श्रीशङ्कराचार्यारात्रिका
जय देव जय देव जय सद्गुरुदेव जय शङ्करदेव ।
ब्रह्मानन्दस्वरूप मङ्गलमतिपूत जय देव ॥ ध्रुवपदम् ॥
भववारिधिपोतः शङ्करगुरुदेव शङ्करगुरुदेव ।
मोहध्वान्तनिवारकचित्सुखसूर्य त्वां नत्वा मुक्त्वा भवतो
भूत्वा भूमसुखं दिव्यज्योतिष आरात्रिकां कुर्वे श्रुतिसिद्धाम् ॥ १॥
विमलानन्दमहाम्बुधिरद्वयसुखबोधो भवरोगामृतरूप
निर्मलशान्तविधुश्चिन्तामणिरभयस्त्वाम् ।
विषविषयान्तक निरवधिसंसृतियार सज्जनकल्पतरो ॥ २॥
दैवीसम्पत्पूरितजीवनसुखसार मोक्षानन्दविलास
भवभयपरिहारोपनिषदमृतपूरितवाणीमाधुर्य
वन्दे शङ्करदेशिक सुन्दरपदकमलम् ॥ ३॥
शास्त्रश्रुत्यागार निजजनपरितोष
दुर्मतवनदावानल मतिहितमाराम सत्यंज्ञानमनन्तम् ।
शङ्करगुरुदेव स्तुत्वा ब्रह्मैवाहं नित्यानन्दघनम् ॥ ४॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता श्रीशङ्कराचार्यारात्रिका सम्पूर्णा ।
वैशाखशुद्धचतुर्थी, श्रीधराश्रमः, वरदपुरं
Proofread by Manish Gavkar