सुन्दरराजकवचस्तोत्रम्
॥ श्रीरस्तु ॥ श्रीब्रह्मप्रोक्तम् ।
॥ श्रीमत्सुन्दरराजकवचस्तोत्रमहामन्त्रम् ॥
॥ अथ श्रीसुन्दरराजकवचस्तोत्रप्रारम्भः ॥
वन्दे सुन्दरराजानमिन्दिराभूमिनायकम् ।
बृन्दारकगणैर्वन्द्यञ्चिन्तिताभीष्टदायकम् ॥ १॥
सोमच्छन्दविमानस्थम्मध्ये तुरगवाहनम् ।
मण्डूकवरदन्देवं सुन्दरं प्रणतोस्म्यहम् ॥ २॥
सुन्दरायतभुजं भजामहे वृक्षषण्डमयमद्रिमास्थितम् ।
यत्र सुप्रथितनू पुरापगातीर्थमर्थित फलप्रदं विदुः ॥
॥ अथ श्रीसुन्दरराजकवचमहामन्त्रम् ॥
अस्य श्रीसुन्दरराजकवचस्तोत्रमहामन्त्रस्य, विखनसब्रह्मर्षिः,
अनुष्टुप्-च्छन्दः श्रीसुन्दरराजो देवता, ॐ बीजम्, श्रीं शक्तिः,
ह्रीं कीलकम्, मम सुन्दरराजप्रसादसिध्यर्थे जपे विनियोगः ॥
अथ करन्यासः ।
ॐ नमो भगवते श्रीसुन्दरराजाय अङ्गुष्ठाभ्यां नमः ।
ॐ नमो भगवते श्रीवृषभाद्रिवासिने तर्जनीभ्यां नमः ।
ॐ नमो भगवते देवशिखामणये मध्यमाभ्यां नमः ।
ॐ नमो भगवते परमस्वामिने अनामिकाभ्यां नमः ।
ॐ नमो भगवते प्रयोगचक्रिणे कनिष्ठिकाभ्यं नमः ।
ॐ नमो भगवते सर्वसम्पत्कराय करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
अथ अङ्गन्यासः ।
ॐ नमो भगवते श्रीसुन्दरराजाय हृदयाय नमः ।
ॐ नमो भगवते श्रीवृषभाद्रिवासिने शिरसे स्वाहा ।
ॐ नमो भगवते देवशिखामणये शिखायै वषट् ।
ॐ नमो भगवते श्रीपरमस्वामिने कवचाय हुं ।
ॐ नमो भगवते प्रयोगचक्रिणे नेत्रत्रयाय वौषट् ।
ॐ नमो भगवते सर्वसम्पत्कराय अस्त्राय फट् ।
भूर्भुवस्सुवरोमितिदिग्बन्धः ॥
इति अङ्गन्यासः ।
॥ अथ ध्यानम् ॥
मञ्जीराभ्यां लसत्पादं काञ्च्या राजत्कटीतटम् ।
श्रीवत्सहारकेयूरैः कौस्तुभेन विराजितम् ॥ १॥
यज्ञसूत्रञ्च तुळसीमाला धृतभुजान्तरम् ।
रत्नकुण्डलशोभाढ्य कर्णद्वन्द्वमनोहरम् ॥ २॥
सर्वलक्षणलक्षिण्यं सुशीर्षमकुटोज्वलम् ।
सुन्दरस्य च सौन्दर्यं वन्दे सुन्दरनायकम् ॥ ३॥
पीताम्बरं वरदशीतलदृष्टिपात-
माजानुलम्बिभुजमायत कर्णपाशम् ।
श्रीमन्महावनगिरीन्द्रनिवासदीक्षं
लक्ष्मीधरं किमपि वस्तु ममाऽविरस्तु ॥ ४॥
सुन्दरं सुन्दरभुजं परमस्वामिनं हरिम् ।
श्रीभूमिनीळारमणं वृषाद्रीशन्नमाम्यहम् ॥ ५॥
॥ अथ रक्षाविधिः ॥
प्राच्यां मे सुन्दरः पातु आग्नेय्यां गरुडध्वजः ।
दक्षिणे पातु देवेशो नैऋत्यां पातु विश्वदृक् ॥ १॥
वारुण्यां वरदः पातु वायव्यां पातु वामनः ।
त्रिविक्रमोत्तरं पातु चैशान्यां पातु केशवः ॥ २॥
ऊर्ध्वं मे पातु गोविन्दः हृषीकेशस्तथाह्यधः ।
परितः पातु मे शार्ङ्ग चान्तर्नारायणो मम ॥ ३॥
शेषशायी शिरः पातु फालं भक्तजनप्रियः ।
नासां रसाधिपः पातु श्रोत्रौ रात्रिचरान्तकः ॥ ४॥
दृशौ मे पुण्डरीकाक्षश्चिबुकं करुणानिधिः ।
दशनान्पातु दैत्यारिः जिह्वां वाचं शिखास्तथा ॥ ५॥
परमेष्ठीच पात्वोष्ठौ कपोलौ करिरक्षकः ।
कण्ठं वैकुण्ठवासी मे वक्षौ वृषगिरीश्वरः ॥ ६॥
भुजौ मे सुन्दरभुजः पाणी मे पार्थसारथिः ।
नखान्पातु महावीरः अमेयात्माऽङ्गुलीर्मम ॥ ७॥
पक्षीन्द्रवाहनः कक्षौ कुक्षिं त्रैलोक्यरक्षकः ।
क्षीराब्धिशायी पार्श्वौ मे पृष्टं मे कमठीवपुः ॥ ८॥
नाभिं मे पद्मनाभश्च कटिं कैटभनाशनः ।
वनाद्रिनिलयो मध्यमूरू दामोदरो मम ॥ ९॥
जानुनी जन्महा पातु जङ्घे शङ्खासिपद्मधृत् ।
पादौ मे परमस्वामी शुभाङ्गः पातु मेऽङ्गुळीः ॥ १०॥
पार्ष्णी शतमखस्तोत्री नखरान्मे हिरण्मयः ।
माधवः पातु मेऽङ्गानि सर्वदेवशिखामणिः ॥ ११॥
चर्मण्यस्थीनि रोमाणि मांसानि रुधिराणि च ।
अनन्तः पातु मे बाह्यं परितोऽभ्यन्तराणि च ॥ १२॥
शुद्धात्मा दिवसे बुद्धिं मङ्गलाङ्गो मनो मम ।
वाचं वाणीपतिस्तुत्यो प्राणान्सुन्दरवल्लभः ॥ १३॥
इन्द्रियाणि च सर्वाणि शरीराणि हरिर्मम ।
सूर्यात्मा दिवसे पातु सोमात्मा निशि सर्वदा ॥ १४॥
उभयो सन्ध्ययोः पातु चोग्रसिह्योऽसुरासुहृत् ।
वराहः पातु भूमौ मां जले जलचरप्रभुः ॥ १५॥
विपिने पातु गोपालः शैले दाशरथीषुघृत् ।
आस्थाने कामजनकः यात्रादौ मे जनार्दनः ॥ १६॥
दिक्षु सर्वासु कार्येषु सर्वभूतहितेरतः ।
मित्रं पातु श्रियं पातु सौमित्रेरग्रजो मम ॥ १७॥
भूतराक्षसयक्षेभ्यः क्षुद्रेभ्यः पातु मौसली ।
क्षयशूलातिसारेभ्यः कुष्ठेभ्यो भूतमारणः ॥ १८॥
अपस्मारज्वरादिभ्यः पातु मां भक्तवत्सलः ।
शार्ङ्गी गदाधरः पातु चक्री पातु महाबलः ॥ १९॥
बलध्वंसी च मे पातु जागरे शयने सदा ।
इत्याह भगवान्ब्रह्म नारदाय महात्मने ॥ २०॥
इदं श्रुत्वा महाप्राज्ञः नारदो मुनिसत्तमः ।
स्वशिष्येभ्यश्च सर्वेभ्योह्युपदेशं करोति सः ॥ २१॥
बहवो ऋषयश्चेदं जप्त्वा खयफलङ्गताः ।
इत्याश्चर्यकरन्दिव्यं कवचं यो जपन्सदा ॥ २२॥
॥ फलश्रुतिः ॥
सर्वान्कामानवाप्नोति विष्णुसायुज्यमाप्नुयात् ।
सुन्दराख्यस्य कवचं यो वा भृतकळेवरे ॥ २३॥
न रोगो न भयं क्वापि न भूतप्रेतबाधकः ।
न शक्यो बाधितुं लोकैस्सर्वत्र विजयी भवेत् ॥ २४॥
महारणे सभामध्ये चोरव्याघ्रसमूहके ।
यस्स्मरन्सुन्दरभुजं तक्षणाज्जयमश् ?नुते ॥ २५॥
वज्रेणापि न भिद्यन्ते हरेनामामृताऽप्लुताः ।
पुत्रार्थी लभते पुत्रान्धर्मार्थी धर्ममश्नु?ते ॥ २६॥
कामार्थी काममाप्नोति धनार्थी लभते धनान् ।
जयार्थी जयमाप्नोति वश्यार्थी वश्यमाप्नुयात् ॥ २७॥
न भयं राक्षसेभ्यश्च रोगार्तो मुच्यते रुजः ।
रात्रौ च कवचं जप्त्वा दुस्स्वप्नमादिन्द्रियस्खलात् ॥ २८॥
श्रीवश्यं शत्रुवश्यश्च राजवश्यं मृगादिभिः ।
वाक्सिद्धिं कायसिद्धिञ्च मनस्सिद्धिश्च विन्दति ॥ २९॥
सप्तकोटिमहामन्त्रं बहुयत्नेन सिद्धिदम् ।
सुन्दरेशस्य कवचं शीघ्रसिद्धिप्रदं शुभम् ॥ ३०॥
इति श्रीनारदाय ब्रह्मप्रोक्तं
श्रीमत्सुन्दरराजकवचस्तोत्रमहामन्त्रं समाप्तिमगादितिशम् ॥
ॐ तत्सत् । श्रीमत्सुन्दरराजार्पणमस्तु ॥
Proofread by Saritha Sangameswaran