शक्रस्तवः

शक्रस्तवः

सिद्धसेनदिवाकरसूरिविरचितः शक्रस्तवः । ध्यानम् । सर्वे जीवा उपादेया शक्तिरूपाः शिवात्मकाः । व्यक्तिरूपोल्लसन् मोक्षाः पञ्चभिः परमेष्ठिनः ॥ अथ शक्रस्तवः । ॐ नमोऽर्हते भगवते परमात्मने परमज्योतिषे परमपरमेष्ठिने परमवेधसे परमयोगिने परमेश्वराय तमसःपरस्तात् सदोदितादित्यवर्णाय समूलोन्मूलिता-नादि-सकल-क्लेशाय ॥ १॥ ॐ नमोऽर्हते भूभुर्वःस्वस्त्रयीनाथ-मौलि-मन्दारमालार्चित-क्रमाय सकल-पुरुषार्थ-योनि निरवद्य-विद्याप्रवर्तनैक-वीरायनमः स्वस्ति-स्वधास्वाहा-वषऽर्थै-कान्त-शान्त-मूर्त्तये भवद् भावि- भूत-भावावभासिने कालपाश-नाशिने सत्त्व-रजस्तमो-गुणातीताय अनन्तगुणाय वाङमनोऽगोचर-चरित्राय पवित्राय करण-कारणाय तरणतारणाय सात्त्विक-दैवताय तात्त्विक-जीविताय निर्ग्रन्थ-परम-ब्रह्म-हृदयाय योगीन्द्र प्राणनाथाय त्रिभुवन- भव्य-कुलनित्योत्सवाय विज्ञाना-नन्द-परब्रह्मै-कात्म्यसात्म्य-समाधये हरि-हर-हिरण्यगर्भादि-देवतापरिकलित-स्वरूपाय सम्यक्-श्रद्धेयाय सम्यक्-श्रद्धेयाय सम्यक् शरण्याय सुसमाहित-सम्यक् स्पृहणीयाय ॥ २॥ ॐ नमोऽर्हते भगवते आदिकराय तीर्थङ्कराय स्वयंसम्बुद्धाय पुरुषोत्तमाय पुरुषसिंहाय पुरुषवरपुण्डरीकाय पुरुषवर-गन्धहस्तिने लोकोत्तमाय लोकनाथाय लोकहिताय लोक प्रदीपाय लोकप्रद्योतकारिणे अभयदाय दृष्टिदाय मुक्तिदाय मार्गदाय बोधिदाय जीवदाय शरणदाय धर्मदाय धर्मदेशकाय धर्मनायकाय धर्मसारथये धर्म-वर-चातुरन्तचक्रवर्तिने व्यावृत्त-च्छद्मने अप्रतिहत-सम्यग्ज्ञान-दर्शन-सद्मने ॥ ३॥ ॐ नमोऽर्हते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय बोधकाय मुक्ताय मोचकाय त्रिकालविदे पारङ्गताय कर्माष्टक-निषूदनाय अधीश्वराय शम्भवे जगत्प्रभवे स्वयम्भुवे जिनेश्वराय स्याद्वादवादिने सार्वाय सर्वज्ञाय सर्वदर्शिने सर्वतीर्थो-पनिषदे सर्वपाषण्डमोचिने सर्वयज्ञफलात्मने सर्वज्ञकलात्मने सर्वयोगरहस्याय केवलिने देवादिदेवाय वीतरागाय ॥ ४॥ ॐ नमोऽर्हते परमात्मने परमाप्ताय परमकारुणिकाय सुगताय तथागताय महाहंसाय हंसराजाय महासत्त्वाय महाशिवाय महाबोधाय महामैत्राय सुनिश्चिताय विगत-द्वन्द्वाय गुणाब्धये लोकनाथाय जित-मार-बलाय ॥ ५॥ ॐ नमोऽर्हते सनातनाय उत्तम-श्लोकाय मुकुन्दाय गोविन्दाय विष्णवे जिष्णवे अनन्ताय अच्युताय श्रीपतये विश्वरूपाय हृषीकेशाय जगन्नाथाय भूर्भुवः -स्वः समुत्ताराय मानञ्जराय कालञ्जराय ध्रुवाय अजाय अजेयाय अजराय अचलाय अव्ययाय विभवे अचिन्त्याय असङ्ख्येयाय आदि-सङ्ख्याय आदि-केशवाय आदि-शिवाय महाब्रह्मणे परमशिवाय एका-नेकानन्त-स्वरूपिणे भावा-भाव-विवर्जिताय अस्ति-नास्ति-द्वयातीताय पुण्य-पाप-विरहिताय सुख-दुःख-विविक्ताय व्यक्ता-व्यक्त-स्वरूपाय अनादि-मध्य-निधनाय नमोऽस्तु मुक्तीश्वराय मुक्ति-स्वरूपाय ॥ ६॥ ॐ नमोऽर्हते निरातङ्काय निःसङ्गाय निःशङ्काय निर्मलाय निर्द्वन्द्वाय निस्तरङ्गाय निरुर्मये निरामयाय निष्कलङ्काय परमदैवताय सदाशिवाय महादेवाय शङ्कराय महेश्वराय महाव्रतिने महायोगिने महात्मने पञ्चमुखाय मृत्युञ्जयाय अष्टमूर्तये भूतनाथाय जगदानन्दाय जगत्पितामहाय जगत्देवाधिदेवाय जगदीश्वराय जगदादिकन्दाय जगद्भास्वते जगत्-कर्मसाक्षिणे जगच्चक्षुषे त्रयीतनवे अमृतकराय शीतकराय ज्योतिश्चक्र-चक्रिणे महाज्योति-र्द्योतिताय महातमः पारेसुप्रतिष्ठिताय स्वयङ्कर्त्रे स्वयंहर्त्रे स्वयम्पालकाय आत्मेश्वराय नमो विश्वात्मने ॥ ७॥ ॐ नमोऽर्हते सर्वदेवमयाय सर्व ध्यानमयाय सर्वज्ञानमयाय सर्वतेजोमयाय सर्वमन्त्रमयाय सर्वरहस्यमयाय सर्व-भावाभाव-जीवाजीवेश्वराय अरहस्य-रहस्याय अस्पृह-स्पृहणीयाय अचिन्त्य-चिन्तनीयाय अकामकामधेनवे असङ्कल्पित-कल्पद्रुमाय अचिन्त्य-चिन्तामणये चतुर्दश-रज्ज्वात्मक जीवलोक-चूडामणये चतुरशीति-लक्ष-जीवयोनि-प्राणिनाथाय पुरुषार्थ नाथाय परमार्थनाथाय। अनाथनाथाय जीवनाथाय देव-दानव-मानव-सिद्धसेनाधि-नाथाय ॥ ८॥ ॐ नमोऽर्हते निरञ्जनाय अनन्त-कल्याण निकेतन-कीर्तनाय सुगृहीत-नामधेयाय महिमामयाय धीरोदात्त-धीरोद्धत-धीरशान्त- धीरललित-पुरुषोत्तम-पुण्यश्लोक-शत-सहस्र-लक्ष-कोटि- वन्दितपादार-विन्दाय सर्वगताय ॥ ९॥ ॐ नमोऽर्हते सर्वसमर्थाय सर्वप्रदाय सर्वहिताय सर्वाधिनाथाय कस्मैचन क्षेत्राय पात्राय तीर्थाय पावनाय पवित्राय अनुत्तराय उत्तराय योगाचार्याय संप्रक्षालनाय प्रवराय आग्नेयाय वाचस्पतये माङ्गल्याय सर्वात्मनीनाय सर्वार्थाय अमृताय सदोदिताय ब्रह्मचारिणे तायिने दक्षिणीयाय निर्विकाराय वजर्षभ-नाराच-मूर्त्तये तत्त्वदर्शिने पारदर्शिने परमदर्शिने निरुपमज्ञान-बल-वीर्यतेजः-शक्त्यैश्वर्य मयाय आदिपुरुषाय आदि-परमेष्ठिने आदिमहेशाय महाज्योतिःसत्त्वाय महार्चिर्धनेश्वराय महा-मोह-संहारिणे महासत्त्वाय महाज्ञामहेन्द्राय महालयाय महाशान्ताय महायोगीन्द्राय अयोगिने महामहीयसे महाहंसाय हंसराजाय महासिद्धाय शिव-मचल-मरुज-मनन्त-मक्षय-मव्याबाध-मपुनरावृत्ति- महानन्दं महोदयं सर्वदुःखक्षयं कैवल्यममृतं निर्वाणमक्षरं परब्रह्म निः श्रेयसमपुनर्भवं सिद्धिगति-नामधेयं-स्थानसंप्रान्तवते चराचर-मवते नमोऽस्तु श्रीमहावीराय त्रिजगत्स्वामिने श्रीवर्धमानाय ॥ १०॥ ॐ नमोऽर्हते केवलिने परमयोगिने (भक्तिमार्गयोगिने) विशाल-शासनाय सर्वलब्धि सम्पन्नाय निर्विकल्पाय कल्पनातीताय कला कलाप-कलिताय विस्फुर-दुरु-शज्ज-ध्यानाग्नि-निर्दग्धकर्मबीजाय प्राजानन्त-चतुलयाय सौम्याय शान्ताय मङ्गल-वरदाय अष्टादशदोष-रहिताय संसृत-विश्व-समीहिताय स्वाहा ॥ ११॥ ॥ ॐ ह्रीँ श्रीँ अर्हँ नमः ॥ लोकोत्तमो वन्दना - लोकोत्तमो निष्पतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश त्वामेकमर्हन् ! शरणप्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव ॥ १॥ त्वं मे माता पिता नेता देवो धर्मो गुरुः परः प्राणाः स्वर्गोऽपवर्गश्च सत्त्वं तत्त्वं गतिर्मतिः ॥ २॥ जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् । जिनोजयतिसर्वत्र, योजिनःसोऽहमेव च ॥ ३॥ यत्किश्चित्कुर्महे देवः सदासुकृतदुकृतम् । तन्मे निजपदस्थस्य, हुं क्षः क्षपय त्वं जिन ! ॥ ४॥ गुह्यातिगुह्य गोप्ता त्वं, गहाणास्मत्कुतं जपम् । सिद्धिः श्रयति मां येन, त्वत्प्रसादात्त्वयि स्थितम् ॥ ५॥ फलश्रुति इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, चराचरेऽपि जीवलोके सद्वस्तु तन्नास्ति यत्करतलप्रणयि न च भवतीति । किं च ॥ १॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकवासिनो देवाः सदा प्रसीदन्ति व्याधयो विलीयन्ते ॥ २॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यगदृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं, भवान्तरकृता-ऽसङ्ख्य-पुण्य-प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, पृथिव्यप्-तेजोवायु-गगनानि भवन्त्यनुकुलानि ॥ ३॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यक्-दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं, भवान्तरकृता-ऽसङ्ख्य पुण्यप्यसम्यगजपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, सर्वसम्पदा मूलं जायते जिनानुरागः ॥ ४॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रद, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यगदृष्टि-भद्रक-देवताशत-सहस्र-शुश्रूषितं, भवान्तरकृताऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, साधवः सौमनस्येनानुग्रहपरां जायन्ते ॥ ५॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषद्गर्भं, अष्ट्यहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेकन्मम्यगदृतिभद्रक-देवतान्यात-सस्म-शुमूवितं, भवान्तरकृतह्णऽसङ्ख्यपुण्यप्राप्यसम्यत्जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, खलाः क्षीयन्ते ॥ ६॥ इतीमं पूर्वोक्तमिन्द्रस्तयैकादश मन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणंः सर्वपुण्यकारणं, सर्वक्षेषह्म, सर्वगुणाकरं, महाप्रभावं, अनेकन्मम्ययष्टिःभद्रक-देवतक्ष्यशत-सहस्रन्दामूषितं, भवान्तरकृता-ऽसङ्ख्यपुण्यप्राप्यसम्यगजपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, जल-स्थल-गगनचराः क्रूरजन्तवोऽपि मैत्रीमया जायन्ते ॥ ७॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषदार्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, नेकन्मम्यणतिभद्रकब्देवतक्ष्यशत-सहस्र-शुभूवितं) भवान्तरकृता-ऽसङ्ख्यपुण्यप्राप्यसम्यगजपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, अधमवस्तून्यपि उत्तमवस्तुभाव प्रपद्यन्ते ॥ ८॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, धर्मार्थकामा गुणाभिरामा जायन्ते ॥ ९॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, ऐहिक्यःसर्वाअपिशुद्धगोत्र-कलत्रत्यव्र-मित्र-थन-थान्य- जीवित-यौवन-रूपाऽऽरोग्य-यशः-पुरस्मराः सर्वजनानां सम्पदः परभाव-जीवित-शालिन्यः सदुदर्काः सुसम्मुखी भवन्ति । किं बहुना? ॥ १०॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, आमुष्मिक्यः सर्वमहिमास्वर्गापवर्गश्रियोऽपि क्रमेण यथेष्ठं (च्छ) स्वयं स्वयंवरणोत्सव समुत्सुका भवन्तीति । सिद्धिः ( दः) श्रेयः समुदयः ॥ ११॥ यथेन्द्रेण प्रसन्नेन, समादिष्टोऽर्हतां स्तवः । तथाज्यं सिद्धसेनेन, प्रपेदे सम्पदां पदम् ॥ १॥ ॥ इति श्रीसिद्धसेनदिवाकरसूरि विरचितः वर्धमान शक्रस्तवः सम्पूर्णः ॥ ॥ नमुत्थुणं सूत्र ॥ नमुत्थुणं, अरिहन्ताणं, भगवन्ताणं १ आइगराणं, तित्थयराणं, सयंसम्बुद्धाणं २ पुरिसुत्तमाणं, पुरिस सीहाणं, पुरिसवर पुण्डरीआणं, पुरिसवर गन्धहत्थीणं ३ लोगुत्तमाणं, लोग नाहाणं, लोग हिआणं, लोग पईवाणं, लोग पज्जो अगराणं ४ अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं, बोहिदयाणं ५ धम्मदयाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्म-वर-चाउरन्त-चक्कवट्टीणं ६ अप्पडिहय वरनाण दंसणधराणं, वियट्ट छौमाणं ७ जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं, मोअगाणं ८ सव्वन्नूणं, सव्व-दरिसीणं, सिव-मयल-मरुअ-मणन्त- मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगै-नामधेयं ठाणं सम्पत्ताणं, नमो जिणाणं, जिअ-भयाणं ९ जे अ अईया सिद्धा, जे अ भविस्सन्ति-णागए काले सम्पै अ वट्टमाणा, सव्वे ति-विहेण वन्दामि १० ॥ इति नमुत्थुणं सूत्र सम्पूर्ण ॥ Encoded and proofread by DPD
% Text title            : Shakrastava
% File name             : shakrastava.itx
% itxtitle              : shakrastavaH (siddhasenadivAkarasUrivirachitaH)
% engtitle              : Shakrastava
% Category              : deities_misc, jaina
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Siddhasenadivakarasuri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Indexextra            : (Video 1, 2)
% Latest update         : March 14, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org