सुन्दरराजाष्टोत्तरशतनामस्तोत्रम्
॥ श्रीरस्तु ॥
॥ ॐ श्रीसुन्दरराजपरब्रह्मणे नमः ॥
॥ अथ श्रीमत्सुन्दरराजाष्टोत्तरशतनामस्तोत्रप्रारम्भः ॥
श्रीमद्वृषभशैलेन्द्रनित्यवासकृतादरम् ।
श्रीनिवासाच्युतानन्तगोविन्दाद्ययुताभिधम् ॥ १॥
दिव्यौषधीवृताऽरामवनाचलनिकेतनम् ।
पारम्यसाम्यविरमपरमस्वामिसंज्ञकम् ॥ २॥
सर्वलोकैकसौन्दर्यभवनीकृतविग्रहम् ।
वैकर्तनतपोयोगप्रेमपुण्यफलोदयम् ॥ ३॥
प्रदीपपादपप्रान्तसोमच्छन्दरथस्थितम् ।
सुपर्णद्वयसञ्जुष्टसुपर्णविजयध्वजम् ॥ ४॥
स्वमञ्जीरगलत्पुण्यमञ्जीरतटिनीस्थितम् ।
सहस्रदलपद्मस्थसहस्रदलपद्युगम् ॥ ५॥
रमा विश्वम्भराश्लिष्टपार्श्वद्वन्द्वमनोहरम् ।
सुतपानामविप्रेन्द्रचातकाम्बुदमण्डलम् ॥ ६॥
दुर्वासश्शापनिर्मुक्तमण्डूकमुनिपूजितम् ।
पर्वतध्वजपाण्ड्येन्द्रपरार्थपदपङ्कजम् ॥ ७॥
विमानवामपार्श्वस्थक्षेत्रपालनिषेवितम् ।
श्रीमत्सुन्दरराजाख्ययाथार्थ्यद्योतिताऽकृतिम् ॥ ८॥
तप्तकाञ्चनसङ्काशचारुपीताम्बरावृतम् ।
सजीव दिव्यशस्त्रास्त्रसमारूढकटीतटम् ॥ ९॥
नीलनीरदमध्यस्थतटिदाभोपवीतिनम् ।
भार्गवीभवनाम्भोजभवनीकृतवक्षसम् ॥ १०॥
भ्रमद्भमरसङ्घुष्टवनमालाविभूषितम् ।
श्रीकौस्तुभमहारत्नपरिशोभितकन्धरम् ॥ ११॥
मन्दारविटपाकारबाहुदण्डोपशोभितम् ।
शङ्खचक्रगदाखड्गशार्ङ्गचापवरायुधम् ॥ १२॥
उद्योगचक्रविलसद्वामेतरकराम्बुजम् ।
निनदद्दक्षिणावर्तदक्षिणेतरपाणिनम् ॥ १३॥
अशेषलोकवरद कटिन्यस्तकरद्वयम् ।
दोर्दण्डषण्डमध्यस्थतारहारलतान्वितम् ॥ १४॥
पद्मचन्द्रामृतरसप्रबुद्धमुखमण्डलम् ।
जपाकुसुमसङ्काशविद्रमाधरपल्लवम् ॥ १५॥
नितान्तदीर्घललितशफरद्वन्द्वलोचनम् ।
नयनाम्बुधिमध्यस्थसेतुभूतसुनासिकम् ॥ १६॥
मनोभवमहेष्वासनमितभ्रयुगोज्वलम् ।
फुल्लपङ्केरुहासीनमधुपायितपुण्ड्रकम् ॥ १७॥
अर्धेन्दुललितोदारफालस्थलमनोहरम् ।
अराळनीलतरळमञ्जुळाळकमञ्जुळम् ॥ १८॥
स्मितज्योत्स्नापरीबाहमज्जन्नीलाचलद्युतिम् ।
बालार्कशतसाहस्रकिरीटमकुटान्वितम् ॥ १९॥
देदीप्यमानकटककुण्डलाङ्गदभासुरम् ।
नानामणिगणज्वालाशवळीकृत विग्रहम् ॥ २०॥
श्रीमत्कल्याणसौन्दर्यवल्लीचित्तानुवर्तिनम् ।
वेदवेदाङ्गतत्वज्ञ विशुद्धमतिगोचरम् ॥ २१॥
शरणागतसन्त्राणकरुणावरुणालयम् ।
दुर्वाराश्रितदारिद्र्यविलेशयखगेश्वरम् ॥ २२॥
पादाननजाक्ष्यादिसर्वावयवसुन्दरम् ।
स्वाराधनासक्तचित्तभक्तसंरक्षणोत्सुकम् ॥ २३॥
विखनोमुनिसिद्धान्तसमर्चैकप्रियाशयम् ।
प्रणतार्तिप्रणाशैकधुरन्धरवनाद्रिगम् ॥ २४॥
धाराधरावृताऽरामधराधरधराधरम् ।
अकारादिक्षकारान्तमातृकातारकात्मकम् ॥ २५॥
ध्रुवचन्द्रदिवानाथमध्यमण्डलवर्तिनम् ।
नारदव्याससनकशुकादिहृदयेशयम् ॥ २६॥
देवदानवगन्धर्वसिद्धसङ्घाभिवन्दितम् ।
अनुक्षणसमारूढलक्ष्मीसंज्ञाविराजितम् ॥ २७॥
अनेकाचरसञ्चारभुवनागारशिल्पिनम् ।
ब्रह्मरुद्रेन्द्रसङ्घुष्टमहाविभवविस्तरम् ॥ २८॥
पारावारविहारोद्यन्महामत्स्यावतारिणम् ।
मधुकैटभदावाग्निप्रशमप्रचराम्बुदम् ॥ २९॥
संवर्तसलिलाऽवर्तसमुद्धृतसरस्वतिम् ।
अशेषभुवनाऽधारधरणीधरधारिणम् ॥ ३०॥
क्षीराब्धिमन्थनीमन्थमन्दराऽधारकच्छपम् ।
सागरोत्पादिताब्जाऽदिगजरामामणिद्रुमम् ॥ ३१॥
सुधाहेतुकदैत्यारिदैत्योग्रकलहास्पदम् ।
मोहिताशेषभुवन मोहिनीरूपधारिणम् ॥ ३२॥
धुतस्कन्धसटालग्ननक्षत्रग्रहमण्डलम् ।
हिरण्याक्षघनध्वान्तकवळीकर भास्करम् ॥ ३३॥
सुरासुरसुधादानप्रियविप्रियकारिणम् ।
सूकराकारहुङ्कारनिराकृत पराकृतिम् ॥ ३४॥
स्वाङ्कसंस्थापितानन्तानन्ततत्वार्थदर्शिनम् ।
श्रीमदष्टार्णविलसत्प्रह्लादहृदयालयम् ॥ ३५॥
हिरण्यसदनद्वारनिर्भिन्नस्तम्भसम्भवम् ।
कठोरगर्जनध्यान भीतभीतजगत्रयम् ॥ ३६॥
घोरवज्रनखर विभिन्नशरभाकृतिम् ।
दैत्यश्री हरणासक्तकुहनाब्रह्मचारिणम् ॥ ३७॥
त्रिविक्रमक्रमाऽक्रान्तसमस्तभुवनक्रमम् ।
सर्वगीर्वाणसामन्तसार्वभौमसहोदरम् ॥ ३८॥
भार्गवार्णवसम्भूतनिष्कळङ्कनिशाकरम् ।
स्वजोलवदन्दग्धकार्तवीर्यमहावनम् ॥ ३९॥
क्षत्रियक्षतजाक्तितीक्ष्णधारापरश्वधम् ।
सौरवंशसमुत्पन्नहरिन्मणिवरोत्तमम् ॥ ४०॥
महानटमहेष्वासभग्नप्राप्तजयश्रियम् ।
जानकीचारुवदनचकोरश शालाञ्चनम् ॥ ४१॥
निर्जितानेकसाहस्रमीनकेतनसुन्दरम् ।
उद्यदुत्फुल्लचन्द्राब्जस्फुरन्नीलाचलोपमम् ॥ ४२॥
प्रपन्नापन्नसम्पन्नकरणैकपरायणम् ।
शरशोषितसर्वस्वसमुद्रतरणोद्यतम् ॥ ४३॥
दुष्टेष्टाऽशरकीशेशनिग्रहानुग्रहप्रदम् ।
भरताङ्गदभल्लूकसौरवायुसुताऽवृतम् ॥ ४४॥
वसिष्ठवामदेवादिब्रह्मर्षिगणमानितम् ।
क्षमावात्सल्यकारुण्याद्युदारगुणवारिधिम् ॥ ४५॥
शरदिन्दुसुधाशङ्खशुद्ध स्फटिकविग्रहम् ।
कोपाऽटोपहलाऽकृष्टयमुनाहस्तिनापुरम् ॥ ४६॥
गान्धारकर्णगाङ्गेयसुयोधनमुखार्चितम् ।
यशोदा देवकीनन्दवसुदेवयशोदयम् ॥ ४७॥
गोपीगोपालगोबृन्दगोवर्धनधरोद्धरम् ॥
बृन्दावनान्तविहरद्गोपीनयन किङ्करम् ॥ ४८॥
चिन्तयन्तीकुचेलादिचिन्तितार्थबहुप्रदम् ।
तृणीकृताश्ववृषभतृणाऽवर्तमदोत्कटम् ॥ ४९॥
काळीयकंसनरकबकवाणेशभञ्जनम् ।
क्रन्दत्पाञ्चालतनयादुःखोन्मूलनसम्भ्रमम् ॥ ५०॥
उद्धवाक्रूरविदुरभीष्मपाण्डवसेवितम् ।
रुक्मिणीसत्यभामादिस्त्रैणदृष्टिमनोहरम् ॥ ५१॥
महाभारतशार्दूलविजयप्रियसारथिम् ।
धनञ्जयाद्रिगीतार्थसुधावर्षिमहाघनम् ॥ ५२॥
समस्त विद्याभवनतुरङ्गमवराननम् ।
हेषात्रयी महाघोषचन्द्रमण्डलमन्दुरम् ॥ ५३॥
निगमाऽगमशास्त्रादिसर्ववागीश्वरेश्वरम् ।
स्वांशावतारबाहुळ्यसंरक्षितजगत्त्रयम् ॥ ५४॥
श्रीमदाऽरामजीमूतप्रख्यातनगपुङ्गवम् ।
अणिमाद्यष्टसंसिद्धयमाद्यष्टाङ्गसिद्धिदम् ॥ ५५॥
श्रीमद्वषाद्रिनिलयं श्रीनिवासाभिधानकम् ।
नरनारायणाऽख्यात हंसहंसोत्तमेश्वरम् ॥ ५६॥
श्रीममद्वृषाद्रिनिलयं श्रीमद्वेङ्कटनायकम् ।
श्रीमत्कुञ्जरराजेन्द्रवरदं प्रणमाम्यहम् ॥ ५७॥
समस्तजगदाधारं सर्वमङ्गळदायकम् ।
सर्वलोकैकशरणं वरदं प्रणमाम्यहम् ॥ ५८॥
सर्वारिष्टविनाशार्थं सर्वऽपद्विनिवृत्तये ।
श्रीविष्णुभक्तिलाभाय मायासन्तारणाय च ॥ ५९॥
सर्वसम्पत्समृध्यर्थमाधुरारोग्यवृद्धये ।
सत्कळत्रगृहक्षेत्र पुत्रमित्रादिवृद्धये ॥ ६०॥
सुन्दरं परमन्देवं देवीं कल्याणसुन्दरीम् ।
नमामि भूयोभूयोऽहम्भूयोभूयो नमाम्यहम् ॥ ६१॥
इति स्तुत्वा दिने रात्रौ सर्वसिद्धिं लभेन्नरः ॥ ६२॥
इति श्रीमत्सुन्दरराजाष्टोत्तरशतनामस्तोत्रं सम्पूर्णमितिशम् ॥
Proofread by Saritha Sangameswaran