वाल्मीकिप्रशंसा
ज्येष्ठो जयति वाल्मीकिः सर्गबन्धे प्रजापतिः ।
यः सर्वहृदयालीनं काव्यं रामायणं व्यधात् ॥ १॥
स्वच्छप्रवाहसुभगा मुनिमण्डलसेविता ।
यस्मात् स्वर्गादिवोत्पन्ना पुण्या प्राची सरस्वती ॥ २॥
नुमः सर्वोपजीव्यं तं कवीनां चक्रवर्तिनम् ।
यस्येन्दुधवलैः श्लौकैर्भूषिता भुवनत्रयी ॥ ३॥
स वः पुनातु वाल्मीकेः सूक्तामृतमहोदधिः ।
ओङ्कार इव वर्णानां कवीनां प्रथमो मुनिः ॥ ४॥
इति क्षेमेन्द्रविरचितायां रामायणमञ्जर्यां वाल्मीकिप्रशंसा समाप्ता ।
पृ।१ श्लो २-४, पृ.५०९, श्लो.२
Encoded and proofread by M N Ramanuja