श्रीसुरेश्वराचार्य-अष्टोत्तरशतनामावलिः
ध्यानम् -
विश्वं मायामयत्वेन रूपितं यत्प्रबोधतः ।
विश्वं च यत्स्वरूपं तं वार्तिकाचार्यमाश्रये ॥
अथ नामावलिः -
श्रीमते नमः ।
सुरेश्वराचार्याय नमः ।
धीमते नमः ।
ब्रह्मावतारकाय नमः ।
शृङ्गाद्रिशारदापीठप्रथमाचार्ययोगिराजे नमः ।
श्रीशङ्कराज्ञावशगाय नमः ।
शारदापूजनोत्सुकाय नमः ।
वार्तिकग्रन्थनिर्मात्रे नमः ।
रम्यनैष्कर्म्यसिद्धिकृते नमः ।
वेदशास्त्रार्थनिष्णाताय नमः । १०
वीतरागाय नमः ।
विचारकृते नमः ।
विद्वन्मयाय नमः ।
वीतमोहाय नमः ।
विद्यावते नमः ।
विबुधाग्रण्ये नमः ।
वैदिकाचारनिरताय नमः ।
वन्दारुजनवत्सलाय नमः ।
विद्वज्जनश्लाघनीयाय नमः ।
विद्याविनयभूषणाय नमः । २०
भगवत्पादसच्छिष्याय नमः ।
भाग्यवते नमः ।
भावुकप्रदाय नमः ।
भक्तिगम्याय नमः ।
भयापेताय नमः ।
भक्तानुग्रहणोत्सुकाय नमः ।
मीमांसाद्वयसञ्चारमृगेन्द्राय नमः ।
मार्गदर्शकाय नमः ।
मीमांसान्यायनिर्णेत्रे नमः ।
मीमांसकधुरन्धराय नमः । ३०
मृदुभाषिणे नमः ।
मृदुस्वान्ताय नमः ।
मन्दस्मेरमुखाम्बुजाय नमः ।
कमण्डलुकराय नमः ।
दण्डिने नमः ।
ब्रह्मज्ञाय नमः ।
ब्रह्मचिन्तकाय नमः ।
यजुःशाखिने नमः ।
यजुर्वेदमहावाक्यार्थकोविदाय नमः ।
सकृच्छ्रवणसम्प्राप्तसाक्षात्काराय नमः । ४०
जितेन्द्रियाय नमः ।
तैत्तिरीययजुर्भाष्यवार्तिकग्रन्थकारकाय नमः ।
बृहदारण्यसद्भाष्यकृतवार्तिकविस्तराय नमः ।
पञ्चीकरणसद्ग्रन्थवृत्तिकाराय नमः ।
महामतये नमः ।
मानसोल्लासकरणाय नमः ।
मुदितात्मने नमः ।
मुनीश्वराय नमः ।
सर्वलोकसुविख्याताय नमः ।
सर्वपूज्याय नमः । ५०
सुशोभनाय नमः ।
सर्वात्मभूताय नमः ।
सर्वज्ञाय नमः ।
सर्वशास्त्रविशारदाय नमः ।
दक्षिणाम्नायपीठस्थाय नमः ।
दक्षिणाशागुरूत्तमाय नमः ।
दीनरक्षाकराय नमः ।
दान्ताय नमः ।
दयालवे नमः ।
दिव्यदर्शनाय । ६०
कर्मब्रह्मस्वरूपज्ञाय नमः ।
ब्रह्मवादसमर्थकाय नमः ।
ब्रह्मविद्यापराय नमः ।
ब्रह्मविद्यामार्गप्रदर्शकाय नमः ।
ब्रह्मवित्सम्प्रदायज्ञाय नमः ।
ब्रह्मण्याय नमः ।
ब्रह्मविद्वराय नमः ।
ब्रह्मानुचिन्तकाय नमः ।
योगिने नमः ।
ब्रह्मवर्चसभासुराय नमः । ७०
सर्वसौभाग्यनिलयाय नमः ।
सर्ववेदार्थकोविदाय नमः ।
सर्वाभीष्टप्रदाय नमः ।
वाग्मिने नमः ।
सर्वदुःखनिवारकाय नमः ।
सर्वसंशयविच्छेत्रे नमः ।
सर्वतोभद्रदायकाय नमः ।
सर्वसम्पत्प्रदाय नमः ।
साक्षिणे नमः ।
सर्वमङ्गलकारकाय नमः । ८०
सर्वलोकभयत्रात्रे नमः ।
सर्वापद्विनिवारकाय नमः ।
सर्वभक्तसमुद्धर्त्रे नमः ।
सर्वसौख्यप्रदाय नमः ।
सुहृदे नमः ।
भाष्यभावविशेषज्ञाय नमः ।
भाष्यप्रवचनोत्सुकाय नमः ।
भाष्यगाम्भीर्यसन्द्रष्ट्रे नमः ।
भाष्ययुक्तिप्रसाधकाय नमः ।
भाष्यामृतास्वादलुब्धाय नमः । ९०
भाष्यरक्षणदक्षिणाय नमः ।
भाष्यसिद्धान्तसारज्ञाय नमः ।
भाष्याशयविवेचकाय नमः ।
भाष्यप्रचारनिरताय नमः ।
भाष्यसारांशसङ्ग्रहिणे नमः ।
भाष्यसर्वांशसन्द्रष्ट्रे नमः ।
भाष्यामृतनिमग्नधिये नमः ।
वेदान्तसारमर्मज्ञाय नमः ।
वेदान्ताशयदर्शकाय नमः ।
वेदान्तनलिनीभृङ्गाय नमः । १००
वेदान्ताम्भोजभास्कराय नमः ।
शृङ्गाद्रिवासरसिकाय नमः ।
शारदापीठदेशिकाय नमः ।
रत्नगर्भगणेशानचन्द्रमौल्यादिपूजकाय नमः ।
शारदापीठतिलकाय नमः ।
शारदालयपोषकाय नमः ।
शारदापीठसद्भक्तसर्वाभीष्टप्रदायकाय नमः ।
श्रीसुरेश्वराचार्यस्वामिने नमः । १०८
इति श्रीसुरेश्वराचार्य-अष्टोत्तरशतनामावलिः सम्पूर्णा ।