श्रीसुबोधानन्दस्तोत्रम्
श्री कृष्णदासतनयं सहजातभक्तिं
सम्भू षिताङ्कनयनोत्तरतारबालम् ।
श्रीरामकृष्णकृपया कृतकृत्य बुद्धिं
वन्दे सुबोधपुरुषं विनयाप्तमूर्तिम् ॥ १॥
लोकोत्तरार्जवगुणं जितकामभोगं
दैवाख्यया त्वभिहितं जननीड्यदेवैः ।
तेजस्विता सरलता व्यवहारसिद्धं
नौमि द्युलोकवसतिं मधुरस्वभावम् ॥ २॥
शुद्धान्वयं प्रियजनं चरितेन शुद्ध-
स्त्वाचार शुद्धभजनं धृतशुद्धदेहम् ।
संसारिणां शरणदं, जनदुःखतप्तं
स्तौमि स्वभावसरलं पुरुषं महान्तम् ॥ ३॥
स्वस्यासने तु गुरुणा स्वयमासितं त्वां
तच्चिह्नितं समदृशं समदुःखहर्षम् ।
प्राप्तोपदेशचरणं निजबोधनिष्ठ-
मीड़ए सुबोधतरणिं पतिताघनाशम् ॥ ४॥
बाल्ये विरक्तपुरुषं यतिधर्मपालं
श्रीरामकृष्णसरणिं सततं प्रविष्टम् ।
तीर्थाटनेन सुखिनं गुरुकर्मनिष्ठं
स्वाचार्यसेविनमहं त्वभिवादये त्वाम् ॥ ५॥
क्रोधोपशान्तिरखिला यदवेक्षणेन
प्रयान्महाजनगता किमुतेतरेषाम् ।
स्निग्धा पवित्रसरला गुणयुक्तमूर्ति-
र्ध्येया तदीयवरदा कलुषापहर्त्री ॥ ६॥
खोकाख्यया गुरुसहोदरवाग् दिशन्ती
यं स त्वमेव तरुणोऽर्भकवन्निषण्णः ।
बाल्यं गतेऽपि कुटिले भवलुब्धमार्गे
धर्मार्घ्यमार्गसुरसे रसिको विदग्धः ॥ ७॥
देशे, विदेशगहने भवदुःखतप्ता-
स्त्वामाश्रयन्त इतरे सुकृते तृषार्ताः ।
शान्तं रसं सुमधुरं परिपीय लोका-
स्तप्ता भवन्ति सुखिनस्तनुवाङ्मनोभिः ॥ ८॥
संसारपारपथिकं नियमप्रधानं
स्वाध्यायपाठनिरतं सततं कृतार्थम् ।
आचारचारुचतुरं सुविचार-निष्ठं
शास्त्रोक्तकर्मनिपुणं प्रणतः सुबोधम् ॥ ९॥
बालस्वभावनियमादविरूढ़भावं
यान्तं स्थलेऽपि कुपथा बहुदूरमेकम् ।
विश्वासदार्ढ्यबलतो शिवबोधयुक्तं
स्वामिन्यपिश्रुतिमति प्रणनाम देवम् ॥ १०॥
श्रीरामकृष्ण सङ्घस्य नेतृमन्यतमं वरम् ।
सुबोधानन्दनाथाख्यं प्रणमामि कृताञ्जलिः ॥ ११॥
इति ब्रह्मचारिमेधाचैतन्यविरचितं ``श्रीमत्सुबोधानन्दस्तोत्रम्'' सम्पूर्णम् ।
प्रणाममन्त्रः-
शुद्धबुद्धि प्रशान्ताय वैराग्यज्ञानमूर्तये ।
सुबोधाय नमस्तुभ्यं त्रिलोकं तीर्थी कुर्वते ॥
Proofread by Aruna Narayanan