त्रिदेवानामानन्यत्वप्रतिपादनम्

त्रिदेवानामानन्यत्वप्रतिपादनम्

Oneness of the trinity Brahma-Vishnu-Mahesha ऋषय ऊचुः - अनन्यत्वं त्रिदेवानां यज्जगाद जनार्दनः । शम्भवे तद्वयं श्रोतुमिच्छामो द्विजसत्तम ॥ १॥ एकत्वं दर्शयामास कथं वा गरुडध्वजः । तत् समाचक्ष्व विप्रेन्द्र परं कौतूहलं हि नः ॥ २॥ मार्कण्डेय उवाच - श‍ृणुध्वं मुनयो गुह्यं परमं प्रयतं परम् । त्रिदेवानामनन्यत्वं तथैवैकत्वदर्शनम् ॥ ३॥ हरेण पृष्टो गोविन्दस्तं समाभाष्य सादरम् । इदमाह मुनिश्रेष्ठा अभिन्नप्रतिपादकम् ॥ ४॥ श्रीभगवानुवाच - इदं तमोमयं सर्वमासीद्भुवनवर्जितम् । अप्रज्ञातमलक्ष्यञ्च प्रसुप्तमिव सर्वतः ॥ ५॥ न दिवारात्रिभागोऽत्र नाकाशं न च काश्यपी । न ज्योतिर्न जलं वायुर्नान्यत् किञ्चन संस्थितम् ॥ ६॥ एकमासीत् परं ब्रह्म सूक्ष्मं नित्यमतीन्द्रियम् । अव्यक्तं ज्ञानरूपेण द्वैतहीनविशेषणम् ॥ ७॥ प्रकृतिः पुरुषश्चैव नित्यौ द्वौ सर्वसंहितौ । स्थितः कालोऽपि भूतेश जगत्कारणमेककम् ॥ ८॥ यदेकं परमं ब्रह्म तत्स्वरूपात् परं हर । रूपत्रयमिदं नित्यं तस्यैव जगतः पतेः ॥ ९॥ कालो नामापरं रूपमनाद्यं तत्तुकारणम् । सर्वेषामेव भूतानामवच्छेदेन सङ्गतः ॥ १०॥ ततस्तत् स्वप्रकाशेन भास्वद्रूपं प्रकाशते । पुरा सृष्ट्यर्थमतुलं क्षोभयन् प्रकृतिं स्वयम् ॥ ११॥ सङ्क्षुब्धायान्नु प्रकृतौ महत्तत्त्वमजायत । महत्तत्त्वात्ततः पश्चादहङ्कारस्त्रिधाभवत् ॥ १२॥ अहङ्कारे तु सञ्जाते शब्दतन्मात्रतस्ततः । आकाशमसृजद्विष्णुरनन्तं मूर्तिवर्जितम् ॥ १३॥ ततस्तु रसतन्मात्रादपः सृष्ट्वा महेश्वरः । निराधारः स्वयं दध्रे तास्तदा निजमायया ॥ १४॥ ततस्त्रिगुणसाम्येन संस्थितां प्रकृतिं प्रभुः । पुनः सङ्क्षोभयामास सृष्ट्यर्थं परमेश्वरः ॥ १५॥ ततः सा प्रकृतिस्तासु बीजं त्रिगुणधाभवत् । अप्सु संसर्जयामास जगद्बीजं निराकुलम् ॥ १६॥ तद्विवृद्धं क्रमेणैव हैममण्डमभून्महत् । जग्राहापः समस्तास्ता गर्भ एव तदण्डकम् ॥ १७॥ अप्सु स्थितासु हैमाण्डगर्भे विष्णुस्तदण्डकम् । त्वयैव मायया दध्रे ब्रह्माण्डमतुलं पुनः ॥ १८॥ वारिणा वह्निभिश्चैव वायुभिर्नभसा तथा । बहिस्तदण्डकं छन्नं सर्वपार्श्वे समन्ततः ॥ १९॥ सप्तसागरमानेन तथा नद्यादि मानतः । ब्रह्माण्डाभ्यन्तरे तोयं तदन्यत्तु बहिर्गतम् ॥ २०॥ तदन्तः स्वयमेवासौ विष्णुर्ब्रह्मस्वरूपधृक् । दैवं वर्षमुषित्वैव प्रबिभेद तदण्डकम् ॥ २१॥ तस्मात् समभवन्मेरुरुत्पन्नोऽस्मिन् महेश्वर । जरायुः पर्वता जाताः समुद्राः सप्त तज्जलात् ॥ २२॥ तन्मध्ये गन्धतन्मात्रात् पृथिवी समजायत । ईश्वरेण प्रकृत्या च योजिता त्रिगुणात्मिका ॥ २३॥ प्रागेव पर्वतादिभ्यः समुत्पन्ना वसुन्धरा । ब्रह्माण्डखण्डसंयोगाद्दृढा भूता तु सा भृशम् ॥ २४॥ तस्यामेव स्थितो ब्रह्मा सर्वलोकगुरुः स्वयम् । यदा ब्रह्माण्डमध्यस्थो ब्रह्मा व्यक्तो न चाभवत् । तदैव रूपतन्मत्रात्तेजः सम्यगजायत ॥ २५॥ वायुस्तु स्पर्शतन्मात्रात् प्रकृत्या विनियोजितात् । बभूव सर्वभूतानां प्राणभूतः समन्ततः ॥ २६॥ अद्भिस्तेजोभिरतुलैर्वायुभिर्नभसा तथा । अन्तर्बहिस्तदण्डस्य व्याप्तमन्यत्तु गर्धगम् ॥ २७॥ ततो ब्रह्मशरीरन्तु त्रिधा चक्रे महेश्वरः । प्रधानेच्छावशाच्छम्भौ त्रिगुणत्रिगुणीकृतम् ॥ २८॥ तदूर्ध्वभागः सञ्जातश्चतुर्वक्त्रश्चतुर्भुजः । पद्मकेशरगौराङ्गकायो ब्राह्मो महेश्वरः ॥ २९॥ तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः । शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः ॥ ३०॥ अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः । स्फटिकाभ्रसमः शुक्लः सकायश्चन्द्रशेखर ॥ ३१॥ इतस्ततो ब्राह्मकाये सृष्टिशक्तिं न्ययोजयत् । स्वयमेवाभवत् सष्टा ब्रह्मरूपेण लोकभृत् ॥ ३२॥ स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययोजयत् । महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा ॥ ३३॥ स्थितिकर्ताभवद्विष्णुरहमेव महेश्वरः । सर्वशक्तिनियोगेन सदा तद्रूपता मम ॥ ३४॥ अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् । अन्तशक्तिं तथाकाये शाम्भवे च न्ययोजयत् ॥ ३५॥ अन्तकर्ताभवच्छम्भुः स एव परमेश्वरः । ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते ॥ ३६॥ ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः । सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः ॥ ३७॥ ब्रह्मा विष्णुः शिवश्चेति संज्ञामाप पृथक् पृथक् । अतस्त्वञ्च विधाता च तथाहमपि न पृथक् । एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम् ॥ ३८॥ मार्कण्डेय उवाच - एतच्छ्रुत्वा वचस्तस्य विष्णोरमिततेजसः । हर्षोतफुल्लमुखः प्रोचे पुनरेव जनार्दनम् ॥ ३९॥ ईश्वर उवाच - एक एव महेशशेत् ज्योतीरूपो निरञ्जनः । का वा मायाथ कः कालः का वा प्रकृतिरुच्यते ॥ ४०॥ के पुमांसस्ततोऽभिन्ना भिन्नाश्चेत् कथमेकता । तन्मे वदस्व गोविन्द तत्प्रभावं यथागतम् ॥ ४१॥ श्रीभगवानुवाच - त्वमेव पश्यसि सदा ध्यानस्थः परमेश्वरम् । आत्मन्यात्मस्वरूपं मज्ज्योतीरूपं सदक्षरम् ॥ ४२॥ मायाञ्च प्रकृतिं कालं पुरुषञ्च स्वयं विभो । ज्ञाता त्वं ध्यानयोगेन यस्माद्ध्यानपरो भव ॥ ४३॥ मायया मोहितो यस्मादधुना त्वम्मदीयया । ततो विस्मृत्य परमं ज्योतिर्हि वनितारतः ॥ ४४॥ अधुना कोपयुक्तस्त्वं विस्मृत्यात्मानमात्मनि । यां पच्छसि प्रकृत्यादिरूपाणि प्रथमाधिप ॥ ४५॥ मार्कण्डेय उवाच - ततस्तत्र महादेवः श्रुत्वा वाक्यं सुनिश्चितम् । मुनीनां पश्यतां योगयुक्तो ध्यानपरोऽभवत् ॥ ४६॥ आसाद्य बद्धपर्यङ्कं निर्निमीलितलोचनः । आत्मानञ्चिन्तयामास तदात्मनि महेश्वरः ॥ ४७॥ परं चिन्तयतस्तस्य शरीरं विबभौ शुभम् । तेजोभिरुज्ज्वलं द्रष्टुं नशेकुर्मुनयस्तदा ॥ ४८॥ तत्क्षणात् ध्यानयुक्तश्च शम्भुः स विष्णुमायया । परित्यक्तोऽति विबभौ तपस्तेजोभिरुज्ज्वलः ॥ ४९॥ ये ये गणास्तदा तस्थुः सेवया शङ्करान्तिके । न तेऽपि वीक्षितुं शेकुः शङ्करं वा दिवाकरम् ॥ ५०॥ स्वयमेव तदा विष्णुः समाधिमनासो भृशम् । प्रविवेश शरीरान्तर्ज्योतीरूपेण धूर्जटेः ॥ ५१॥ प्रविश्य तस्य जठरे यथा सृष्टिक्रमः पुरा । तथैव दर्शयामास स्वयं नारायणोऽव्ययः ॥ ५२॥ न स्थूलं न च सूक्ष्मञ्च न विशेषणगोचरम् । नित्यानन्दं निरानन्दमेकं शुद्धमतीन्द्रियम् ॥ ५३॥ अदृश्यं सर्वद्रष्टारं निर्गुणं परमं पदम् । परमात्मानमानन्दं जगत्कारणकारणम् ॥ ५४॥ प्रथमं ददृशे शम्भुरात्मानं तत्स्वरूपिणम् । तत्र प्रविष्टमनसा बहिर्ज्ञानविवर्जितः ॥ ५५॥ तस्यैव रूपं प्रकृतिं सृष्ट्यर्थे भिन्नतां गताम् । ददर्श तस्यैवाभ्यासे पृथग्भूतामिवैकिकाम् ॥ ५६॥ पुरुषांश्च ददर्शासौ यथैव वसतस्ततः । अग्नेरिव कणात् स्थूलादजस्रं द्विजसत्तमाः ॥ ५७॥ तदेव कालरूपेण भासते च मुहुर्मुहुः । सृष्टिस्थित्यन्तयोगानामवच्छेदेन कारणम् ॥ ५८॥ प्रकृतिः पुरुषश्चैव कालोऽपि च मुहुर्मुहुः । अभिन्नान् भासमानांश्च सर्गार्थे भिन्नतां गताम् ॥ ५९॥ पृथग्भूतानभिन्नांश्च ददृशे चन्द्रशेखरः । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ६०॥ सप्रधानस्वरूपेण कालरूपेण भासते । तथापुरुषरूपेण संसारार्थं प्रवर्तते ॥ ६१॥ भोगार्थं प्राणिनां शश्वच्छरीरे च प्रवर्तते । सैव माया या प्रकृति सा मोहयति शङ्करम् ॥ ६२॥ हरिं तथा विरिञ्चिञ्च तथैवान्यजनुर्भवान् । मायाख्या प्रकृतिर्जाता जन्तुं सन्मोहयत्यपि ॥ ६३॥ सा स्त्रीरूपेण च सदा लक्ष्मीभूता हरेः प्रिया । सा सावित्री रतिः सन्ध्या सा सती सैव वीरिणी ॥ ६४॥ बुद्धिरूपा स्वयं देवी चण्डिकेति च गीयते । इति स्वयं ददर्शाशु ध्यानमार्गगतो हरः ॥ ६५॥ महदादि प्रभेदेन तथा सृष्टिक्रमं स्वयम् ॥ ६६॥ दर्शयित्वा हरिः कालं प्रकृतिं पुरुषांस्तथा । तथान्यद्दर्शयामास तच्छरीरं द्विजोत्तमाः ॥ ६७॥ इति श्रीकालिकापुराणे त्रिदेवानामानन्यत्वप्रतिपादेन द्वादशोऽध्यायः । Proofread by PSA Easwaran
% Text title            : Tridevanam Ananyatva Pratipadanam
% File name             : tridevAnAmAnanyatvapratipAdanaM.itx
% itxtitle              : tridevAnAmananyatvapratipAdanaM (kAlikApurANAntargatam)
% engtitle              : tridevAnAm ananyatva pratipAdanaM
% Category              : deities_misc, shiva, vishhnu
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 12 shloka 1-67
% Indexextra            : (Parts 1, 2)
% Latest update         : January 15, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org