श्रीधराष्टकम्
श्रीधराय नमो नमः ।
श्रीधरः श्रीकरः श्रीमान् श्रीनिधिः श्रीनिकेतनः ।
मोक्षश्रीधारिणे नित्यं श्रीधराय नमो नमः ॥ १॥
धर्मङ्कृद् धर्मविद्ब्रह्म धर्मध्वजविराजिने ।
कर्मबन्धविनिर्मुक्त श्रीधराय नमो नमः ॥ २॥
रामदाणाग्रगण्याय रामदासप्रियाय च ।
रामकृष्णादिरूपाय श्रीधराय नमो नमः ॥ ३॥
यज्ञव्रततपोरूप विज्ञानघनरूपिणे ।
यतिवृन्द सुसम्पूज्य श्रीधराय नमो नमः ॥ ४॥
नमोच्युताय गुरवे शिष्यसंसारसेतवे ।
नमो ब्रह्मण्य देवाय श्रीधराय नमो नमः ॥ ५॥
मोक्षानन्दाय शुद्धाय ब्रह्मणे शाश्वताय च ।
मुमुक्षुजनपीयूष श्रीधराय नमो नमः ॥ ६॥
नमोऽस्तु गुरवे तुभ्यं द्वन्द्वतापनिवारणे ।
नमतां कल्पवृक्षाय श्रीधराय नमो नमः ॥ ७॥
महामायाविनाशाय सच्चिदानन्दरूपिणे ।
महासमाधिनिष्ठाय श्रीधराय नमो नमः ॥ ८॥
॥ ॐ तत्सत् ॥
इति श्रीधराष्टकं सम्पूर्णम् ।
Proofread by Paresh Panditrao