श्रीधराष्टकम्
श्रीधरगुरुवररूपमनाद्यं नौमि समाधिसमाहित वेद्यम् ।
निगमागमगतसारमपारं विद्वन्मानससौधविहारम् ॥ १॥
सत्य ज्ञानमनन्तमगाधं निजपदनतजनतैक सुबोधम् ।
निरवधिपरमानन्दविलोलं निधृतदयारसरञ्जितशीलम् ॥ २॥
भवसागरसन्तारकमेकं भवमोव्ययशिवरूपमशोकम् ।
मायातीतमनोहररूपं मायिनपहृत निजजनतापम् ॥ ३॥
जगदाकारविभान्तमनन्तं स्वेच्छामात्राद्विष्वमवन्तम् ।
योगिध्येयविनिर्मलतत्त्वं भोगागम्यविमुक्तममत्वम् ॥ ४॥
वाग्विभवातिग पावन चरितं निरुपमममित दयारसभरितम् ।
जगदाधारमदूरमुदारं परिहृत नतजन संसृतिभारम् ॥ ५॥
करुणापूरित सुविमलनेत्रं निर्मल भसितो धूलित गात्रम् ।
व्याघ्राजिनसंस्थित सुविधानं अविरल सुखसन्धान निदानम् ॥ ६॥
चिन्मुद्राङ्कित निजतनु भूषं धृत कोपीनविधानसुवेषम् ।
मायामोहंविलासनिवाशं भवहर परमामृतदं श्रीशम् ॥ ७॥
श्रुति मथनोत्थित परतरतत्त्वं मौनं व्याख्या प्रकटिततत्त्वम् ।
आश्रितपदजनहृदयानन्दं कलिमलहरवर परमानन्दम् ॥ ८॥
गुरुवरकृपया विलसित पद्यं गुरुसुतनिर्मित अष्टकमाद्यम् ।
भजति नरो यः शान्तस्वान्तः कामादीनां हृदि तस्यान्तः ॥ ९॥
ॐ तत् सत् ।
इति श्रीधराष्टकं सम्पूर्णम् ।
(सङ्ग्राहक -- अय्याबुवा रामदासी)
Proofread by Paresh Panditrao