श्रीधरप्रार्थना
त्रिलोकनाथं जगदादिवन्द्यं सनातनं शाश्वतशान्तमूर्तिम् ।
अनाथरक्षं ह्यभयं विशोकं सदा नमः श्रीधर ते स्वरूपम् ॥ १॥
अचिन्त्यरूपं निजचिद्विलासं दिवाकरं दीनमतिप्रकाशम् ।
अनामयं चण्डविभेदनाशं सदा नमः श्रीधर ते स्वरूपम् ॥ २॥
भर्जनं मोहबीजानां मर्जनं सुखसम्पदाम् ।
तर्जनं कामदूतानां श्रीधरेति सुगर्जनम् ॥ ३॥
यस्मिन्सर्वाणि भूतानि जायन्ते ज्ञानतोमृषा ।
ज्ञाते सति न किञ्चिद्वै तमहं श्रीधरं भजे ॥ ४॥
अखण्डं सच्चिदानन्दं परिपूर्णं परात्परम् ।
निर्गुणं निष्कलं ब्रह्म तं वन्दे श्रीधरं गुरुम् ॥ ५॥
अप्रमेयसुखस्फूर्ते निर्मलज्ञानभास्कर ।
चिन्मूर्ते श्रीगुरो नौमि सदा ते पादपङ्कजम् ॥ ६॥
आकाशवत्सर्गगतं सुसूक्ष्मं सच्चिन्मयं निष्क्रियमेकमाद्यम् ।
अजं विभुं नित्यमुपाधिहीनं नमाम्य श्रीधरसद्गुरुं तम् ॥ ७॥
येन व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ।
तमस्माकं गुरुं वन्दे श्रीधरार्यं दयानिधिम् ॥ ८॥
नमस्ते जगदाधार नमस्ते भक्तवत्सल ।
नमस्ते कृपया पूर्ण भो श्रीधर नमोस्तु ते ॥ ९॥
जय देव जगन्नाथ जय श्रीधर शाश्वत ।
जय सर्वगुणातीत जय नित्य निरञ्जन ॥ १०॥
जय सच्चिन्मयानन्त जय अद्वय चिन्मय ।
जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन ॥ ११॥
जय पूर्ण परानन्द जयार्तत्राण श्रीधर ।
जय दुस्तर-भवार्तीनां सागरतारण प्रभो ॥ १२॥
प्रसीद मे श्री श्रीधरार्य संसारभ्रमवारक ।
भवाज्ञानं क्षयं नीत्वा श्रीधरार्य कृपां कुरु ॥ १३॥
इति श्रीधरप्रार्थना समाप्ता ।
(मार्गशिर्ष - १८८८)
Proofread by Paresh Panditrao