श्रीधरस्वामीपूजा
(श्रीधर-सन्देशचा अधिक श्रावण १८८८ आॅगस्ट १९६६ चा अङ्क पहा)
पूजा करतान्ना प्रत्येक उपचाराच्यावेळी उच्चारावयाची नांवे.
ध्यानमन्त्र -- भशितलशितकायं चारुकाषायभूषम् ।
स्मितवदनविलासं सच्चिदानन्दकन्दम् ॥
श्रवदमृतवचोभिर्बोधयन्तं दयाब्धिम् ।
गुरुवरमभिवदे श्रीधरं बोधरूपम् ॥
ॐ नित्यपूर्णाय नमः ध्यानं समर्पयामि ।
आवाहनं -- ॐ आदिगुरवे नमः आवाहनं समर्पयामि ।
स्वागतं -- ॐ त्रिमूर्त्यात्मकाय नमः स्वागतं समर्पयामि ।
आसनं -- ॐ सर्वाधाराय नमः आसनं समर्पयामि ।
पाद्यं -- ॐ श्रीपादश्रीवल्लभाय नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यं -- ॐ स्वयंशुद्धाय नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनियं -- ॐ ज्ञानसागराय नमः मुखे आचमनीयं समर्पयामि ।
मधुपर्कं -- ॐ सिद्धराजाय नमः मधुपर्कं समर्पयामि ।
स्नानं -- ॐ मलापकर्शाय नमः स्नानं समर्पयामि ।
पञ्चामृत उद्वर्तनस्नानं (नेहमी प्रमाणे)
शुद्धोदकस्नानं -- ॐ कालाग्निशमनाय नमः शुद्धोदकस्नानं समर्पयामि ।
वस्त्रं -- ॐ दिगम्बराय नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतं -- ॐ बन्धनरहिताय नमः उपवीतं समर्पयामि ।
आभरणानि -- ॐ मायामुक्ताय नमः आभरणं समर्पयामि ।
गन्धं -- ॐ निर्वासिताय नमः गन्धं समर्पयामि ।
अक्षता -- ॐ अवधूताय नमः अक्षतां समर्पयामि ।
पुष्पं -- ॐ पतीतपावनाय नमः पुष्पं समर्पयामि ।
त्रयोदश नामपूजा -- ॐ श्रीधराय नमः । ॐ ब्रह्मरूपिणेनमः ।
ॐ सच्चिदानन्दाय नमः । ॐ यतीश्वराय नमः ।
ॐ दत्तराजाय नमः । ॐ प्रणवात्मकाय नमः । ॐ दिव्यरूपाय नमः ।
ॐ शान्तिमूर्तये नमः । ॐ सत्यदेवाय नमः ।
ॐ विश्वमङ्गलाय नमः । ॐ ज्योतिषे नमः । ॐ मोक्षदायकाय नमः ।
ॐ गुरुवे नमः । ॐ गुरुवे नमः त्रयोदशनामपूजां समर्पयामि ।
धूपं -- ॐ मायाविद्याविनाशाय नमः धूपमाघ्रापयामि ।
दीपं -- ॐ परञ्ज्योतिः स्वरूपाय नमः दीपं दर्शयामि ।
नैवेद्यं -- ॐ स्वानन्दामृततृप्ताय नमः नैवेद्यं समर्पयामि ।
फलं -- ॐ परब्रह्मणे नमः फलं समर्पयामि ।
ताम्बूलं -- ॐ नित्यानन्दनिधये नमः ताम्बूलं समर्पयामि ।
दक्षिणा -- ॐ दक्षिणामूर्तये नमः सुवर्णपुष्पदक्षिणां समर्पयामि ।
निराञ्जन -- ॐ ज्योतिः प्रकाशकाय नमः निराञ्जन दर्शयामि ।
मन्त्रपुष्पाञ्जली -- निरञ्जनाय विद्महे । निराभासाय धीमहि ।
तन्नः सद्गुरु प्रचोदयात् ॥
ॐ दयाघनाय नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ।
नमस्कार -- ॐ प्रज्ञानतिमिरभास्कराय नमः नमस्कारं समर्पयामि ।
प्रार्थना -- जगत्कल्याणकार्याय नररूपधराय च ।
योगिराजाय वन्द्याय श्रीधराय नमो नमः ॥
धर्मसंरक्षणार्थ हि सम्भवाय कलौयुगे ।
सत्यधर्मस्वरूपाय श्रीधराय नमो नमः ॥
प्रज्ञानघनदेवेश शान्तिसाम्राज्यदीपक ।
स्वानन्दामृततृप्ताय श्रीधराय नमो नमः ॥
त्वद्यात्रया व्यापकताहताते
ध्यानेन चेतः परताहताते ।
स्तुत्या मया वाग्परताहताते
क्षमस्व नित्यं त्रिविधापराधान् ॥
श्रद्धां मेधां यशःप्रज्ञां विद्यां बुद्धिं प्रियं बलम् ।
वैराग्यं ज्ञानमानन्दं देहि मे गुरुपुङ्गव ॥
ॐ मोक्षश्रीधराय नमः प्रार्थनां समर्पयामि ॥
इति श्रीधरस्वामीपूजा समाप्ता ।
(श्रीधरसन्देशः पौष १८९४)
Proofread by Paresh Panditrao