श्रीधरसुप्रभातम्
नमस्ते श्रीधरस्वामिन् जगत्कल्याणकृद् विभो ।
त्यक्त्त्वाशुयोगनिद्रात्वमुत्तिष्ठ गुरुपुङ्गव ॥ १॥
वरदनामपुरस्थगुहाश्रयो
वरसमाधिमुपैषि चिरं यदि ।
कथमहोजनतोप्रकृतिर्भवेत्
झटति जाग्रहि जाग्रहि जाग्रहि ॥ २॥
त्वन्नामकीर्तनपरानिजभक्तवृन्दाः
सङ्गृह्यपुष्पफलतोयमुदारचित्ताः ।
द्वारे वसति बहवस्त व दर्शनार्थ
श्री श्रीधरार्यभगवन्तव सुप्रभातम् ॥ ३॥
स्नात्वा सुतीर्थसलिले वटवोद्विजाग्र्याः
सम्पाद्य दिव्यतुलसीवनमालिकां च ।
भक्त्या तवार्पितुमिमां नतकन्धरांसाः
श्री श्रीधरायभगवन्तव सुप्रभातम् ॥ ४॥
उद्घोषयन्त्युपनिषत्पठनं महान्तः
श्रुत्वैवकेचिदपि सम्मुदिताः प्रहर्शात् ।
श्रीरामनामजपिनो वयसाऽतिवृद्धाः
श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ५॥
आरार्तिकं समाधिगृह्यकरेण नार्यो
गायन्ति तेऽमलयशोऽमित भक्तियुक्ताः ।
आनन्दजाश्रु परिशिक्त मुखारविन्दाः
श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ६॥
आगत्य देवनिकरास्सकलत्रपुत्राः
वैमानिकाश्च गगने जयशद्वयुक्ताः ।
पुष्पैः किरन्ति मववद्वन सम्भवैस्ते
श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ७॥
रम्भादयोऽप्स रगणास्सुरलोकवास
प्रीतिंविहायभवदन्तिकमेत्यसद्यः ।
नृत्यन्ति थैय थथथै थथथै थथेति
श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ८॥
अभ्यर्च्य राममुषसी प्रणिपत्य देवीं
व्यासादयो मुनिगणास्त्वभिनन्दितुं त्वाम् ।
आशीर्भिरप्यथ महज्ज्वलदग्नितेजाः
श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ९॥
स्वाङ्के निधाय भगवान्धरणीतनूजां
सौमित्रि मारुति विभीषणभानुजाद्यैः ।
आरुह्यपुष्पकमुपैष्यति जाग्रहि त्वं
श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ १०॥
श्रीरामदासगुरुरप्य चिरात्समाधे-
रुत्थाय तेऽन्तिकमुपागमदादरेण ।
तस्मात्सुजाग्रहि विभो सुनबावनाय
श्रीश्रीधरार्यभगवन् तव सुप्रभातम् ॥ ११॥
इति श्रीधरसुप्रभातं सम्पूर्णम् ।
Proofread by Paresh Panditrao