उलूकिकृतं यमस्तोत्रम् ५
उलूक्युवाच ।
त्वद्भीता अनुद्रवन्ते जनास्त्वद्भीता ब्रह्मचर्यं चरन्ति ।
त्वद्भीताः साधु चरन्ति धीरास्त्वद्भीताः कर्मनिष्ठा भवन्ति ॥ २३॥
त्वद्भीता अनाशकमाचरन्ति ग्रामादरण्यमभि यच्चरन्ति ।
त्वद्भीताः सौम्यतामाश्रयन्ते त्वद्भीताः सोमपानं भजन्ते ।
त्वद्भीताश्चान्नगोदाननिष्ठास्त्वद्भीता ब्रह्मवादं वदन्ति ॥ २४॥
इति ब्रह्मपुराणे पञचविंशाधिकशततमाध्यायान्तर्गतं
उलूकिकृतं यमस्तत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय १२५/२३-२४॥
brahmapurANa . adhyAya 125/23-24..
Proofread by PSA Easwaran