श्रीशङ्कराचार्यभुजङ्गप्रयातस्तोत्रम्
कृपासागरायाशुकाव्यप्रदाय प्रणम्राखिलाभीष्टसन्दायकाय ।
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय प्रबोधप्रदात्रे नमः शङ्कराय ॥ १॥
चिदानन्दरूपाय चिन्मुद्रिकोद्यत्करायेशपर्यायरूपाय तुभ्यम् ।
मुदा गीयमानाय वेदोत्तमाङ्गैः श्रितानन्ददात्रे नमः शङ्कराय ॥ २॥
जटाजूटमध्ये पुरा या सुराणां धुनी साद्य कर्मन्दिरूपस्य शम्भोः ।
गले मल्लिकामालिकाव्याजतस्ते विभातीति मन्ये गुरो किं तथैव ॥ ३॥
नखेन्दुप्रभाधूतनम्रालिहार्दान्धकारव्रजायाब्जमन्दस्मिताय ।
महामोहपाथोनिधेर्बाडबाय प्रशान्ताय कुर्मो नमः शङ्कराय ॥ ४॥
प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे दिवारात्रमव्याहतोस्राय कामम् ।
क्षपेशाय चित्राय लक्ष्मक्षयाभ्यां विहीनाय कुर्मो नमः शङ्कराय ॥ ५॥
प्रणम्रास्यपाथोजमोदप्रदात्रे सदान्तस्तमस्तोमसंहारकर्त्रे ।
रजन्यामपीद्धप्रकाशाय कुर्मो ह्यपूर्वाय पूष्णे नमः शङ्कराय ॥ ६॥
नतानां हृदब्जानि फुल्लानि शीघ्रं करोम्याशु योगप्रदानेन नूनम् ।
प्रबोधाय चेत्थं सरोजानि धत्से प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥ ७॥
प्रभाधूतचन्द्रायुतायाखिलेष्टप्रदायानतानां समूहाय शीघ्रम्।
प्रतीपाय नम्रौघदुःखाघपङ्क्तेर्मुदा सर्वदा स्यान्नमः शङ्कराय ॥ ८॥
विनिष्कासितानीश तत्त्वावबोधान्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।
रजांसि प्रपन्नानि पादाम्बुजातं गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥ ९॥
मतेर्वेदशीर्षाध्वसम्प्रापकायानतानां जनानां कृपार्द्रैः कटाक्षैः ।
ततेः पापवृन्दस्य शीघ्रं निहन्त्रे स्मितास्याय कुर्मो नमः शङ्कराय ॥ १०॥
सुपर्वोक्तिगन्धेन हीनाय तूर्णं पुरा तोटकायाखिलज्ञानदात्रे ।
प्रवालीयगर्वापहारस्य कर्त्रे पदाब्जम्रदिम्ना नमः शङ्कराय ॥ ११॥
भवाम्भोधिमग्नाञ्जनान्दुःखयुक्ताञ्जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ।
विदित्वा हि ते कीर्तिमन्यादृशां भो सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ॥ १२॥
॥ इति श्रीसच्चिदानन्द-शिवाभिनव-नृसिंहभारती महास्वामिभिः श्रीकालटिक्षेत्रे
विरचितं श्रीशङ्कराचार्यभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥
Encoded by Ramakrishna Upadrasta
Proofread by Ramakrishna Upadrasta, Sunder Hattangadi, PSA Easwaran