श्रीधरस्वामीपूजा

श्रीधरस्वामीपूजा

(श्रीधर-सन्देशचा अधिक श्रावण १८८८ आॅगस्ट १९६६ चा अङ्क पहा) पूजा करतान्ना प्रत्येक उपचाराच्यावेळी उच्चारावयाची नांवे. ध्यानमन्त्र -- भशितलशितकायं चारुकाषायभूषम् । स्मितवदनविलासं सच्चिदानन्दकन्दम् ॥ श्रवदमृतवचोभिर्बोधयन्तं दयाब्धिम् । गुरुवरमभिवदे श्रीधरं बोधरूपम् ॥ ॐ नित्यपूर्णाय नमः ध्यानं समर्पयामि । आवाहनं -- ॐ आदिगुरवे नमः आवाहनं समर्पयामि । स्वागतं -- ॐ त्रिमूर्त्यात्मकाय नमः स्वागतं समर्पयामि । आसनं -- ॐ सर्वाधाराय नमः आसनं समर्पयामि । पाद्यं -- ॐ श्रीपादश्रीवल्लभाय नमः पादयोः पाद्यं समर्पयामि । अर्घ्यं -- ॐ स्वयंशुद्धाय नमः हस्तयोः अर्घ्यं समर्पयामि । आचमनियं -- ॐ ज्ञानसागराय नमः मुखे आचमनीयं समर्पयामि । मधुपर्कं -- ॐ सिद्धराजाय नमः मधुपर्कं समर्पयामि । स्नानं -- ॐ मलापकर्शाय नमः स्नानं समर्पयामि । पञ्चामृत उद्वर्तनस्नानं (नेहमी प्रमाणे) शुद्धोदकस्नानं -- ॐ कालाग्निशमनाय नमः शुद्धोदकस्नानं समर्पयामि । वस्त्रं -- ॐ दिगम्बराय नमः वस्त्रयुग्मं समर्पयामि । यज्ञोपवीतं -- ॐ बन्धनरहिताय नमः उपवीतं समर्पयामि । आभरणानि -- ॐ मायामुक्ताय नमः आभरणं समर्पयामि । गन्धं -- ॐ निर्वासिताय नमः गन्धं समर्पयामि । अक्षता -- ॐ अवधूताय नमः अक्षतां समर्पयामि । पुष्पं -- ॐ पतीतपावनाय नमः पुष्पं समर्पयामि । त्रयोदश नामपूजा -- ॐ श्रीधराय नमः । ॐ ब्रह्मरूपिणेनमः । ॐ सच्चिदानन्दाय नमः । ॐ यतीश्वराय नमः । ॐ दत्तराजाय नमः । ॐ प्रणवात्मकाय नमः । ॐ दिव्यरूपाय नमः । ॐ शान्तिमूर्तये नमः । ॐ सत्यदेवाय नमः । ॐ विश्वमङ्गलाय नमः । ॐ ज्योतिषे नमः । ॐ मोक्षदायकाय नमः । ॐ गुरुवे नमः । ॐ गुरुवे नमः त्रयोदशनामपूजां समर्पयामि । धूपं -- ॐ मायाविद्याविनाशाय नमः धूपमाघ्रापयामि । दीपं -- ॐ परञ्ज्योतिः स्वरूपाय नमः दीपं दर्शयामि । नैवेद्यं -- ॐ स्वानन्दामृततृप्ताय नमः नैवेद्यं समर्पयामि । फलं -- ॐ परब्रह्मणे नमः फलं समर्पयामि । ताम्बूलं -- ॐ नित्यानन्दनिधये नमः ताम्बूलं समर्पयामि । दक्षिणा -- ॐ दक्षिणामूर्तये नमः सुवर्णपुष्पदक्षिणां समर्पयामि । निराञ्जन -- ॐ ज्योतिः प्रकाशकाय नमः निराञ्जन दर्शयामि । मन्त्रपुष्पाञ्जली -- निरञ्जनाय विद्महे । निराभासाय धीमहि । तन्नः सद्गुरु प्रचोदयात् ॥ ॐ दयाघनाय नमः मन्त्रपुष्पाञ्जलिं समर्पयामि । नमस्कार -- ॐ प्रज्ञानतिमिरभास्कराय नमः नमस्कारं समर्पयामि । प्रार्थना -- जगत्कल्याणकार्याय नररूपधराय च । योगिराजाय वन्द्याय श्रीधराय नमो नमः ॥ धर्मसंरक्षणार्थ हि सम्भवाय कलौयुगे । सत्यधर्मस्वरूपाय श्रीधराय नमो नमः ॥ प्रज्ञानघनदेवेश शान्तिसाम्राज्यदीपक । स्वानन्दामृततृप्ताय श्रीधराय नमो नमः ॥ त्वद्यात्रया व्यापकताहताते ध्यानेन चेतः परताहताते । स्तुत्या मया वाग्परताहताते क्षमस्व नित्यं त्रिविधापराधान् ॥ श्रद्धां मेधां यशःप्रज्ञां विद्यां बुद्धिं प्रियं बलम् । वैराग्यं ज्ञानमानन्दं देहि मे गुरुपुङ्गव ॥ ॐ मोक्षश्रीधराय नमः प्रार्थनां समर्पयामि ॥ इति श्रीधरस्वामीपूजा समाप्ता । (श्रीधरसन्देशः पौष १८९४) Proofread by Paresh Panditrao
% Text title            : Shridharasvamipuja
% File name             : shrIdharasvAmIpUjA.itx
% itxtitle              : shrIdharasvAmIpUjA
% engtitle              : shrIdharasvAmIpUjA
% Category              : deities_misc, gurudev, shrIdharasvAmI, pUjA
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org