।
ॐ शिवपालाय नमः । ६८०
ॐ शिवस्थूलाय नमः ।
ॐ शिवजालाय नमः ।
ॐ शिवालयाय नमः ।
ॐ शिवावेशाय नमः ।
ॐ शिवोद्देशाय नमः ।
ॐ शिवादेशाय नमः ।
ॐ शिवोद्यताय नमः ।
ॐ शिवपक्षाय नमः ।
ॐ शिवाध्यक्षाय नमः ।
ॐ शिवरक्षाय नमः । ६९०
ॐ शिवेक्षणाय नमः ।
ॐ शिवपद्याय नमः ।
ॐ शिवोद्विद्याय नमः ।
ॐ शिवहृद्याय नमः ।
ॐ शिवाद्यकाय नमः ।
ॐ शिवपाद्याय नमः ।
ॐ शिवस्वाद्याय नमः ।
ॐ शिवार्घ्याय नमः ।
ॐ शिवपाद्यकाय नमः ।
ॐ शिवार्हाय नमः । ७००
ॐ शिवहार्दाय नमः ।
ॐ शिवबिम्बाय नमः ।
ॐ शिवार्भकाय नमः ।
ॐ शिवमण्डलमध्यस्थाय नमः ।
ॐ शिवकेलिपरायणाय नमः ।
ॐ शिवामित्रप्रमथनाय नमः ।
ॐ शिवभक्तार्तिनाशनाय नमः ।
ॐ शिवभक्तिप्रियरताय नमः ।
ॐ शिवप्रवणमानसाय नमः ।
ॐ शिवाल्लभ्यपुष्टाङ्गाय नमः । ७१०
ॐ शिवारिहरणोत्सुकाय नमः ।
ॐ शिवानुग्रहसन्धात्रे नमः ।
ॐ शिवप्रणयतत्पराय नमः ।
ॐ शिवपादाब्जलोलम्बाय नमः ।
ॐ शिवपूजापरायणाय नमः ।
ॐ शिवकीर्तनसन्तुष्टाय नमः ।
ॐ शिवोल्लासक्रियादराय नमः ।
ॐ शिवापदानचतुराय नमः ।
ॐ शिवकार्यानुकूलदाय नमः ।
ॐ शिवपुत्रप्रीतिकराय नमः । ७२०
ॐ शिवाश्रितगणेष्टदाय नमः ।
ॐ शिवमूर्धाभिषिक्ताङ्गाय नमः ।
ॐ शिवसैन्यपुरःसराय नमः ।
ॐ शिवविश्वाससम्पूर्णाय नमः ।
ॐ शिवप्रमथसुन्दराय नमः ।
ॐ शिवलीलाविनोदज्ञाय नमः ।
ॐ शिवविष्णुमनोहराय नमः ।
ॐ शिवप्रेमार्द्रदिव्याङ्गाय नमः ।
ॐ शिववागमृतार्थविदे नमः ।
ॐ शिवपूजाग्रगण्याय नमः । ७३०
ॐ शिवमङ्गलचेष्टिताय नमः ।
ॐ शिवदूषकविध्वंसिने नमः ।
ॐ शिवाज्ञापरिपालकाय नमः ।
ॐ शिवसंसारशृङ्गाराय नमः ।
ॐ शिवज्ञानप्रदायकाय नमः ।
ॐ शिवस्थानधृतोद्दण्डाय नमः ।
ॐ शिवयोगविशारदाय नमः ।
ॐ शिवप्रेमास्पदोच्चण्डदण्डनाडम्बरोद्भटाय नमः ।
ॐ शिवार्चकपरित्रात्रे नमः ।
ॐ शिवभक्तिप्रदायकाय नमः । ७४०
ॐ शिवध्यानैकनिलयाय नमः ।
ॐ शिवधर्मपरायणाय नमः ।
ॐ शिवस्मरणसान्निध्याय नमः ।
ॐ शिवानन्दमहोदाराय नमः ।
ॐ शिवप्रसादसन्तुष्टाय नमः ।
ॐ शिवकैवल्यमूलकाय नमः ।
ॐ शिवसङ्कीर्तनोल्लासाय नमः ।
ॐ शिवकैलासभोगदाय नमः ।
ॐ शिवप्रदोषपूजात्तसर्वसौभाग्यसुन्दराय नमः ।
ॐ शिवलिङ्गार्चनासक्ताय नमः । ७५०
ॐ शिवनामस्मृतिप्रदाय नमः ।
ॐ शिवालयस्थापकाय नमः ।
ॐ शिवाद्रिक्रीडनोत्सुकाय नमः ।
ॐ शिवापदाननिपुणाय नमः ।
ॐ शिववाक्परिपालकाय नमः ।
ॐ शिवानीप्रीतिकलशाय नमः ।
ॐ शिवारातिविनाशकाय नमः ।
ॐ शिवात्मकक्रियालोलाय नमः ।
ॐ शिवसायुज्यसाधकाय नमः ।
ॐ शिशिरेष्टाय नमः । ७६०
ॐ शिशिरदाय नमः ।
ॐ शिशिरर्तुप्रियाय नमः ।
ॐ शिशवे नमः ।
ॐ शिशुप्रियाय नमः ।
ॐ शिशुत्रात्रे नमः ।
ॐ शिशुभाषिणे नमः ।
ॐ शिशूत्सवाय नमः ।
ॐ शिशुपालनतात्पर्याय नमः ।
ॐ शिशुपूज्याय नमः ।
ॐ शिशुक्षमाय नमः । ७७०
ॐ शिशुपालक्रोधहराय नमः ।
ॐ शिशुशक्तिधरस्तुताय नमः ।
ॐ शिशुपालघ्नविनुताय नमः ।
ॐ शिशुपालनचेष्टिताय नमः ।
ॐ शिशुचान्द्रायणप्रीताय नमः ।
ॐ शिशुभावावनप्रभवे नमः ।
ॐ शीकरप्रणयाय नमः ।
ॐ शीकराङ्गाय नमः ।
ॐ शीघ्राय नमः ।
ॐ शीघ्रशाय नमः । ७८०
ॐ शीघ्रवेदिने नमः ।
ॐ शीघ्रगामिने नमः ।
ॐ शीघ्रयोद्ध्रे नमः ।
ॐ शीघ्रधिये नमः ।
ॐ शीघ्रकप्रियकृते नमः ।
ॐ शीघ्रिणे नमः ।
ॐ शीघ्रदात्रे नमः ।
ॐ शीघ्रभृते नमः ।
ॐ शीतालङ्करणाय नमः ।
ॐ शीतजलास्वादनतत्पराय नमः । ७९०
ॐ शीताय नमः ।
ॐ शीतकराय नमः ।
ॐ शीतपुष्पधारिणे नमः ।
ॐ शीतगवे नमः ।
ॐ शीतप्रियाय नमः ।
ॐ शीतभानवे नमः ।
ॐ शीतरश्मये नमः ।
ॐ शीतलाय नमः ।
ॐ शीतप्रभाय नमः ।
ॐ शीतलाढ्याय नमः । ८००
ॐ शीतांशवे नमः ।
ॐ शीतवीर्यकाय नमः ।
ॐ शीतलाङ्गाय नमः ।
ॐ शीतसहाय नमः ।
ॐ शीताद्रिनिलयप्रियाय नमः ।
ॐ शित्पुटभ्रुवे नमः ।
ॐ शीतनेत्राय नमः ।
ॐ शीर्णाङ्घ्रिभयनाशनाय नमः ।
ॐ शीतात्मगिरिसञ्चारिणे नमः ।
ॐ शीर्णपर्णसुमोत्कराय नमः । ८१०
ॐ शीभज्ञाय नमः ।
ॐ शीर्षण्यधराय नमः ।
ॐ शीर्षरक्षाय नमः ।
ॐ शीलवते नमः ।
ॐ शीलज्ञाय नमः ।
ॐ शीलदाय नमः ।
ॐ शीलपालकाय नमः ।
ॐ शीलवत्प्रभवे नमः ।
ॐ शुकतुण्डनिभापाङ्गाय नमः ।
ॐ शुकवाहनसोदराय नमः । ८२०
ॐ शुकप्रियफलास्वादाय नमः ।
ॐ शुकवाक्यप्रियाय नमः ।
ॐ शुभिने नमः ।
ॐ शुकवाहप्रियाय नमः ।
ॐ शुक्तिकाजहाराय नमः ।
ॐ शुकप्रियाय नमः ।
ॐ शुक्राय नमः ।
ॐ शुक्रभुगारूढभूताय नमः ।
ॐ शुक्रप्रपूजिताय नमः ।
ॐ शुक्रशिष्यान्तकाय नमः । ८३०
ॐ शुक्रवर्णाय नमः ।
ॐ शुक्रकराय नमः ।
ॐ शुचये नमः ।
ॐ शुक्लाय नमः ।
ॐ शुक्लनुताय नमः ।
ॐ शुक्लिने नमः ।
ॐ शुक्लपुष्पाय नमः ।
ॐ शुक्लदाय नमः ।
ॐ शुक्लाङ्गाय नमः ।
ॐ शुक्लकर्मणे नमः । ८४०
ॐ शुचिभूमिनिवासकाय नमः ।
ॐ शुचिप्रदाय नमः ।
ॐ शुचिकराय नमः ।
ॐ शुचिकर्मणे नमः ।
ॐ शुचिप्रियाय नमः ।
ॐ शुचिरोचाय नमः ।
ॐ शुचिमतये नमः ।
ॐ शुण्ठीगुडजलादराय नमः ।
ॐ शुद्धाय नमः ।
ॐ शुद्धफलाहाराय नमः । ८५०
ॐ शुद्धान्तपरिपालकाय नमः ।
ॐ शुद्धचेतसे नमः ।
ॐ शुद्धकर्मणे नमः ।
ॐ शुद्धभावाय नमः ।
ॐ शुद्धिदाय नमः ।
ॐ शुभाय नमः ।
ॐ शुभाङ्गाय नमः ।
ॐ शुभकृते नमः ।
ॐ शुभेच्छाय नमः ।
ॐ शुभमानसाय नमः । ८६०
ॐ शुभभापिने नमः ।
ॐ शुभनुताय नमः ।
ॐ शुभवर्षिणे नमः ।
ॐ शुभादराय नमः ।
ॐ शुभशीलाय नमः ।
ॐ शुभप्रीताय नमः ।
ॐ शुभंयवे नमः ।
ॐ शुभपोषकाय नमः ।
ॐ शुभङ्कराय नमः ।
ॐ शुभगणाय नमः । ८७०
ॐ शुभाचाराय नमः ।
ॐ शुभोत्सवाय नमः ।
ॐ शुभादराय नमः ।
ॐ शुभोदाराय नमः ।
ॐ शुभाहाराय नमः ।
ॐ शुभावहाय नमः ।
ॐ शुभान्विताय नमः ।
ॐ शुभहिताय नमः ।
ॐ शुभवर्णाय नमः ।
ॐ शुभाम्बराय नमः । ८८०
ॐ शुभभक्ताय नमः ।
ॐ शुभासक्ताय नमः ।
ॐ शुभयुक्ताय नमः ।
ॐ शुभेक्षणाय नमः ।
ॐ शुभ्राय नमः ।
ॐ शुभ्रगणाय नमः ।
ॐ शुभ्रवस्त्राय नमः ।
ॐ शुभ्रविभूषणाय नमः ।
ॐ शुभविध्वंसिनीभूताय नमः ।
ॐ शुल्कादाननिपातकाय नमः । ८९०
ॐ शुष्मद्युतये नमः ।
ॐ शुष्मिसखाय नमः ।
ॐ शुश्रूषादूतशङ्कराय नमः ।
ॐ शूराय नमः ।
ॐ शूराश्रिताय नमः ।
ॐ शूरगणाय नमः ।
ॐ शूरचमूपतये नमः ।
ॐ शूरप्रवरसन्दोहाय नमः ।
ॐ शूरभक्ताय नमः ।
ॐ शूरवते नमः । ९००
ॐ शूरसेनाय नमः ।
ॐ शूरनुताय नमः ।
ॐ शूरपालाय नमः ।
ॐ शूरजिते नमः ।
ॐ शूरदेवाय नमः ।
ॐ शूरविभवे नमः ।
ॐ शूरनेत्रे नमः ।
ॐ शूरराजे नमः ।
ॐ शूलपाणियुताय नमः ।
ॐ शूलिने नमः । ९१०
ॐ शूलयुद्धविशारदाय नमः ।
ॐ शूलिनीप्रियकृते नमः ।
ॐ शूलवित्रस्तरिपुमण्डलाय नमः ।
ॐ शृङ्गारखेलाय नमः ।
ॐ शृङ्गारगात्राय नमः ।
ॐ शृङ्गारशेखराय नमः ।
ॐ शृङ्गारजटिलाय नमः ।
ॐ शृङ्गाटकसञ्चारकौतुकाय नमः ।
ॐ शृङ्गारभूषणाय नमः ।
ॐ शृङ्गारयोनिजननार्भकाय नमः । ९२०
ॐ शेमुषीदुःखहन्त्रे नमः ।
ॐ शेखरीकृतमूर्धजाय नमः ।
ॐ शेषस्तुताय नमः ।
ॐ शेषपाणये नमः ।
ॐ शेषभूषणनन्दनाय नमः ।
ॐ शेषाद्रिनिलयप्रीताय नमः ।
ॐ शेषोदरसहोदराय नमः ।
ॐ शैलजाप्रियकृत्कर्मणे नमः ।
ॐ शैलराजप्रपूजिताय नमः ।
ॐ शैलादिविनुताय नमः । ९३०
ॐ शैवाय नमः ।
ॐ शैवशास्त्रप्रचारकाय नमः ।
ॐ शैवधीराय नमः ।
ॐ शैववीराय नमः ।
ॐ शैवशूराय नमः ।
ॐ शैवराजे नमः ।
ॐ शैवत्राणाय नमः ।
ॐ शैवगणाय नमः ।
ॐ शैवप्राणाय नमः ।
ॐ शैवविदे नमः । ९४०
ॐ शैवशास्त्राय नमः ।
ॐ शैवशास्त्राढ्याय नमः ।
ॐ शैवभृते नमः ।
ॐ शैवपालकाय नमः ।
ॐ शैवदक्षाय नमः ।
ॐ शैवपक्षाय नमः ।
ॐ शैवरक्षाय नमः ।
ॐ शैवहृते नमः ।
ॐ शैवाङ्गाय नमः ।
ॐ शैवमन्त्रज्ञाय नमः । ९५०
ॐ शैवतन्त्राय नमः ।
ॐ शैवदाय नमः ।
ॐ शैवमौनिने नमः ।
ॐ शैवमतये नमः ।
ॐ शैवयन्त्रविधायकाय नमः ।
ॐ शैवव्रताय नमः ।
ॐ शैवनेत्रे नमः ।
ॐ शैवज्ञाय नमः ।
ॐ शैवसैन्यकाय नमः ।
ॐ शैवनन्द्याय नमः । ९६०
ॐ शैवपूज्याय नमः ।
ॐ शैवराज्याय नमः ।
ॐ शैवपाय नमः ।
ॐ शोणापाङ्गाय नमः ।
ॐ शोणनखाय नमः ।
ॐ शोणरत्नविभूषिताय नमः ।
ॐ शोकघ्नाय नमः ।
ॐ शोभनास्त्राय नमः ।
ॐ शोधकाय नमः ।
ॐ शोभनप्रदाय नमः । ९७०
ॐ शोषितारये नमः ।
ॐ शोषहारिणे नमः ।
ॐ शोषिताश्रितरक्षकाय नमः ।
ॐ शौरीड्याय नमः ।
ॐ शौरिवरदाय नमः ।
ॐ शौरिद्विट्प्राणहारकाय नमः ।
ॐ श्रद्धाधाराय नमः ।
ॐ श्रद्धालवे नमः ।
ॐ श्रद्धावित्परिपालकाय नमः ।
ॐ श्रवणानन्दजनकाय नमः । ९८०
ॐ श्रवणाभरणोज्ज्वलाय नमः ।
ॐ श्रीदाय नमः ।
ॐ श्रीदप्रियाय नमः ।
ॐ श्रीदस्तुताय नमः ।
ॐ श्रीदप्रपूजिताय नमः ।
ॐ श्रुतिज्ञाय नमः ।
ॐ श्रुतिवित्पूज्याय नमः ।
ॐ श्रुतिसाराय नमः ।
ॐ श्रुतिप्रदाय नमः ।
ॐ श्रुतिमौलिनुतप्रेमडिम्भाय नमः । ९९०
ॐ श्रुतिविचारकाय नमः ।
ॐ श्लाघ्याय नमः ।
ॐ श्लाघापराय नमः ।
ॐ श्लाघ्यगणाय नमः ।
ॐ श्लाघ्यगुणाकराय नमः ।
ॐ श्वेताङ्गाय नमः ।
ॐ श्वेतगजरथाय नमः ।
ॐ श्वेतसुमादराय नमः ।
ॐ श्रीधृक् श्रीधरदाम्पत्यसार्थसम्मोहनाकृतये नमः ।
ॐ श्रीकामाश्रितसन्दोहकैरवानन्दचन्द्रमसे नमः । १०००
इति श्रीशास्तृशवर्णसहस्रनामावलिः समाप्ता ।
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran