श्रीधरस्मरणम्
श्रीश्रीधरं शङ्करं पादपद्यम् । शृङ्गारमालातुलसीविराजितम् ।
शान्तं प्रसन्नं प्रणवस्वरूपम् । संसारसारं मनसा स्मरामि ॥ १॥
धर्मप्रसारस्वच्छन्दकीर्तिम् । सच्चिन्स्वरूपे च विराजमानम् ।
सर्वेश्वरं सर्वस्वानन्दमूर्तिम् । संसाददूरं मनसा स्मरामि ॥ २॥
राजीवनेत्रं सञ्जीवसूत्रम् । सजीवनीपात्र सुरैः सुवन्द्यम् ।
मुक्तं सशक्तं सुविजितं तम् । संसारबीजं मनसा स्मरामि ॥ ३॥
यक्षस्वरूपं महाराजमाद्यम् । आदित्यमानन्दमयं प्रसन्नम् ।
मायाविरूपं मरणदि दूरम् । संसारयोगं मनसः स्मरामि ॥ ४॥
नन्दीश्वरं नन्दमानन्दकन्दम् । नारायणाख्यं नररूपदेवम् ।
भवतापनाशं तोषाय नित्यम् । संसारकन्दं मनसा स्मरामि ॥ ५॥
मनुजस्वरूपं महादेवरूपम् । आदित्यमोङ्कारदत्तस्वरूपम् ।
श्रीशकरं श्रीधररूप देवम् । संसारमुक्त मनसा स्मरामि ॥ ६॥
इति श्रीधरस्मरणं सम्पूर्णम् ।
Proofread by Paresh Panditrao