शास्तृशवर्णसहस्रनामस्तोत्रम्

शास्तृशवर्णसहस्रनामस्तोत्रम्

॥ श्रीः ॥ अस्य श्रीशास्तृशवर्णसहस्रनामस्तोत्रमहामन्त्रस्य नैध्रुव ऋषिः, अनुष्टुप्छन्दः, शास्ता देवता । ॐ भूताधिपाय विद्महे इति बीजम् । ॐ महादेवाय धीमहि इति शक्तिः । ॐ तन्नः शास्ता प्रचोदयात् इति कीलकम् । साधकाभीष्टसाधने पूजने विनियोगः । ॐ ह्रां भूताधिपाय विद्महे अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं महादेवाय धीमहि तर्जनीभ्यां नमः । ॐ ह्रूं तन्नः शास्ता प्रचोदयात् मध्यमाभ्यां नमः । ॐ ह्रैं तन्नः शास्ता प्रचोदयात् अनामिकाभ्यां नमः । ॐ ह्रौं महादेवाय धीमहि कनिष्ठिकाभ्यां नमः । ॐ ह्रः भूताधिपाय विद्महे करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ध्यानं - श्रीशोमेशात्मपुत्रं श्रितजनवरदं श्लाघनीयापदानं क्लेशोद्भ्रान्तिप्रणाशं क्लिशितरिपुचयं क्लेदसङ्काशमात्रम् । कोशोच्चाश्वाधिरूढं परिगतमृगयाखेलनानन्दचित्तं पाशोच्चण्डास्त्रपाणिं वरदमभयदं स्तौमि शास्तारमीशम् ॥ ॐ शन्नो दाता शम्भृताङ्कः शन्तनुः शन्तनुस्तुतः । शंवाच्यः शङ्कृतिप्रीतः शन्दः शान्तनवस्तुतः ॥ १॥ शङ्करः शङ्करी शम्भुः शम्भूर्वै शम्भुवल्लभः । शंसः शंस्थापतिः शंस्यः शंसितः शङ्करप्रियः ॥ २॥ शंयुः शङ्खः शम्भवोऽपि शंसापात्रं शकेडितः । शकटघ्नार्चितः शक्तः शकारिपरिपूजितः ॥ ३॥ शकुनज्ञः शकुनदः शकुनीश्वरपालकः । शकुनारूढविनुतः शकटासुफल (प्रदः) प्रियः ॥ ४॥ शकुन्तेशात्मजस्तुत्यः शकलाक्षकयुग्रथः । शकृत्करिस्तोमपालः शक्वरीच्छन्दईडितः ॥ ५॥ शक्तिमान् शक्तिभृद्भक्तः शक्तिभृच्छक्तिहेतिकः । शक्तः शक्रस्तुतः शक्यः शक्रगोपतनुच्छविः ॥ ६॥ शक्रजायाभीष्टदाता शक्रसारथिरक्षकः । शक्राणीविनुतः शक्लः शक्रोत्सवसमातृकः ॥ ७॥ शक्वरध्वजसम्प्राप्तबलैश्वर्यविराजितः । शक्रोत्थानक्रियारम्भबलिपूजाप्रमोदितः ॥ ८॥ शङ्कुः शङ्काविरहितः शङ्करीचित्तरञ्जकः । शङ्करावासधौरेयः शङ्करालयभोगदः ॥ ९॥ शङ्करालङ्कृतदरः शङ्खी शङ्खनिधीश्वरः । शङ्खध्मः शङ्खभृच्छङ्खनखः शङ्खजभूषणः ॥ १०॥ शङ्खास्यः शङ्खिनीलोलः शङ्खिकः शङ्खभृत्प्रियः । शचीविरहविध्वस्तः शचीपतिविनोददः ॥ ११॥ शटीगन्धः शटाजूटः शठमूलकृतादरः । शठपुष्पधरः शस्ता शठात्मकनिबर्हणः ॥ १२॥ शणसूत्रधरः शाणी शाण्डिल्यादिमुनिस्तुतः । शतकीर्तिः शतधृतिः शतकुन्दसुमप्रियः ॥ १३॥ शतकुम्भाद्रिनिलयः शतक्रतुजयप्रदः । शतद्रुतटसञ्चारी शतकण्ठसमद्युतिः ॥ १४॥ शतवीर्यः शतबलः शताङ्गी शतवाहनः । शत्रुघ्नः शत्रुघ्ननुतः शत्रुजिच्छत्रुवञ्चकः ॥ १५॥ शलालुकन्धरधरः शनिपीडाहरः शिखी । शनिप्रदोषसञ्जातस्वभक्तभरणोत्सुकः ॥ १६॥ शन्यर्चितः शनित्राणः शन्यनुग्रहकारकः । शबराखेटनरतः शपथः शपथक्षणः ॥ १७॥ शब्दनिष्ठः शब्दवेदी शमी शमधनस्तुतः । शमीगर्भप्रियः शम्बः शम्बरारिसहोदरः ॥ १८॥ शयण्डविमुखः शण्डी शरणागतरक्षकः । शरजन्मप्राणसखः शरजन्मसहोदरः ॥ १९॥ शरजन्मानुसरणः शरजन्मचमूपतिः । शरजन्मामात्यवर्यः शरजन्मप्रियङ्करः ॥ २०॥ शरजन्मगणाधीशः शरजन्माश्रयाधरः । शरजन्माग्रसञ्चारी शरासनधरः शरी ॥ २१॥ शरारुघ्नः शर्कुरेष्टः शर्मदः शर्मविग्रहः । शर्यातिजयदः शस्त्री शशभृद्भूषनन्दनः ॥ २२॥ शश्वद्बलानुकूलोऽपि शष्कुलीभक्षणादरः । शस्तः शस्तवरः शस्तकेशकः शस्तविग्रहः ॥ २३॥ शस्त्राढ्यः शस्त्रभृद्देवः शस्त्रक्रीडाकुतूहलः । शस्यायुधः शार्ङ्गपाणिः शार्ङ्गिस्त्रीप्रियनन्दनः ॥ २४॥ शाकप्रियः शाकदेवः शाकटायनसंस्तुतः । शाक्तधर्मरतः शाक्तः शाक्तिकः शाक्तरञ्जकः ॥ २५॥ शाकिनीडाकिनीमुख्ययोगिनीपरिसेवितः । तथा शाड्वलनाथश्च शाठ्यकर्मरताहितः ॥ २६॥ शाण्डिल्यगोत्रवरदः शान्तात्मा शातपत्रकः । शातकुम्भसुमप्रीतः शातकुम्भजटाधरः ॥ २७॥ शातोदरप्रभः शाभः शाड्वलक्रीडनादरः । शानपादारसञ्चारी शात्रवान्वयमर्दनः ॥ २८॥ शान्तः शान्तनिधिः शान्तिः शान्तात्मा शान्तिसाधकः । शान्तिकृच्छान्तिकुशलः शान्तधीः शान्तविग्रहः ॥ २९॥ शान्तिकामः शान्तिपतिः शान्तीड्यः शान्तिवाचकः । शान्तस्तुतः शान्तनुतः शान्तेड्यः शान्तपूजितः ॥ ३०॥ शापास्त्रः शापकुशलः शापायुधसुपूजितः । शापघ्नः शापदीनेड्यः शापद्विट् शापनिग्रहः ॥ ३१॥ शापार्जितः शाकटिकवाहप्रीतश्च शामिनी । शाब्दिकः शाब्दिकनुतः शाब्दबोधप्रदायकः ॥ ३२॥ शाम्बरागमवेदी च शाम्बरः शाम्बरोत्सवः । शामिनीदिग्विहारोऽथ शामित्रगणपालकः ॥ ३३॥ शाम्भवः शाम्भवाराध्यः शामिलालेपनादरः । शाम्भवेष्टः शाम्भवाढ्यः शाम्भवी शम्भुपूजकः ॥ ३४॥ शारभ्रूः शारदः शारी शारदानिवहद्युतिः । शारदेड्यः शारदीष्टः शारिस्थः शारुकान्तकः ॥ ३५॥ शार्कुखादी शार्कुरेष्टः शारीरमलमोचकः । शार्ङ्गी शार्ङ्गिसुतः शार्ङ्गिप्रीतः शार्ङ्गिप्रियादरः ॥ ३६॥ शार्दूलाक्षः शार्वराभः शार्वरीप्रियशेखरः । शालङ्कीड्यः शालवाभः शालकामार्चकादरः ॥ ३७॥ शाश्वतः शाश्वतैश्वर्यः शासिता शासनादरः । शास्त्रज्ञः शास्त्रतत्त्वज्ञः शास्त्रदर्शी च शास्त्रवित् ॥ ३८॥ शास्त्रचक्षुः शास्त्रकर्षी (कुक्षी) शास्त्रकृच्छास्त्रचारणः । शास्त्री शास्त्रप्रतिष्ठाता शास्त्रार्थः शास्त्रपोषकः ॥ ३९॥ शास्त्रहेतुः शास्त्रसेतुः शास्त्रकेतुश्च शास्त्रभूः । शास्त्राश्रयः शास्त्रगेयः शास्त्रकारश्च शास्त्रदृक् ॥ ४०॥ शास्त्राङ्गः शास्त्रपूज्यश्च शास्त्रग्रथनलालसः । शास्त्रप्रसाधकः शास्त्रज्ञेयः शास्त्रार्थपण्डितः ॥ ४१॥ शास्त्रपारङ्गतः शास्त्रगुणविच्छास्त्रशोधकः । शास्त्रकृद्वरदाता च शास्त्रसन्दर्भबोधकः ॥ ४२॥ शास्त्रकृत्पूजितः शास्त्रकरः शास्त्रपरायणः । शास्त्रानुरक्तः शास्त्रात्मा शास्त्रसन्देहभञ्जकः ॥ ४३॥ शास्त्रनेता शास्त्रपूतः शास्त्रयोनिश्च शास्त्रहृत् । शास्त्रलोलः शास्त्रपालः शास्त्रकृत्परिरक्षकः ॥ ४४॥ शास्त्रधर्मः शास्त्रकर्मा शास्त्रशीलश्च शास्त्रनुत् । शास्त्रदृष्टिः शास्त्रपुष्टिः शास्त्रतुष्टिश्च शास्त्रचित् ॥ ४५॥ शास्त्रशुद्धिः शास्त्रबुद्धिः शास्त्रधीः शास्त्रवर्धनः । शास्त्रप्रज्ञः शास्त्रविज्ञः शास्त्रार्थी शास्त्रमण्डलः ॥ ४६॥ शास्त्रस्पृक् शास्त्रनिपुणः शास्त्रसृक् शास्त्रमङ्गलः । शास्त्रधीरः शास्त्रशूरः शास्त्रवीरश्च शास्त्रसत् ॥ ४७॥ शास्त्राधिपः शास्त्रदेवः शास्त्रक्रीडोऽथ शास्त्रराट् । शास्त्राढ्यः शास्त्रसारज्ञः शास्त्रं शास्त्रप्रदर्शकः ॥ ४८॥ शास्त्रप्रौढः शास्त्ररूढः शास्त्रगूढश्च शास्त्रपः । शास्त्रध्यानः शास्त्रगुणः शास्त्रेशानश्च शास्त्रभूः ॥ ४९॥ शास्त्रज्येष्ठः शास्त्रनिष्ठः शास्त्रश्रेष्ठश्च शास्त्ररुक् । शास्त्रत्राता शास्त्रभर्ता शास्त्रकर्ता च शास्त्रमुत् ॥ ५०॥ शास्त्रधन्यः शास्त्रपुण्यः शास्त्रगण्यश्च शास्त्रधीः । शास्त्रस्फूर्तिः शास्त्रमूर्तिः शास्त्रकीर्तिश्च शास्त्रभृत् ॥ ५१॥ शास्त्रप्रियः शास्त्रजायः शास्त्रोपायश्च शास्त्रगीः । शास्त्राधारः शास्त्रचरः शास्त्रसारश्च शास्त्रधुक् ॥ ५२॥ शास्त्रप्राणः शास्त्रगणः शास्त्रत्राणश्च शास्त्रभाक् । शास्त्रनाथः शास्त्ररथः शास्त्रसेनश्च शास्त्रदः ॥ ५३॥ शास्त्रस्वामी शास्त्रभूमा शास्त्रकामी च शास्त्रभुक् । शास्त्रप्रख्यः शास्त्रमुख्यः शास्त्रविख्योऽथ शास्त्रवान् ॥ ५४॥ शास्त्रवर्णः शास्त्रपूर्णः शास्त्रकर्णोऽथ शास्त्रपुट् । शास्त्रभोगः शास्त्रयोगः शास्त्रभागश्च शास्त्रयुक् ॥ ५५॥ शास्त्रोज्ज्वलः शास्त्रबालः शास्त्रनामा च शास्त्रभुक् । शास्त्रश्रीः शास्त्रसन्तुष्टः शास्त्रोक्तः शास्त्रदैवतम् ॥ ५६॥ शास्त्रमौलिः शास्त्रकेलिः शास्त्रपालिश्च शास्त्रमुक् । शास्त्रराज्यः शास्त्रभोज्यः शास्त्रेज्यः शास्त्रयाजकः ॥ ५७॥ शास्त्रसौख्यः शास्त्रविभुः शास्त्रप्रेष्ठश्च शास्त्रजुट् । शास्त्रवीर्यः शास्त्रकार्यः शास्त्रार्हः शास्त्रतत्परः ॥ ५८॥ शास्तग्राही शास्त्रवहः शास्त्राक्षः शास्त्रकारकः । शास्त्रश्रीदः शास्त्रदेहः शास्त्रशेषश्च शास्त्रत्विट् ॥ ५९॥ शास्त्रह्लादी शास्त्रकलः शास्त्ररश्मिश्च शास्त्रधीः । शास्त्रसिन्धुः शास्त्रबन्धुः शास्त्रयत्नश्च शास्त्रभित् ॥ ६०॥ शास्त्रप्रदर्शी शास्त्रेष्टः शास्त्रभूषश्च शास्त्रगः । शास्त्रसङ्घः शास्त्रसखस्तथा शास्त्रविशारदः ॥ ६१॥ शास्त्रप्रीतः शास्त्रहितः शास्त्रपूतोऽथ शास्त्रकृत् । शास्त्रमाली शास्त्रयायी शास्त्रीयः शास्त्रपारदृक् ॥ ६२॥ शास्त्रस्थायी शास्त्रचारी शास्त्रगीः शास्त्रचिन्तनः । शास्त्रध्यानः शास्त्रगानः शास्त्राली शास्त्रमानदः ॥ ६३॥ शिक्यपालः शिक्यरक्षः शिखण्डी शिखरादरः । शिखरं शिखरीन्द्रस्थः शिखरीव्यूहपालकः ॥ ६४॥ शिखरावासनप्रीतः शिखावलवशादृतः । शिखावान्शिखिमित्रश्च शिखीड्यः शिखिलोचनः ॥ ६५॥ शिखायोगरतः शिग्रुप्रीतः शिग्रुजखादनः । शिग्रुजेक्षुरसानन्दः शिखिप्रीतिकृतादरः ॥ ६६॥ शितः शितिः शितिकण्ठादरश्च शितिवक्षरुक् । शिञ्जञ्जिकाहेमकान्तिवस्त्रः शिञ्जितमण्डितः ॥ ६७॥ शिथिलारिगणः शिञ्जी शिपिविष्टप्रियः शिफी । शिबिप्रियः शिबिनुतः शिबीड्यश्च शिबिस्तुतः ॥ ६८॥ शिबिकष्टहरः शिव्याश्रितश्च शिबिकाप्रियः । शिबिरी शिबिरत्राणः शिबिरालयवल्लभः ॥ ६९॥ शिबिवल्लभसत्प्रेमा शिराफलजलादरः । शिरजालङ्कृतशिराः शिरस्त्राणविभूषितः ॥ ७०॥ शिरोरत्नप्रतीकाशः शिरोवेष्टनशोभितः । शिलादसंस्तुतः शिल्पी शिवदश्च शिवङ्करः ॥ ७१॥ शिवः शिवात्मा शिवभूः शिवकृच्छिवशेखरः । शिवज्ञः शिवकर्मज्ञः शिवधर्मविचारकः ॥ ७२॥ शिवजन्मा शिवावासः शिवयोगी शिवास्पदः । शिवस्मृतिः शिवधृतिः शिवार्थः शिवमानसः ॥ ७३॥ शिवाढ्यः शिववर्यज्ञः शिवार्थः शिवकीर्तनः । शिवेश्वरः शिवाराध्यः शिवाध्यक्षः शिवप्रियः ॥ ७४॥ शिवनाथः शिवस्वामी शिवेशः शिवनायकः । शिवमूर्तिः शिवपतिः शिवकीर्तिः शिवादरः ॥ ७५॥ शिवप्राणः शिवत्राणः शिवत्राता शिवाज्ञकः । शिवपश्च शिवक्रीडः शिवदेवः शिवाधिपः ॥ ७६॥ शिवज्येष्ठः शिवश्रेष्ठः शिवप्रेष्ठः शिवाधिराट् । शिवराट् शिवगोप्ता च शिवाङ्गः शिवदैवतः ॥ ७७॥ शिवबन्धुः शिवसुहृच्छिवाधीशः शिवप्रदः । शिवाग्रणीः शिवेशानः शिवगीतः शिवोच्छ्रयः ॥ ७८॥ शिवस्फूर्तिः शिवसुतः शिवप्रौढःशिवोद्यतः । शिवसेनः शिवचरः शिवभर्ता शिवप्रभुः ॥ ७९॥ शिवैकराट् शिवप्रज्ञः शिवसारः शिवस्पृहः । शिवग्रीवः शिवनामा शिवभूतिः शिवान्तरः ॥ ८०॥ शिवमुख्यः शिवप्रख्यः शिवविख्यः शिवाख्यगः । शिवध्याता शिवोद्गाता शिवदाता शिवस्थितिः ॥ ८१॥ शिवानन्दः शिवमतिः शिवार्हः शिवतत्परः । शिवभक्तः शिवासक्तः शिवशक्तः शिवात्मकः ॥ ८२॥ शिवदृक् शिवसम्पन्नः शिवहृच्छिवमण्डितः । शिवभाक् शिवसन्धाता शिवश्लाघी शिवोत्सुकः ॥ ८३॥ शिवशीलः शिवरसः शिवलोलः शिवोत्कटः । शिवलिङ्गः शिवपदः शिवसन्धः शिवोज्ज्वलः ॥ ८४॥ शिवश्रीदः शिवकलः शिवमान्यः शिवप्रदः । शिवव्रतः शिवहितः शिवप्रीतः शिवाशयः ॥ ८५॥ शिवनिष्ठः शिवजपः शिवसंज्ञः शिवोर्जितः । शिवमानः शिवस्थानः शिवगानः शिवोपमः ॥ ८६॥ शिवानुरक्तः शिवहृच्छिवहेतुः शिवार्चकः । शिवकेलिः शिववटुः शिवचाटुः शिवास्त्रवित् ॥ ८७॥ शिवसङ्गः शिवधरः शिवभावः शिवार्थकृत् । शिवलीलः शिवस्वान्तः शिवेच्छः शिवदायकः ॥ ८८॥ शिवशिष्यः शिवोपायः शिवेष्टः शिवभावनः । शिवप्रधीः शिवविभुः शिवाभीष्टः शिवध्वजः ॥ ८९॥ शिववान् शिवसम्मोहः शिवर्धिः शिवसम्भ्रमः । शिवश्रीः शिवसङ्कल्पः शिवगात्रः शिवोक्तिदः ॥ ९०॥ शिववेषः शिवोत्कर्षः शिवभाषः शिवोत्सुकः । शिवमूलः शिवापालः शिवशूलः शिवाबलः ॥ ९१॥ शिवाचारः शिवाकारः शिवोदारः शिवाकरः । शिवहृष्टः शिवोद्दिष्टः शिवतुष्टः शिवेष्टदः ॥ ९२॥ शिवडिम्भः शिवारम्भः शिवोज्जृम्भः शिवाभरः । शिवमायः शिवचयः शिवदायः शिवोच्छ्रयः ॥ ९३॥ शिवव्यूहः शिवोत्साहः शिवस्नेहः शिवावहः । शिवलोकः शिवालोकः शिवौकाः शिवसूचकः ॥ ९४॥ शिवबुद्धिः शिवर्धिश्च शिवसिद्धिः शिवर्धिदः । शिवधीः शिवसंशुद्धिः शिवधीः शिवसिद्धिदः ॥ ९५॥ शिवनामा शिवप्रेमा शिवभूः शिववित्तमः । शिवाविष्टः शिवादिष्टः शिवाभीष्टः शिवेष्टकृत् ॥ ९६॥ शिवसेवी शिवकविः शिवख्यातः शिवच्छविः । शिवलीनः शिवच्छन्नः शिवध्यानः शिवस्वनः ॥ ९७॥ शिवपालः शिवस्थूलः शिवजालः शिवालयः । शिवावेशः शिवोद्देशः शिवादेशः शिवोद्यतः ॥ ९८॥ शिवपक्षः शिवाध्यक्षः शिवरक्षः शिवेक्षणः । शिवपद्यः शिवोद्विद्यः शिवहृद्यः शिवाद्यकः ॥ ९९॥ शिवपाद्यः शिवस्वाद्यः शिवार्घ्यः शिवपाद्यकः । शिवार्हः शिवहार्दश्च शिवबिम्बः शिवार्भकः ॥ १००॥ शिवमण्डलमध्यस्थः शिवकेलिपरायणः । शिवामित्रप्रमथनः शिवभक्तार्तिनाशनः ॥ १०१॥ शिवभक्तिप्रियरतः शिवप्रवणमानसः । शिववाल्लभ्यपुष्टाङ्गः शिवारिहरणोत्सुकः ॥ १०२॥ शिवानुग्रहसन्धाता शिवप्रणयतत्परः । शिवपादाब्जलोलम्बः शिवपूजापरायणः ॥ १०३॥ शिवकीर्तनसन्तुष्टः शिवोल्लासक्रियादरः । शिवापदानचतुरः शिवकार्यानुकूलदः ॥ १०४॥ शिवपुत्रप्रीतिकरः शिवाश्रितगणेष्टदः । शिवमूर्धाभिषिक्ताङ्गः शिवसैन्यपुरःसरः ॥ १०५॥ शिवविश्वाससम्पूर्णः शिवप्रमथसुन्दरः । शिवलीलाविनोदज्ञः शिवविष्णुमनोहरः ॥ १०६॥ शिवप्रेमार्द्रदिव्याङ्गः शिववागमृतार्थवित् । शिवपूजाग्रगण्यश्च शिवमङ्गलचेष्टितः ॥ १०७॥ शिवदूषकविध्वंसी शिवाज्ञापरिपालकः । शिवसंसारश‍ृङ्गारः शिवज्ञानप्रदायकः ॥ १०८॥ शिवस्थानधृतोद्दण्डः शिवयोगविशारदः । शिवप्रेमास्पदोच्चण्डदण्डनाडम्बरोद्भटः ॥ १०९॥ शिवार्चकपरित्राता शिवभक्तिप्रदायकः । शिवध्यानैकनिलयः शिवधर्मपरायणः ॥ ११०॥ शिवस्मरणसान्निध्यः शिवानन्दमहोदरः । शिवप्रसादसन्तुष्टः शिवकैवल्यमूलकः ॥ १११॥ शिवसङ्कीर्तनोल्लासः शिवकैलासभोगदः । शिवप्रदोषपूजात्तसर्वसौभाग्यसुन्दरः ॥ ११२॥ शिवलिङ्गार्चनासक्तः शिवनामस्मृतिप्रदः । शिवालयस्थापकश्च शिवाद्रिक्रीडनोत्सुकः ॥ ११३॥ शिवापदाननिपुणः शिववाक्परिपालकः । शिवानीप्रीतिकलशः शिवारातिविनाशकः ॥ ११४॥ शिवात्मकक्रियालोलः शिवसायुज्यसाधकः । शिशिरेष्टः शिशिरदः शिशिरर्तुप्रियः शिशुः ॥ ११५॥ शिशुप्रियः शिशुत्राता शिशुभाषी शिशूत्सवः । शिशुपालनतात्पर्यः शिशुपूज्यः शिशुक्षमः ॥ ११६॥ शिशुपालक्रोधहरः शिशुशक्तिधरस्तुतः । शिशुपालघ्नविनुतः शिशुपालनचेष्टितः ॥ ११७॥ शिशुचान्द्रायणप्रीतः शिशुभावावनप्रभुः । शीकरप्रणयः शीकराङ्गः शीघ्रश्च शीघ्रशः ॥ ११८॥ शीघ्रवेदी शीघ्रगामी शीघ्रयोद्धा च शीघ्रधीः । शीघ्रकप्रियकृच्छीघ्री शीघ्रदाता च शीघ्रभृत् ॥ ११९॥ शीतालङ्करणः शीतजलास्वादनतत्परः । शीतः शीतकरः शीतपुष्पधारी च शीतगुः ॥ १२०॥ शीतप्रियः शीतभानुः शीतरश्मिश्च शीतलः । शीताप्रभः शीतलाढ्यः शीतांशुः शीतवीर्यकः ॥ १२१॥ शीतलाङ्गः शीतसहः शीताद्रिनिलयप्रियः । शीत्पुटभ्रुः शीतनेत्रः शीर्णाङ्घ्रिभयनाशनः ॥ १२२॥ शीतात्मगिरिसञ्चारी शीर्णपर्णसुमोत्करः । शीभज्ञः शीर्षण्यधरः शीर्षरक्षोऽथ शीलवान् ॥ १२३॥ शीलज्ञः शीलदः शीलपालकः शीलवत्प्रभुः । शुकतुण्डनिभापाङ्गः शुकवाहनसोदरः ॥ १२४॥ शुकप्रियफलास्वादः शुकवाक्यप्रियः शुभी । शुकवाहप्रियः शुक्तिकाजहारः शुकप्रियः ॥ १२५॥ शुक्रः शुक्रभुगारूढभूतः शुक्रप्रपूजितः । शुक्रशिष्यान्तकः शुक्रवर्णः शुक्रकरः शुचिः ॥ १२६॥ शुक्लः शुक्लनुतः शुक्ली शुक्लपुष्पश्च शुक्लदः । शुक्लाङ्गः शुक्लकर्मा च शुचिभूमिनिवासकः ॥ १२७॥ शुचिप्रदः शुचिकरः शुचिकर्मा शुचिप्रियः । शुचिरोचिः शुचिमतिः शुण्ठीगुडजलादरः ॥ १२८॥ शुद्धः शुद्धफलाहारः शुद्धान्तपरिपालकः । शुद्धचेताः शुद्धकर्मा शुद्धभावोऽथ शुद्धिदः ॥ १२९॥ शुभः शुभाङ्गः शुभकृच्छुभेच्छः शुभमानसः । शुभभापी शुभनुतः शुभवर्षी शुभादरः ॥ १३०॥ शुभशीलः शुभप्रीतः शुभंयुः शुभपोषकः । शुभङ्करः शुभगणः शुभाचारः शुभोत्सवः ॥ १३१॥ शुभादरः शुभोदारः शुभाहारः शुभावहः । शुभान्वितः शुभहितः शुभवर्णः शुभाम्बरः ॥ १३२॥ शुभभक्तः शुभासक्तः शुभयुक्तः शुभेक्षणः । शुभ्रः शुभ्रगणः शुभ्रवस्त्रः शुभ्रविभूषणः ॥ १३३॥ शुभविध्वंसिनीभूतः शुल्कादाननिपातकः । शुष्मद्युतिः शुष्मिसखः शुश्रूषादूतशङ्करः ॥ १३४॥ शूरः शूराश्रितः शूरगणः शूरचमूपतिः । शूरप्रवरसन्दोहः शूरभक्तश्च शूरवान् ॥ १३५॥ शूरसेनः शूरनुतः शूरपालश्च शूरजित् । शूरदेवः शूरविभुः शूरनेता च शूरराट् ॥ १३६॥ शूलपाणियुतः शूली शूलयुद्धविशारदः । शूलिनीप्रियकृच्छूलवित्रस्तरिपुमण्डलः ॥ १३७॥ श‍ृङ्गारखेलः श‍ृङ्गारगात्रः श‍ृङ्गारशेखरः । श‍ृङ्गारजटिलः श‍ृङ्गाटकसञ्चारकौतुकः ॥ १३८॥ श‍ृङ्गारभूषणः श‍ृङ्गारयोनिजननार्भकः । शेमुषीदुःखहन्ता च शेखरीकृतमूर्धजः ॥ १३९॥ शेषस्तुतः शेषपाणिः शेषभूषणनन्दनः । शेषाद्रिनिलयप्रीतः शेषोदरसहोदरः ॥ १४०॥ शैलजाप्रियकृत्कर्मा शैलराजप्रपूजितः । शैलादिविनुतः शैवः शैवशास्त्रप्रचारकः ॥ १४१॥ शैवधीरः शैववीरः शैवशूरश्च शैवराट् । शैवत्राणः शैवगणः शैवप्राणश्च शैववित् ॥ १४२॥ शैवशास्त्रः शैवशास्त्राढ्यः शैवभृच्छैवपालकः । शैवदक्षः शैवपक्षः शैवरक्षोऽथ शैवहृत् ॥ १४३॥ शैवाङ्गः शैवमन्त्रज्ञः शैवतन्त्रश्च शैवदः । शैवमौनी शैवमतिः शैवयन्त्रविधायकः ॥ १४४॥ शैवव्रतः शैवनेता शैवज्ञः शैवसैन्यकः । शैवनन्द्यः शैवपूज्यः शैवराज्योऽथ शैवपः ॥ १४५॥ शोणापाङ्गः शोणनखः शोणरत्नविभूषितः । शोकघ्नः शोभनास्त्रश्च शोधकः शोभनप्रदः ॥ १४६॥ शोषितारिः शोषहारी शोषिताश्रितरक्षकः । शौरीड्यः शौरिवरदः शौरिद्विट्प्राणहारकः ॥ १४७॥ श्रद्धाधारश्च श्रद्धालुः श्रद्धावित्परिपालकः । श्रवणानन्दजनकः श्रवणाभरणोज्ज्वलः ॥ १४८॥ श्रीदः श्रीदप्रियः श्रीदस्तुतः श्रीदप्रपूजितः । श्रुतिज्ञः श्रुतिवित्पूज्यः श्रुतिसारः श्रुतिप्रदः ॥ १४९॥ श्रुतिमौलिनुतप्रेमडिम्भः श्रुतिविचारकः । श्लाघ्यः श्लाघापरः श्लाघ्यगणः श्लाघ्यगुणाकरः ॥ १५०॥ श्वेताङ्गश्च श्वेतगजरथः श्वेतसुमादरः । श्रीधृक् श्रीधरदाम्पत्यसार्थसम्मोहनाकृतिः ॥ १५१॥ श्रीकामाश्रितसन्दोहकैरवानन्दचन्द्रमाः । इतीदं शास्तृदेवस्य शिवविष्णुस्वरूपिणः ॥ १५२॥ नाम्नां सहस्रं दिव्यानां शादीनां सम्प्रकीर्तितम् । य इदं श‍ृणुयान्नित्यं प्रपठेच्च प्रयत्नतः । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ १५३॥ इति श्रीशास्तृशवर्णसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : shAstRRishavarNasahasranAmastotram
% File name             : shAstRRishavarNasahasranAmastotram.itx
% itxtitle              : shAstRRishavarNasahasranAmastotram
% engtitle              : shAstRRishavarNasahasranAmastotram
% Category              : deities_misc, ayyappa, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : July 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org