श्रीधराय नमो नमः
नमस्ते श्रीधरस्वामिन् नमो दत्तावतारिणे ।
नमस्तेऽस्तु सदानन्द नमस्ते भक्तवत्सल ॥ १॥
नमो शान्ताय दान्ताय सर्वलोकहिताय च ।
नमो दीनजनानन्द करुणाकर नमोस्तु ते ॥ २॥
परित्राणाय दीनानां शरणागतवत्सल ।
सर्वाभिष्टप्रदाताय श्रीधराय नमो नमः ॥ ३॥
इति श्रीधराय नमो नमः स्तुतिः समाप्ता ।
(रचयिता -- तिरुमल, कुमटा)
Proofread by Paresh Panditrao