श्रीशङ्करार्यपदावलम्बस्तवः

श्रीशङ्करार्यपदावलम्बस्तवः

(कालटिक्षेत्रे )॥ नाकादिलोकविरतिः प्रभवेद्दृढा य- द्वाक्यामृतश्रवणतोऽप्यतिकामुकस्य । स त्वं विरक्तिद जवात्पदनम्रपङ्क्त्यै श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥ अन्नासुचित्तमुखकोशविवेचनेन तत्त्वं परं द्रुततरं प्रतिबोधयंस्त्वम् । मोक्षप्रदायक पदाम्बुजसन्नतेभ्यः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥ क्लेशान्निवार्य कृपया तरसास्मितादीन् पञ्चापि साधनचतुष्टयमाशु दत्त्वा । बुद्धिं विचारपरमां प्रविधाय सम्यक् श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥ बद्‍ध्वा त्वदङ्घ्रिसरसीरुहभक्तिरज्ज्वा चेतःकपिं विषयकण्टकपादपेषु । छायाफलादिरहितेषु वृथा चरन्तं श्रीशङ्करार्य मम देहि पदावत्ठम्बम् ॥ ४॥ प्राणैर्विहीनतनयं तरसा समीप- मानीय रोदनकरौ पितरौ समीक्ष्य । यः प्रातनोदसुयुतं तनयं हि स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥ भट्टादिभास्करसितेतरकण्ठमुख्यान् वादे विजित्य कुतुकाद्विदुषां वरेण्यान् । अद्वैतमार्गपरिरक्षणजागरूक श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥ श्रीमत्प्रणीतशुकतातमुनीन्द्रसूत्र- भाष्यादिपाठनविधावधिकं पटुत्वम् । दत्वापि शून्यपरिमाणजडत्ववार्धेः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥ भाष्याख्यपुष्परसपूर्णमुखारविन्द- नम्रान्तरङ्गमधुकृत्परितुष्टिदक्ष । रुद्राक्षकण्ठ निजनीलगलत्वसिद्‍ध्यै श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ८॥ आस्तिक्यरत्नमिह पुण्यचयेन लभ्यं कल्यम्बुधौ निपतितं तरसाऽऽर्यपाद । उद्धृत्य तेन परिपालय लोकमेनं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ९॥ योगप्रदायक जवान्नतमस्करिभ्यो भोगप्रदाथ गृहिणामविरक्तिभाजाम् । कालस्मयापह विपापजनेड्यपाद श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १०॥ छिन्नेऽपि शस्त्रनिचयैर्बहुधा शरीरे खेदं न कञ्चिदपि याति यथा मनो मे । तद्वत्स्थिरां कुरु मतिं सुखचित्स्वरूपे श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ११॥ अन्यैर्भिषग्भिरनिवार्यमहाऽऽमयं मे यस्मात्त्वमाद्यभिषगस्यचिरान्निवार्य । अज्ञानसंज्ञमतिनिश्चलबोधदाना- च्छ्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १२॥ वातावधूतवरुणालयभङ्गगर्व- भङ्गप्रचण्डवचसः प्रभवन्ति यत्ते । मूका अपि प्रणमनात्पदयोः सकृत्त- च्छ्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १३॥ लीनं तथा कुरु मनः परमार्थवस्तु- न्यैक्यावबोधनवशान्मम निःसरेन्न । यद्वत्पुनः परमकारुणिकाग्रगण्य श्रीशङ्करार्य मम देहि पदावद्‍ध्यबम् ॥ १४॥ संन्यासिनां हि विषवद्विषयेषु बुद्धिं तन्वस्तथा च गृहिणां शुभकर्मवाञ्छाम् । सर्वान्क्रमेण च परं पदमापयंस्त्वं श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ १५॥ यत्पादपङ्कजनतेरपि जातु मूक- लोकोऽपि दिव्यकवितामयते हि तूर्णम् । स त्वं तव स्तुतिकृते कवितां वितीर्य श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १६॥ आकर्ण्य दीनगृहिणीवचनं कृपार्द्रः स्वर्णात्मकामलकसन्ततिमासमन्तात् । गेहस्य योऽतितरसा हि ववर्ष स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १७॥ आनेष्ट दूरगनदीं जननीहिताय यो बाल्य एव जगतां हितकृत्स्वभावः स त्वं समस्तजनरक्षणबद्धदीक्ष श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १८॥ मोहाद्वृथा विरसगन्धविहीनशब्द- स्पर्शाख्यपुष्पचलनादतिखेदभाजम् । हृद्भृङ्गमात्मपदपद्मगतं विधाय श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १९॥ सर्वान्स्वकीयमततत्त्वपरीक्षणेच्छूं- स्तत्तन्मतार्थकथनेन विजित्य मोदम् । सर्वज्ञपीठमधिरुह्य य आप स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २०॥ शान्त्यादिसाधनवता पुरुषोत्तमेन सम्प्राप्य सद्गुरुमतः श्रवणादि कृत्वा । यः प्राप्यते विमलबोधतनुर्हि स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २१॥ श्रीनाथशम्भुविधिशुद्धपरात्मरूप काशान्तचञ्चलहृदां पदसन्नतानाम् । पाषाणनिश्चलमनस्त्वनिधानदक्ष श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २२॥ राजीवपादमुखलभ्यमनन्तपुण्यै राजाधिराजनिचयार्थितमन्वहं च । निर्व्याजपूर्णकृपयास्य वराकराजः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २३॥ वाचोऽपि चित्तसहिता न हि यत्र गन्तुं शक्ष्यन्ति तद्विषयतां कथमेति वस्तु । त्यक्त्वा कृपां गुरुवरस्य हि चित्स्वरूप श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २४॥ जाड्याम्बुधौ निरवधौ दृढमग्नमग्न- मत्यन्तविस्मृतचिदात्मसुखस्वरूपम् । उद्धृत्य धीरशनया तरसा कृपाब्धे श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २५॥ हस्ताम्बुजं शिरसि हेतुविहीनपूर्ण- कारुण्यतोऽतितरसा विनिधाय मत्के । स्वाराज्यमाशुवितरात्मपदेऽभिषिच्य श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २६॥ माता पिता च भगिनी तनुजश्च जाया नैवाश्रयाय पुरुषस्य भवन्ति काले । एकं विना गुरुवराङ्घ्रिपयःप्रभूतं श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ २७॥ सम्प्राप्तयोगसरणिं सदसद्विवेक- दक्षं दमादिगुणसम्भृतमानसं च । कृत्वा सरोजभवचित्तपयोजभानो श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ २८॥ श्रीशङ्करेति सततं परिकीर्तयन्ति पादाम्बुजं परगुरोर्हृदि चिन्तयन्ति । ये वै त एव सुखिनः पुरुषा हि लोके श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २९॥ मात्सर्यमुख्यभयहेतुमृगावर्कार्णे सङ्कल्पनामकमहाजवपक्षियुक्ते । स्वान्ताख्यघोरविपिने चरतः कृपाब्धे श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३०॥ वर्णाश्रमादिपरिपालनसक्तिमाशु दत्त्वा दृढां नृपततेरपि भूयसीं च । श्रद्धां श्रुतिस्मृतिततिष्वचलां च लक्ष्मीं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३१॥ आदौ तु साधनचतुष्टयहेतुभूतं पश्चाच्छ्रुतार्थपरिचिन्तनसाधनं च । अन्ते च दृश्यरहितात्मसुखप्रदं ते श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३२॥ विद्यानिधे विशदितानतचित्तपद्म विद्याप्रदाननिरताङ्घ्रिसरोजपूज । विष्ण्वीशभेदमतिवारणपञ्चवक्त्र श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३३॥ दक्षेण पाणिकमलेन विबोधमुद्रा- मन्येन नम्रवरदानसमर्थचिह्नम् । बिभ्राणपद्मनिभनेत्र कृपाम्बुराशे श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३४॥ श्रीकालटीधरणिभूषणभूतजन्मन् जन्मादिदुःखविनिवारणबद्धदीक्ष । कारुण्यपूर्णनयनावनिदेवभाग्य श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३५॥ वेदाविरुद्धमतसाधनबद्धदीक्ष वादे विजित्य तरसा क्षितिमण्डलं यः । अद्वैतरक्षणमहो कृतवांश्च स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३६॥ त्तत्त्वार्थबोधनविहीनहृदम्बुजस्य रागादिदोषपरिपूरितचेतसो मे । तत्त्वं विबोध्य विनिवार्य च रागरोगं श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ ३७॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशङ्करार्यपदावलम्बस्तवः सम्पूर्णः । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : shankarAryapadAvalambastavaH
% File name             : shankarAryapadAvalambastavaH.itx
% itxtitle              : shaNkarAryapadAvalambastavaH (shivAbhinavanRisiMhabhAratIvirachitaH)
% engtitle              : shankarAryapadAvalambastavaH
% Category              : deities_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudeva
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org