श्रीशङ्कराचार्यभुजङ्गप्रयाताष्टकम्
सपत्नीक-विप्रेन्द्र-भक्तिप्रकाशं
नवादित्य-सङ्काशमन्तर्विकाशम् ।
धराभारसंहारकं देवदेवं
भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ १॥
श्रुतिप्रोक्त-सद्धर्मरक्षावतारं
महामोह-सन्दोह-सन्तापहारम् ।
जगद्वन्द्यपादं सदाद्वैतवादं
भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ २॥
त्रितापाग्निदग्धाकुलान् जीवसङ्घान्
कृपासारधाराभि-संप्लावयन्तम् ।
क्षमा-मण्डनं मण्डनाचार्य-पूज्यं
भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ३॥
जगन्मङ्गलं ज्ञान-विज्ञानतृप्तं
गुणातीतमद्वैततत्त्व-प्रदीप्तम् ।
प्रसन्नं प्रकृष्टं शरण्यं गरिष्ठं
भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ४॥
महावाक्य-पीयूष-दाने प्रदक्षं
विनेयाभिसन्तापनाशे सुदक्षम् ।
प्रसन्नाम्बुजाक्षं सदा मे समक्षं
भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ५॥
प्रपन्नार्त्त-हृद्ध्वान्तनाशे प्रदान्तं
प्रसन्नाभिसौम्यातिसौम्यं प्रशान्तम् ।
चिदानन्द-सन्मात्रमूर्तिं सुकान्तं
भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ६॥
श्रुतेर्भाष्य-भासा समुद्भासयन्तं
विपक्षान् स्वपक्षान् सदा कारयन्तम् ।
स्वशिष्यान् सुयोग्यान् मुदा वोचयन्तं
भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ७॥
चतुर्वेदरूपान् स्वरूपान् स्वशिष्यान्
सुरेशाब्जपादादिसंज्ञान् वरिष्ठान् ।
चतुर्दिक्षु संस्थापयन्तं शरण्यं
भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ८॥
श्रीशङ्कराष्टकं पुण्यं हृषीकेश-प्रकल्पितम् ।
राजतां देशिकेन्द्रस्य कोमले चरणाम्बुजे ॥ ९॥
इति श्रीजगन्नाथाश्रम-पूज्यपाद-शिष्य श्रीहृषीकेशाश्रम
विरचितं श्रीशङ्कराचार्य-भुजङ्गप्रयाताष्टकं सम्पूर्णम् ।
Encoded and proofread by Rahul Gamara