श्रीधरस्तोत्रम्
स्वात्मध्यानपरायणं श्रुतिधनं वेदान्तगम्यं गुरुं
निःश्रेयस्वरदं सदाशुभकरं सद्यस्तपोभास्वरम् ।
शान्तिश्रीसहितं सुखालयलयं सानन्दवक्त्रप्रभं
सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ १॥
धर्मग्लानिहरं धियाविकसितं सच्चित्सुखालम्बनं
आत्मानन्दपरं सुधाविलसितं दिव्यप्रभावेष्टितम् ।
विद्यावेदरतं सदा विहसितं चित्तप्रशान्तिप्रदं
सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ २॥
ब्रह्मज्ञानविकाशकं प्रमुदितं विज्ञानयोगस्थितं
शाब्दे ज्ञानपरे प्रवीणमकलं सर्वार्थसिद्धिप्रदम् ।
श्रद्धासाधनतः सुलभ्यममलं सद्धर्मसंस्थापकं
सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ३॥
द्वन्द्वातीतपद समाहितमतिं फुल्लारविन्दाननं
ब्रह्माविष्णुमहेशशक्रदिविजैर्यत्पादपङ्केरुहम् ।
सम्यग्पूजितमग्रतः सहजतो यः सर्वदा निश्चलः
सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ४॥
सत्यज्ञानमनन्तमद्वयमिदं वाक्यार्थतो लक्ष्यितं
अध्यात्मस्मृतिसारकल्पितमिदं श्रीविग्रहं तत्त्वतः ।
चित्तं यस्य कृपार्द्रसान्द्रसरलं कैवल्यनिष्ठान्वितं
सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ५॥
प्रज्ञानोत्कटमेधसाविलसितं संन्यासयोगाद्वर
पीडार्तोद्धरणं वराभयकरं लीलावतारं प्रभुम् ।
दीनत्राणकरं स्पृहाविरहितं ज्योतिःस्वरूपं परं
सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ६॥
भक्तान्तःकरणाब्धिसौम्यशशिनं कारुण्यरत्नाकरं
सत्यस्वर्गतले सुखामृतघटं चिद्रत्नचिन्तामणिम् ।
यः सङ्कल्पतरुः सदासुफलितो ब्रह्मैक्यताकामधुक्
सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ७॥
संसाराम्बुधितारकं सुरनुतं तत्त्वार्थसंवेदितं
तत्त्वज्ञानगतं प्रबोधगदितं सन्मार्गमोक्षप्रदम् ।
शिष्याभीष्टकरं प्रसन्नवदनं स्नेहाङ्कितं सुन्दरं
सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ८॥
यः श्रीसद्गुरुसंस्तुतिं यदिपठेन्निष्कामतो भक्तिमान्
सः शान्तिं प्रलभेत्परामविचलां सत्यं च नो संशयः ।
चित्तं निर्विषयं स्थिरं ह्यविकलं कृत्वा पठेद्यः शुचिः
सन्तोषामृतवारिधौ ह्यविरतम्मग्नो भवेत्सः पुमान् ॥ ९॥
(श्रीधरसन्देशः श्रावण १८८७)
इति श्री पृथ्वीराज भालेराव अथवा सुव्रतविरचितं
श्रीधरस्तोत्रं सम्पूर्णम् ।
Proofread by Paresh Panditrao