श्रीतुरीयानन्दप्रशस्तिप्रणामाञ्जलिः
श्रोत्रियकुलमलङ्कुर्वाणो हि नैकष्यकुलीनात्मजः स्वयम् ।
बभूव किलान्वर्थनामासौ रामकृष्ण-पार्षद-हरिनाथः ॥ १॥
उत्तमः-श्लोकः श्रीहरिरेव रामकृष्ण-मूर्तिर्हि साम्प्रतम् ।
यदीयनाथत्वेनावश्यं सार्थकनामाभूत् स योगिराट् ॥ २॥
कलिकातायां लब्धजनुरसौ नैष्ठिकब्राह्मणाचाररतः ।
विद्या-विनय-सम्पन्नश्चैव शास्त्रव्यसनी वै तथानिशम् ॥ ३॥
``ब्रह्म सत्यं हि जगन्मिथ्ये'ति श्रुत्वा सर्ववेदान्तसारम् ।
श्रीरामकृष्ण-वक्तृ-निःसृतं प्राभून्नूनं ब्रह्मतत्त्ववित् ॥ ४॥
अत्याश्रमी स जग्राह नाम सदासङ्गं तु चरमार्थवाची ।
सच्चिदानन्दतत्त्वे तस्मिन् निमग्नो भृशं नु सुसमाहितः ॥ ५॥
सशल्याः कारिता विस्फोटाः सुतरां येन विकारशून्येन ।
चितिर्हि भिन्ना देहादिभ्यः सत्यं खल्विति दृढ़ प्रत्ययात् ॥ ६॥
आत्मा स्वतन्त्रः पृथग्भूतो देहादिसङ्घाताद् वै ध्रुवम् ।
इति स्फुटं प्रदर्शितं येन तं नमामि हि तुरीयानन्दम् ॥ ७॥
तुरीये पर आनन्दो यस्य तूपाधिवर्जिते चिदात्मके ।
तं तुरीयानन्दमाचार्यं ``विवेक'-प्रियं भक्त्या नमामि ॥ ८॥
अद्वैतदृष्ट्या सहि ``नेति'' वादीत्यतो जगन्नैवतु वस्तुतः सत् ।
दृष्ट्यान्यया ब्रह्म तथा जगद्वै सत्यं न मिथ्येति सुभाषमाणः ॥ ९॥
आसीत् स खलु वेदान्तः प्रमूर्तो रक्तमांसयुक् ।
लीलावादमथाश्रित्य जीवसेवाव्रती महान् ॥ १०॥
विवेक-स्नेह-सन्नद्धो गत ऊर्व्यास्तु पश्चिमम् ।
दर्शितवान् स्वकं दिव्यं वैदान्तिकं हि जीवनम् ॥ ११॥
धन्य-धन्यः सुधन्योऽसौ यमिनां मूर्ध्नि संस्थितः ।
तं ``तुरीयं'' ``सनाथं'' वै प्रणमामि मुहुर्मुहुः ॥ १२॥
इति प्राध्यापकपाँचुगोपालबन्द्योपाध्याय विरचितः
``श्रीमत्तुरीयानन्दप्रशस्तिप्रणामाञ्जलिः'' समाप्ता ।
Proofread by Aruna Narayanan