श्रीश्रीधरसप्ताक्षरीस्तोत्रम्
ॐ श्रीधराय नमः ।
ओङ्कारस्वरूपमतुलं शङ्काज्ञानतमोरविम् ।
ओङ्कारोच्चारणपटुं श्रीघरं तं नमाम्यहम् ॥ १॥
श्रीकरं शङ्करं शान्तं सच्चिदानन्दरूपिणम् ।
श्रीतेष्टफलदानेष्टं श्रीधरं तं नमाम्यहम् ॥ २॥
धर्मोद्धारक्रियासक्त धर्मस्थापनमव्ययम् ।
धार्मिकासेवितपदं श्रीधरं तं नमाम्यहम् ॥ ३॥
रागद्वेषादिरहितं राकाचन्द्रनिभाननम् ।
रोगादि सङ्कटहरं श्रीधरं तं नमाम्यहम् ॥ ४॥
यत्पादपङ्कजरतास्सन्ततानन्दभागिनः ।
यत्प्रसादाद्भवन्त्यत्र श्रीधरं तं नमाम्यहम् ॥ ५॥
नमितं सज्जैनेर्नित्यममितानन्ददायकम् ।
नमिताखिलसद्भक्तं श्रीधरं तं नमाम्यहम् ॥ ६॥
मस्तके सर्वदा यस्य लोकानुग्रहभावना ।
वर्तते लोकविख्यातं श्रीधरं तं नमाम्यहम् ॥ ७॥
ॐ श्रीधराय नमः ।
इति श्रीश्रीधरगुरुवरचरणदासेन विद्वज्जनविधेयन विदुषा
परमेश्वरशर्मणा विरचितं श्री श्रीधरसप्ताक्षरी स्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao