स्वामिविवेकानन्दसंस्तुतिः
अखण्डं सच्चिदानन्दं, पूर्णं ब्रह्मसनातनम् ।
आविर्भूतं जगत् त्रातुं, स्वामिनं तं नमाम्यहम् ॥ १॥
वीरेश्वरः शिवः साक्षात्, नररूपेण रूपितम् ।
सेवार्थमार्त्तदीनानां, स्वामिनं तं नमाम्यहम् ॥ २॥
लीलासहचरश्रेष्ठं, गुरुभक्ति-परायणम् ।
ध्यानसिद्धं तपोनिष्ठं, स्वामिनं तं नमाम्यहम् ॥ ३॥
योऽस्ति श्रीरामकृष्णस्य, दासो जन्मनि जन्मनि ।
आगतस्तस्यकार्यार्थं, स्वामिनं तं नमाम्यहम् ॥ ४॥
येनावबोधितं तत्त्वं, शारदा-रामकृष्णयोः ।
सारं च सर्वधर्माणां, स्वामिनं तं नमाम्यहम् ॥ ५॥
शङ्कराचार्यवद् यस्मिन्, प्रतिभास्ति तथैव च ।
कारुण्यं बुद्धदेवस्य स्वामिनं तं नमाम्यहम् ॥ ६॥
देशदेशान्तरं गत्वा, सर्वे धर्माः समन्विताः ।
वेदान्त-दीप-द्रष्टारं, स्वामिनं तं नमाम्यहम् ॥ ७॥
अत्यन्त प्राकृतस्यापि बोधनार्थं सुखाय च ।
व्याख्यातो-वेद-वेदान्तः स्वामिनं तं नमाम्यहम् ॥ ८॥
आत्मनो मोक्षलाभार्थं, जगद्धिताय ह्येव च ।
नवसंन्यासिसङ्घस्य, स्थापकं तं नमाम्यहम् ॥ ९॥
मूर्तिमन्तं मनुष्यत्वं, नरेन्द्र इति संज्ञितम् ।
वन्दे नर ऋषिं दिव्यं, विवेकानन्द-रूपिणम् ॥ १०॥
विश्वस्य सर्वधर्माणां, धर्मग्लानि-निवारकम् ।
युगाचार्य-वरिष्ठं तं, भूयो भूयो नमाम्यहम् ॥ ११॥
माता मे शारदादेवी, रामकृष्णः पिता स्वयम् ।
विवेकानन्द-आचार्यः, सर्वे भक्ताश्च बान्धवाः ॥ १२॥
इति स्वामिबलरामानन्दविरचिता ``विवेकानन्दसंस्तुतिः'' समाप्ता ।
Proofread by Aruna Narayanan