श्रीसुन्दरमूर्त्यष्टोत्तरशतनामावलिः
(Sundaramoorthy Nayanar, a devotee of Lord Tyagaraja, Tiruvarur)
ॐ श्रीगणेशाय नमः ॥
ॐ सुन्दरमूर्तये नमः ।
ॐ सुन्दरेश्वरप्रियाय नमः ।
ॐ सुषुम्नानाडीशोधकाय नमः ।
ॐ सुवर्णकल्पकलेवराय नमः ।
ॐ सुवर्णाभरणभूषिताय नमः ।
ॐ सुवर्णमाल्याम्बरधारिणे नमः ।
ॐ शिवभक्ताग्रगण्याय नमः ।
ॐ शिवार्चनधुरन्धराय नमः ।
ॐ शिवनामपरायणाय नमः ।
ॐ शिवध्यानप्रियमानसाय नमः । १०
ॐ शिवानन्दपरिपूर्णाय नमः ।
ॐ शिवनामाङ्गितरसनाय नमः ।
ॐ शिवराजयोगधारिणे नमः ।
ॐ शिवमन्त्रजपप्रियाय नमः ।
ॐ शिवाप्रियाय नमः ।
ॐ शिवभक्तपरिपालकाय नमः ।
ॐ शिवभक्तसमावृताय नमः ।
ॐ शिवभक्तप्रियमानसाय नमः ।
ॐ शिवभक्तपरिपोषकाय नमः ।
ॐ शिवसायुज्यसम्पन्नाय नमः । २०
ॐ शिवदत्तनामाङ्किताय नमः ।
ॐ शिवागमप्रवीणाय नमः ।
ॐ शिवानन्दपरितृप्तमानसाय नमः ।
ॐ पञ्चक्लेशनिवर्तकाय नमः ।
ॐ परवागीतसन्तुष्टाय नमः ।
ॐ परवानाट्यकौतुकाय नमः ।
ॐ परवाशृङ्गारदर्शकाय नमः ।
ॐ परवाभोगनिरताय नमः ।
ॐ परवाऽऽलिङ्गनतत्पराय नमः ।
ॐ परवालोकनसुन्दराय नमः । ३०
ॐ परब्रह्मस्वरूपध्यात्रे नमः ।
ॐ परोपकारकलेवराय नमः ।
ॐ परमशिवभक्तिप्रियाय नमः ।
ॐ परमशिवालोकनपात्रगात्राय नमः ।
ॐ परमशिवलोचनगोचराय नमः ।
ॐ परिशुद्धमानसाय नमः ।
ॐ पादव्यत्यासताण्डवप्रियाय नमः ।
ॐ पार्वतीप्रियनन्दनाय नमः ।
ॐ पार्वतीपादसेवकाय नमः ।
ॐ पार्वतीदत्तविद्याविशेषज्ञाय नमः । ४०
ॐ पार्वतीभक्तिपरिपूर्णाय नमः ।
ॐ आदिशैवकुलोद्भवाय नमः ।
ॐ आदर्शसम्भूताय नमः ।
ॐ आश्रितवत्सलाय नमः ।
ॐ आनन्दपरिपूर्णाय नमः ।
ॐ आहिताग्निप्रियमानसाय नमः ।
ॐ आदिशैवोत्तमाय नमः ।
ॐ आश्रितरक्षकाय नमः ।
ॐ महाकैलासनिलयाय नमः ।
ॐ महाभोगसमन्विताय नमः । ५०
ॐ महामायानिवर्तकाय नमः ।
ॐ महातेजस्विने नमः ।
ॐ महायशस्विने नमः ।
ॐ महाबुद्धिमते नमः ।
ॐ महामन्त्रजपपराय नमः ।
ॐ महायोगनिलयाय नमः ।
ॐ महागुणसम्पन्नाय नमः ।
ॐ महापण्डितपराय नमः ।
ॐ महादेवपूजासमुत्सुकाय नमः ।
ॐ महाशास्त्रपण्डिताय नमः । ६०
ॐ द्राविडविद्याविनयसम्पन्नाय नमः ।
ॐ द्राविडव्याकरणगुरवे नमः ।
ॐ द्राविडसम्प्रदायकरणाय नमः ।
ॐ द्राविडलोकवन्दिताय नमः ।
ॐ द्राविडविद्यापालकाय नमः ।
ॐ द्राविडस्तोत्रपरायणाय नमः ।
ॐ चन्द्रचूडदत्तैरावणाय नमः ।
ॐ सत्त्वगुणाकराय नमः ।
ॐ सत्सेविताय नमः ।
ॐ समयाचारदेशिकाय नमः । ७०
ॐ सम्प्राप्तदिव्यदेहाय नमः ।
ॐ विशेषक्षेत्रदर्शकाय नमः ।
ॐ विश्ववन्द्याय नमः ।
ॐ विदेहकैवल्यकलनाय नमः ।
ॐ विद्याविद्यास्वरूपदर्शकाय नमः ।
ॐ विनायकप्रियाय नमः ।
ॐ विमलाङ्गविराजिताय नमः ।
ॐ विद्वज्जनसमन्विताय नमः ।
ॐ सर्वविद्यापारङ्गताय नमः ।
ॐ तपोनिष्ठाय नमः । ८०
ॐ तपोनिष्ठाग्रगण्याय नमः ।
ॐ तपस्विने नमः ।
ॐ तडित्प्रभाय नमः ।
ॐ तापत्रयोल्लङ्घिने नमः ।
ॐ देवदेवसेवकाय नमः ।
ॐ देवादिलोकसञ्चारिणे नमः ।
ॐ नित्यकर्मनिरताय नमः ।
ॐ नित्यकर्मसमाश्रिताय नमः ।
ॐ शैवशास्त्रविशारदाय नमः ।
ॐ शैवाचारसम्पन्नाय नमः । ९०
ॐ वीतशोकाय नमः ।
ॐ वीतरागाय नमः ।
ॐ कलुषारण्यदहनाय नमः ।
ॐ कल्याणगुणसम्पन्नाय नमः ।
ॐ हेयोपादेयविग्रहदर्शकाय नमः ।
ॐ श्रीमत्त्यागराजप्रियभक्ताय नमः ।
ॐ श्रीमत्त्यागराजनर्तनसेविताय नमः ।
ॐ नर्तनादिविशेषज्ञाय नमः ।
ॐ लीलाताण्डवदर्शकाय नमः ।
ॐ अजपाताण्डवसंसेविताय नमः । १००
ॐ नटनविद्याविदुषे नमः ।
ॐ नटनादिविद्यापारङ्गताय नमः ।
ॐ शृङ्गारनटननायकाय नमः ।
ॐ वेदशास्त्रविशारदाय नमः ।
ॐ वैदिकाचारसम्पन्नाय नमः ।
ॐ ब्राह्मणकर्मपरिपालकाय नमः ।
ॐ दुरूहशिवभक्तिपरवशाय नमः ।
ॐ दूरीकृतदुर्जनाय नमः ।
ॐ सदाचारसम्पन्नाय नमः ।
ॐ मूलाधारक्षेत्रवासिने नमः । ११०
ॐ ग्राहग्रस्तबालजीवितप्रदाय नमः ।
ॐ सोमयाजिवरप्रदाय नमः ।
ॐ ऐरावणारूढकैलासगमनाय नमः ।
ॐ परवासहितसुन्दरमूर्तये नमः ।
इति श्रीसुन्दरमूर्त्यष्टोत्तरशतनामावलिः समाप्ता ।
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
Text provided by Dr. Thiagarajan R, Head of the P.G and
Research Dept of Sanskrit, Presidency College, Chennai