श्रीधराष्टकम्
ब्रह्मज्योतिर्विलसितमतिं सच्चिदानन्दमूर्तिं
शान्तं दान्तं विगलितमलं केवलं स्वस्वरूपम् ।
स्वान्तर्संज्ञाविकसिततपःस्थं स्वयंशक्तिसिद्धं
वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ १॥
स्वात्मतृप्तं सहजसुखदं ज्ञानविज्ञान विज्ञं
श्रद्धालभ्यं परमपददं स्वस्तिदं सौख्यसिन्धुम् ।
ज्ञानाकारं सुलभसरलं शुद्धतेजः स्वरूपं
वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ २॥
शिष्यानां यो हरति ह्यखिलं संसृतिं स्वस्य शक्त्या
भक्ताधारं परहितकरं शान्तिदं सर्वदाद्रम् ।
लीलावेषं मधुरङ्गदितं सत्त्वरूपं विशोकं
वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ ३॥
मोक्षश्रीदं ह्यभयवरदं योगयुक्तं विरक्तं
शुद्धानन्दं मुदितवदनं भक्तचित्तप्रमोदम् ।
शुभ्रज्योत्स्नाशुभकरनिभं यस्य स्वानन्दध्यानं
वन्दे वन्दे विहासितमुखं सद्गुरुं श्रीधरं तम् ॥ ४॥
विश्वात्मानो विनतशुभदः धर्ममार्गावगम्यः
नित्यक्लिन्नो निखिलकृपया ह्यार्तदासानुकम्पी ।
एकान्ते यो निजपदगतो यस्य मौने प्रतिष्ठा
वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ ५॥
मेधावी यो निरवधिसुखो निष्कलोङ्कारलक्ष्यः
संविद्युक्तो विगतविषयः सत्त्वपन्थानुगामी ।
साक्षात्कारी मृदुलवचनो वेदवेदान्तवेधः
वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ ६॥
भिक्षाभाग्यः प्रणतशरणो विश्वकल्याणकारी
रक्षाकृत्यो हितकरवचः सर्वबाधापहारी ।
शिक्षादायी प्रणवविभवः तत्त्वचिन्तानुवादी
वन्दे वन्दे विहसितमुखं सद्गुरुं श्रीधरं तम् ॥ ७॥
विद्यायुक्तः सरसिजमुखो नित्यशोऽध्यात्मवादी
आत्मदृग्यः सुनलनयनः सत्यसिद्धान्तदर्शी ।
विक्रान्तो यः कमलचरणः शिष्यचित्तानुचारी
वन्दे वन्दे विहसितमुखं सद्गुरु श्रीधरं तम् ॥ ८॥
श्रीधराष्टकं भक्त्या यः पठेच्छृणुयादपि ।
श्रीगुरुः स्वयं तस्य मोक्षकारी भवेद्धृवम् ॥ ९॥
(श्रीधरसन्देशः मे १९६४)
इति श्री पृथ्वीराज भालेरावः अथवा सुव्रत
विरचितं श्रीधराष्टकं सम्पूर्णम् ।
Proofread by Paresh Panditrao