श्रीधराय नमो नमः
॥ श्रीराम प्रसन्न ॥
दत्तात्रेयप्रसादाय चिञ्चोळीग्रामजन्मने ।
पतकीवंशसूर्याय श्रीधराय नमो नमः ॥ १॥
कमलानन्दकन्दाय नारायणप्रियायच ।
शैशवेऽपिप्रबुद्धाय श्रीधराय नमो नमः ॥ २॥
कमलाकान्तनीलाय मन्दस्मितमुखाय च ।
सुधासिञ्चननेत्राय श्रीधराय नमो नमः ॥ ३॥
श्रीसमर्थस्वरूपाय सीतारामप्रियाय च ।
सज्जनाद्रिनिवासाय श्रीधराय नमो नमः ॥ ४॥
भक्तिज्ञानसमृद्धाय दासबोधस्वरूपिणे ।
परब्रह्माद्वितीयाय श्रीधराय नमो नमः ॥ ५॥
विवेकपद्मनाभाय वैराग्यजलशायिने ।
भक्तिरत्ननवाम्भोधि श्रीधराय नमो नमः ॥ ६॥
भक्तसङ्कटनाशाय भक्तसन्तोषकारिणे ।
श्रवणानन्दशब्दाय श्रीधराय नमो नमः ॥ ७॥
शरण्याय वरेण्याय केवलानन्दरूपिणे ।
शान्ताय भारताधार श्रीधराय नमो नमः ॥ ८॥
श्रीमत् परमहंसाय काषायाम्बरधारिणे ।
परिव्राजकशौण्डाय श्रीधराय नमो नमः ॥ ९॥
भक्तहृद्पद्मभृङ्गाय भक्तवात्सल्यमूर्तये ।
भक्तार्तितमहन्त्रे च श्रीधराय नमो नमः ॥ १०॥
पूर्ण वैराग्यदीप्ताय ब्रह्मरूपतपस्विने ।
निजानन्दसुधासिन्धु श्रीधराय नमो नमः ॥ ११॥
सद्भक्तहृदयाकारपूर्णचन्द्राय भास्वते ।
सद्बोधामृतदात्रे च श्रीधराय नमो नमः ॥ १२॥
गोद्विजाधारधीराय विश्वकल्याणहेतवे ।
सद्धर्ममेरुकूर्माय श्रीधराय नमो नमः ॥ १३॥
स्फूर्तिशक्तिवसन्ताय देशधर्मामृताय च ।
अज्ञानतिमिरार्काय श्रीधराय नमो नमः ॥ १४॥
सत्तत्वरत्नगर्भाय शान्तिदात्रेसुधांशवे ।
सन्तप्तहृद्सुधावृष्टि श्रीधराय नमो नमः ॥ १५॥
षट्शत्रुगजसिंहाय दुष्टाहङ्कारदारिणे ।
रजस्तमनिहन्त्रे च श्रीधराय नमो नमः ॥ १६॥
जीवबन्धविमोक्षाय शिवजीवैक्यकारिणे ।
सत्याय सत्यबोधाय श्रीधराय नमो नमः ॥ १७॥
नमः शिवाय गुरवे निरालम्बाय तेजसे ।
निष्प्रपञ्चाय दिव्याय श्रीधराय नमो नमः ॥ १८॥
अनन्तबलवीर्याय मोक्षानन्दप्रदायिने ।
गुरुसेवातिनिपुण श्रीधराय नमो नमः ॥ १९॥
विद्वत्सन्तसभाध्यक्षसंस्तुताय महात्मने ।
भूम्ने विनयशीलाय श्रीधराय नमो नमः ॥ २०॥
नारायणकृपामालाधारिणे परमात्मने ।
दयाक्षमासमुद्राय श्रीधराय नमो नमः ॥ २१॥
श्री समर्थकृपाप्राप्त योगदण्डधराय च ।
धर्मोद्धारार्थसन्नद्ध श्रीधराय नमो नमः ॥ २२॥
आर्यावर्तविपत्कालचिन्तातप्ताय हिन्दवे ।
महत्कृच्छ्रतपःशील श्रीधराय नमो नमः ॥ २३॥
अनन्ततीर्थरूपाय भक्ताघनगनाशिने ।
विश्वमाता महादानी श्रीधराय नमो नमः ॥ २४॥
जयतु जयतु दिव्यो वत्सलः श्रीधरोऽयं
निजजनपरितापं यः करोति प्रशान्तम् ।
स्वजनमन निवासो यो महा मौनधारी
तपति चिर सुतीव्र भूतये भारतस्य ॥ २५॥
बद्धभावे लक्ष्मणेन श्लोकैरेतैःस्तुतो गुरुः ।
भगवान् श्रीधरः पातु पाठकान् भवबन्धनात् ॥ २६॥
॥ प. प. भ. श्रीधरचरणार्पणमस्तु ॥
इति श्रीधराय नमो नमः स्तुतिः समाप्ता ।
(डाॅ. ल. शं. भावे, पुणे
श्रीधरसन्देशः आषाढ १८८९)
Proofread by Paresh Panditrao