श्रीवल्लभनामावली

श्रीवल्लभनामावली

अविर्भाव-प्रकरणम् १। श्रीवल्लभाय नमः । २। सदानन्दाय नमः । ३। सच्चिदानन्दविग्रहाय नमः । ४। दैवोद्धारप्रयत्नात्मने नमः । ५। प्राकट्यानन्ददायकाय नमः । ६। देवश्रीलक्ष्मणसुताय नमः । ७। परमानन्दवर्द्धनाय नमः । ८। श्रीमदिल्लमगारुप्राक्पुष्कलेन्दवे नमः । ९। अखण्डिताय नमः । १०। चम्पारण्यवनस्थानाविर्भावानन्दकारकाय नमः । ११। अग्नये नमः । १२। लीलाब्धिजनकाय नमः । १३। श्रीकृष्णास्याय नमः । १४। कृपानिधये नमः । १५। अद्भुतस्वीयशिशुताजनन्यानन्दकारकाय नमः । १६। बाललीलातिसुखदाय नमः । १७। जनन्युत्सङ्गलालिताय नमः । १८। परमोदारचरिताय नमः । १९। जनतारतिवर्द्धनाय नमः । २०। स्वलीलाश्रवणात्यन्तशुद्धाश्यायवशंवदाय नमः । २१। स्वयशोगानसंहृष्टहृदयाम्भोजविष्टराय नमः । २२। अतिसौन्दर्यनिकरप्राप्तकौमारशोभनाय नमः । २३। पञ्चमाब्दोपनयनाय नमः । २४। गायत्रीव्रतधारकाय नमः । २५। गुरुब्रह्मकुलावासंज्ञापिताखिलसत्क्रियाय नमः । २६। सकृन्निगदसम्प्राप्तसर्वविद्याविशारदाय नमः । २७। महातेजःप्रकटनाय नमः । २८। महामाहात्म्यदर्शकाय नमः । २९। सर्वरम्याय नमः । ३०। भावगम्याय नमः । ३१। पितृकीर्तिविवर्द्धनाय नमः । ३२। ब्रह्मानन्दरसासक्ततातभक्तिपरायणाय नमः । विजय-प्रकरणम् । ३३। भक्तिमार्गप्रचारार्थविद्यानगरपावनाय नमः । ३४। कृष्णदेवाख्यसद्राजसमाचरणधारकाय नमः । ३५। स्वरूपानन्तशोभाढ्याय नमः । ३६। सर्वलोकैकपावनाय नमः । ३७। स्वदर्शनसुधासिक्तराजसौभाग्यवर्द्धनाय नमः । ३८। अत्युत्तममणिव्रातहेमसिंहासनस्थिताय नमः । ३९। उग्रप्रतापाय नमः । ४०। सर्वेशाय नमः । ४१। नमन्नृपतिमण्डलाय नमः । ४२। अनेकभूतिशोभाढ्याय नमः । ४३। चराचरनमस्कृताय नमः । ४४। विद्वज्जनपरीवारमण्डिताय नमः । ४५। अखिलमण्डिताय नमः । ४६- अनल्पसङ्कल्पजल्पवादश्रवणसादराय नमः । ४७। अनेकमतसन्देहनिराकर्त्रे नमः । ४८। निराकुलाय नमः । ४९। नवनीरदगम्भीरध्वनये नमः । ५०। उल्लसिताखिलाय नमः । ५१। अखण्डपण्डितव्रातप्रोद्यत्पाखण्डनाय नमः । ५२। निवारिततमःपुञ्जजगदान्ध्यनिवर्तकाय नमः । ५३। मायावादनिराकर्त्रे नमः । ५४। सर्ववादनिरासकृते नमः । ५५। साकारब्रह्मवादैकस्थापकाय नमः । ५६। वेदपारगाय नमः । ५७। सर्वस्तुत्याय नमः । ५८। अभिसङ्गम्याय नमः । ५९। वेदमूर्तये नमः । ६०। शिवङ्कराय नमः । ६१। विजयोत्सवसाद्यन्तदेवराजप्रसादकृते नमः । ६२। अत्यादरसमानीतकनकस्थानशोभिताय नमः । ६३। जयादिमङ्गलोद्घोषविद्वज्जनसमादृताय नमः । ६४। अदेयदानदक्षाय नमः । ६५। महोदारचरित्रवते नमः । । भक्तिप्रस्तावप्रकरणम् । ६६। पुण्डरीकवरेण्यश्रीविठ्ठलप्रेक्षणोत्सुकाय नमः । ६७। तद्दर्शनमहानन्दाय नमः । ६८। प्राप्तान्योन्यमनोरथाय नमः । ६९। चन्द्रभागोपकण्ठस्वस्थितितत्कीर्तिवर्द्धनाय नमः । ७०। पाण्डुरङ्गेशपरमोदारेक्षण कृतक्षणाय नमः । ७१। स्वानन्दतुन्दिलाय नमः । ७२। पद्मदलायतविलोचनाय नमः । ७३। अचिन्त्यानन्तरूपाय नमः । ७४। सन्मनुष्याकृतये नमः । ७५। अच्युताय नमः । ७६। भक्तेच्छापूरकाय नमः । ७७। सर्वाज्ञातलीलाय नमः । ७८। अतिमोहनाय नमः । ७९। स्वार्थोज्झिताखिलप्राणप्रियाय नमः । ८०। तादृशवेष्टिताय नमः । ८१। अनेकदेशसञ्चारपवित्रीकतभूतलाय नमः । ८२। ध्वजवज्राङ्कुशादिश्रीकृतभूमिमहोत्सवाय नमः । ८३। त्रिलोकीभूषणाय नमः । ८४। भूमिभाग्याय नमः । ८५। सहजसुन्दराय नमः । ८६। भक्तिमार्गाङ्गशरणमन्त्रतत्त्वोपदेशकाय नमः । ८७। अन्याश्रयनिराकर्त्रे नमः । ८८। भक्तिक्षेत्रविशुद्धिकृते नमः । ८९। ब्रह्मसम्बन्धकृज्जीवसर्वदोषनिवारकाय नमः । ९०। पञ्चाक्षरमहामन्त्रविरहात्मफलप्रदाय नमः । ९१। पृथक्शरणमार्गोपदेष्ट्रे नमः । ९२। श्रीकृष्णहार्दविदे नमः । ९३। दिङ्मूढजनताभीतिनिवारणपराय नमः । ९४। गुरुवे नमः । ९५। निजशिक्षार्थश्रीकृष्णभक्तिकृते नमः । ९६। निखिलेष्टदाय नमः । ९७। स्वसिद्धान्तप्रबोधार्थानेकग्रन्थप्रवर्तकाय नमः । ९८। व्याससूत्राणुभाष्योक्तिवेदान्तार्थप्रकाशकाय नमः । ९९। भक्तिमार्गाविरुद्धैकसिद्धान्तपरिशोधकाय नमः । १००। जैमिनीयसूत्रभाष्यवक्त्रे नमः । १०१। वेदार्थदर्शकाय नमः । १०२। वैयासजैमिनीयोक्तप्रमेयैकार्थ्यवित्तमाय नमः । वादग्रन्धः । १०३। पत्रावलम्बनकृतये नमः । १०४। वादिसन्देहवारकाय नमः । १०५। काशीस्थलालङ्करणाय नमः । श्रीभागवतविषयकसाहित्यम् । १०६। विश्वेशप्रीतिकारकाय नमः । १०७। श्रीभागवततत्त्वार्थदीपप्राकट्यकारकाय नमः । १०८। स्वान्तध्वान्तनिराकर्त्रे नमः । १०९। प्रकाशसुखदायकाय नमः । ११०। सच्चिदानन्दसन्दोह-शास्त्रार्थविनिरूपकाय नमः । १११। मनोवाक्कायकर्तव्यसेवातत्त्वप्रकाशकाय नमःन् । ११२। मुख्यसिद्धान्तशुद्‍ध्यर्थसर्वनिर्णयदर्शकाय नमः । ११३। प्रमाणादितत्त्वरूपपदार्थपरिशोधकाय नमः । ११४। भक्तिमार्गीयभगवत्सेवारीतिप्रकाशकाय नमः । ११५। श्रीभागवतरूपाख्यप्रक्रियाविनिरूपाकय नमः । ११६। शास्त्रस्कन्धप्रकरणाध्यायार्थपरिशोधकाय नमः । ११७। श्रीभागवतसारार्थनामसाहस्रदर्शकाय नमः । ११८। त्रिधालीलाप्रकाशश्रीकृष्णनामावलीप्रियाय नमः । ११९। निरोधार्थानुसन्धानकृतेऽनुक्रमदर्शकाय नमः । षोडशग्रन्थाः । १२०। कलिदोषाप्रवेशार्थकृष्णाश्रयनिरूपकाय नमः । १२१। प्रतिबन्धनिरासार्थयमुनाष्टकदर्शकाय नमः । १२२। समस्तसिद्धान्तमुक्तावलीग्रन्धनिरूपकाय नमः । १२३। सेवोपयिकसिद्धान्तरहस्यप्रतिपादकाय नमः । १२४। भक्तचिन्तानिरासार्थनवरत्नप्रकाशकाय नमः । १२५। अन्तःकरणबोधोक्तिस्वीयशिक्षाप्रदर्शकाय नमः । १२६। कृष्णाङ्गीकारविषयोत्कटसन्देहवारकाय नमः । १२७। सेवोत्कर्षप्रकाशार्थसेवाफलनिरूपकाय नमः । १२८। सेव्यनिर्द्धारसिद्‍ध्यर्थबालबोधप्रकाशकाय नमः । १२९। सेव्यस्वरूपोत्कर्षार्थमधुराष्टकदर्शकाय नमः । १३०। पुष्टिप्रवाहमर्यादामार्गत्रयविवेचकाय नमः । १३१। सर्वेन्द्रियनिरोधार्थतल्लक्षणनिरूपकाय नमः । १३२। बीजदार्ढ्यप्रकारेण भक्तिवर्द्धिन्युपायकृते नमः । १३३। विवेकधैर्याश्रयकृते नमः । १३४। बाहिर्मुख्यनिवारकाय नमः । १३५। सदसद्भवबोधार्थजलभेदनिरूपकाय नमः । १३६। दुःसङ्गाभावसत्सङ्गकारकाय नमः । १३७। करुणालयाय नमः । १३८। विरहानुभवार्थैकसन्न्यासाचारदर्शकाय नमः । १३९। भजनावश्यकत्वार्थचतुःश्लोकीप्रकाशकाय नमः । १४०। यशोदोत्सङ्गललितप्रभुसेवैकतत्पराय नमः । १४१। विस्कद्भर्जद्रासलीलादिरसामृतमहर्ष्णवाय नमः । १४२। निर्दोषगुणरत्नाढ्याय नमः । १४३। भावनान्तमहोर्मिमते नमः । १४४। कृष्णेन्दुविशदालोकपरमानन्दवर्द्धनाय नमः । १४५। स्वदासार्थकृताशेषसाधनाय नमः । १४६। सर्वशक्तिधृते नमः । फलप्रदर्शकप्रकरणम् । १४७। नित्यं प्रियव्रजस्थितये नमः । १४८ व्रजनाथाय नमः । १४९। व्रजार्तिभिदे नमः । १५०। व्रजीयजनजीवातवे नमः । १५१। व्रजमाहत्म्यदर्शकाय नमः । १५२। व्रजलीलाभावनात्मने नमः । १५३। श्रीगोपीजनवल्लभाय नमः । १५४। गो-गोप-गोपीषु प्रीताय नमः । १५५। गोकुलोत्सवाय नमः । १५६। उद्धवाय नमः । १५७। गोवर्द्धनाद्रिप्रवरप्रेक्षणातिमहोत्सवाय नमः । १५८। गोवर्द्धनस्थित्युत्साहाय नमः । १५९। तल्लीलाप्रेमपूरिताय नमः । १६०। श‍ृङ्गद्रोणीकन्दरादिकेलीस्थानप्रकाशकाय नमः । १६१। द्रुमपुष्पलतागुल्मदर्शनप्रीतमानसाय नमः । १६२। गह्वरप्रायदेशाढ्यगिरिकेलिकलोत्सवाय नमः । १६३। गोवर्द्धनाचलसखाय नमः । १६४। अनेकधा प्रीतिकारकाय नमः । १६५। हरिदाससर्वसेवासादराय नमः । १६६। हार्दवित्तमाय नमः । १६७। गोवर्द्धनाचलारूढाय नमः । १६८। स्मृताचलशिरोमणये नमः । १६९। सन्मुखस्वागतश्रीमद्गोवर्द्धनधराय नमः । १७०। प्रियाय नमः । १७१। अन्योन्ययोजितकराय नमः । १७२। हसद्वदनपङ्कजाय नमः । १७३। सूक्तिसारसुधावृष्टिस्वानन्दितव्रजाधिपाय नमः । १७४। श्रीगोवर्द्धनानुमतोत्तमाधिष्ठानकारकाय नमः । १७५। प्रसन्नाम्बुजसङ्काशकलशानन्दिताखिलाय नमः । १७६। कुङ्कुम्मारुणरागातिविलक्षणरसप्रदाय नमः । १७७। चतुर्दिग्दृष्टिमृगराड् बद्धस्थापनतत्त्वविदे नमः । १७८। सुदर्शननिरस्तार्तिप्रतिपक्षमहासुराय नमः । १७९। समुल्लसत्प्रेमपूरनानाध्वजवरप्रियाय नमः । १८०। निगूढनिजकुञ्जस्थमन्दिरस्थापितप्रभवे नमः । १८१। वृन्दावनप्रियतमाय नमः । १८२। वृन्दारण्यपुरन्दराय नमः । १८३। वृन्दावनेन्दुसेवैकप्रकारसुखदायकाय नमः । १८४। कृष्णकुम्भनदासादिलीलापरिकरावृताय नमः । १८५। गानस्वानन्दितश्रीमन्नन्दराजकुमारकाय नमः । १८६। सप्रेमनवधाभक्तिप्रचाराचरणक्षमाय नमः । १८७। देवाधिदेवस्वप्रेष्ठप्रियवस्तूपनायकाय नमः । १८८। बाल्यकौमारपौगण्डकैशोरचरितप्रियाय नमः । १८९। वशीकृतनिजस्वामिने नमः । १९०। प्रेमपूरपयोनिधये नमः । १९१। मथुरास्थितिसानन्दाय नमः । १९२। विश्रान्तस्वाश्रमप्रियाय नमः । १९३। यमुनादर्शनानन्दाय नमः । १९४। यमुनानन्दवर्द्धनाय नमः । १९५। यमुनातीरसंवासरुचये नमः । १९६। तद्रूपवित्तमाय नमः । १९७। यमुनानन्तभावात्मने नमः । १९८। तन्माहात्म्यप्रदर्शकाय नमः । १९९। अनन्यसेवितपदाय नमः । २००। स्वानन्यजनवत्सलाय नमः । २०१। सेवकानन्तसुखदाय नमः । २०२। अनन्यभक्तिप्रदायकाय नमः । जीवनप्रपत्तिः । २०३। कृष्णाज्ञापालनार्थस्वगृहस्थाश्रमदर्शकाय नमः । २०४। महालक्ष्मीप्राणपतये नमः । २०५। सर्वसौभाग्यवर्द्धनाय नमः । २०६। श्रुतिस्मृतिसदाचारपालनैकपरायणाय नमः । २०७। मर्यादास्थापनपराय नमः । २०८। कर्ममार्गप्रवर्तकाय नमः । २०९ कर्मस्वरूपवक्त्रे नमः । २१०। अनुष्ठानकृते नमः । २११। जनशिक्षकाय नमः । २१२। आधिदैविकसर्वाङ्गयज्ञकृते नमः । २१३। यज्ञपूरुषाय नमः । २१४। मूलमाहात्म्यबोधार्थविभूत्युत्कर्षपोषकाय नमः । २१५। ब्रह्मण्यदेवाय नमः । २१६। धर्मात्मने नमः । २१७। सर्वधर्मप्रवर्तकाय नमः । २१८। स्वाविर्भावितसन्मार्गप्रचारार्थस्ववंशकृते नमः । २१९। श्रीगोपीनाथजनकाय नमः । २२०। विश्वमङ्गलकारकाय नमः । २२१। दयानिधिविभुश्रीमद्विठ्ठलप्रियपुत्रवते नमः । २२२। जन्मोत्सवमहोत्साहाय नमः । २२३। स्मार्तसंस्कारसादराय नमः । २२४। प्रदर्शितनिजाचाराय नमः । २२५। सर्वधर्मैकपालकाय नमः । श्रीगोसा‍ईजी-ग्रन्थप्रवृत्तिः । २२६। स्वकीयापरमूर्तिश्रीविठ्ठलेशकृतिप्रियाय नमः । २२७। भाष्यादिशेषसम्पूर्तिपरमोत्कर्षमोदकाय नमः । २२८। सुबोधिनीदुरूहोक्तिव्याख्यानप्रीतमानसाय नमः । २२९। निगूढस्वाशयगतस्वतन्त्रार्थप्रियप्रियाय नमः । २३०। स्वरूपगुणनामोक्तिस्वीयसौभाग्यवर्द्धनाय नमः । २३१। विद्वन्मण्डनवादोक्तिपरपक्षनिरासकृते नमः । ब्रह्मस्वरूपनिर्णयः । २३२। सोपाधिब्रह्मवादार्थनिराकरणपण्डिताय नमः । २३३। अप्राकृतानन्तगुणाधारब्रह्यस्वरूपविदे नमः । २३४। सामान्यप्राकृतगुणानाश्रयत्वप्रकाशकाय नमः । २३५। विरुद्धधर्माधारत्वस्थापनैकप्रयत्नकृते नमः । २३६। असम्भवनिरासार्थानन्तानिर्वाच्यशक्तिविदे नमः । २३७। प्राकृतेन्द्रियसामर्थ्यसुखवेद्यत्ववित्तमाय नमः । २३८। भगवद्दत्तसामर्थ्यसुखवेद्यत्ववित्तमाय नमः । २३९। तर्कशास्त्रोक्तसिद्धान्तनिरासवरयुक्तिमते नमः । जीवनस्वरूपनिर्णयः । २४०। सोपाधिजीववादैकनिराकर्त्रे नमः । २४१। महाशयाय नमः । २४२। आत्मव्यापकतातर्कपराहतविचक्षणाय नमः । २४३। श्रुतिसूत्रादिसंसिद्धजीवाणुत्वप्रदर्शकाय नमः । २४४। चिद्रूपब्रह्मधर्मात्मजीवनित्यत्वदर्शकाय नमः । २४५। भेदवादनिराकर्त्रे नमः । २४६। ब्रह्मांशत्वनिरूपकाय नमः । २४७। नित्यानन्दब्रह्मधर्मधर्म्यभेदप्रकाशकाय नमः । जगत्स्वरूपनिर्णयः । २४८। सद्रूपब्रह्मधर्मात्मजगन्नित्यत्वदर्शकाय नमः । २४९। मिथ्यात्वजन्यतावादाऽवैदिकत्वप्रकाशकाय नमः । २५०। अविद्याकार्यसंसारमिथ्यात्वपरिदर्शकाय नमः । २५१। प्रपञ्चसंसारभिदाप्रदर्शनसुयुक्तिमते नमः । २५२। आविर्भावतिरोभावसिद्धान्तपरिशोधकाय नमः । २५३। मूलेच्छाशक्तिसर्वार्थसामञ्जस्य प्रदर्शकाय नमः । २५४। कार्यप्रपञ्चभगवद्विभूत्यात्मत्वदर्शकाय नमः । लीलासृष्टिनिरूपणम् । २५५। लीलाप्रपञ्चभगवत्स्वरूपात्मवित्तमाय नमः । २५६। द्वारिकामथुरागोष्ठलीलानित्यत्वदर्शकाय नमः । २५७। वृन्दावनगोवर्द्धनकालिन्दीकेलिकौतुकाय नमः । २५८। अन्यथाभानसञ्जातसन्देहविनिवारकाय नमः । २५९। श्रुतिदृष्टान्तरचनाविस्पष्टार्थनिरूपकाय नमः । २६०। श्रुतिस्मृतिवरप्राप्तिप्रकारपरिदर्शकाय नमः । २६१। श‍ृङ्गाररसरूपत्वस्थापनातिविशारदाय नमः । २६२। अनेकनित्यनामात्मक्रियावद्ब्रह्मदर्शकाय नमः । २६३। अत्यनुग्रहवद्भक्तनित्यलीलाप्रवेशविदे नमः । २६४। आसुरव्यामोहलीलावश्यकत्वनिदानविदे नमः । २६५। मायैकमूलभगवद्विमोहकचरित्रविदे नमः । २६६ निर्दोषानन्दरूपैककृष्णतत्त्वप्रकाशकाय नमः । २६७। स्फुरद्विहृतिनित्यत्वभावनानन्ददायकाय नमः । भक्तिहंसोक्त-सिद्धान्त-निरूपणम् । २६८। भक्त्युपास्तिविवेकार्थभक्तिहंसप्रकाशकाय नमः । २६९। मन्त्राद्यगम्यभक्त्येकगम्यश्रीकृष्णरूपविदे नमः । भक्तिहेतुग्रन्थ-निरूपणम् । २७०। अनुग्रहविमर्शार्थभक्तिहेतुप्रकाशकाय नमः । २७१। कृष्णानुग्रहलभ्यैकभक्तितत्त्वप्रकाशकाय नमः । २७२। मर्यादानुगृहीतात्मभक्त्यर्थाचारदर्शकाय नमः । २७३। पुष्ट्यनुग्रहवद्भक्तधर्मान्तरनिषेधविदे नमः । पुरुषोत्तमप्रतिष्ठाप्रकारादिग्रन्थनिरूपणम्- । २७४। भक्तिमार्गीयभगवत्प्रतिष्ठारीतिबोधकाय नमः । २७५। कृष्णजन्माष्टमीरामनवमीव्रतशोधकाय नमः । २७६। मुक्तावलीप्रकाशोक्तिसिद्धान्तपरिशोधकाय नमः । २७७। नवरत्नप्रकाशोक्तिचिन्तासन्ताननाशकायन मः । २७८। न्यासादेशीयविवृतिधर्मत्यागोक्तिचिन्तकाय नमः । २७९। जीवन्मुक्तितारतम्यसिद्धान्तपरिशोधकाय नमः । २८०। गीतातात्पर्यसद्वक्त्रे नमः । २८१। गायत्र्यर्थप्रकाशकाय नमः । २८२। मुख्यश्रीस्वामिनीकेलीश‍ृङ्गारोल्लासदर्शकाय नमः । २८३। स्वामिनीप्रार्थनास्तोत्रनानाभावविभावकाय नमः । २८४। स्वामिन्यष्टकगूढोक्तिमार्गतत्त्वप्रकाशकाय नमः । २८५। प्रेमामृतरसास्वादानुपानपरिदर्शकाय नमः । २८६। उक्तान्यपूर्वश‍ृङ्गारदानलीलाप्रकाशकाय नमः । २८७। कुमारिकानन्यसिद्धव्रतचर्यानिरूपकाय नमःन् । २८८। तदेकरससर्वस्वनिभृतात्मने नमः । २८९। रसार्णवाय नमः । २९०। यमुनास्तोत्रविवृतितुर्यशक्तिप्रकाशकाय नमः । २९१। सकृष्णयमुनाभाववर्द्धिन्यष्टपदीप्रियाय नमः । २९२। चौरचर्यागुप्तरसानन्दभावनिरूपकाय नमः । २९३। रूपामृतैकचषकत्रिभङ्गललितप्रियाय नमः । २९४। दशावताराष्टपदीश‍ृङ्गारार्थत्वदर्शकाय नमः । २९५। श‍ृङ्गाररससन्दर्भासङ्गतत्त्वनिरासकाय नमः । २९६। प्रबोधगद्यरचनाप्रत्यहश्रवणोत्सुकाय नमः । २९७। मङ्गलाखिललीलाब्धिकृष्णगानरसप्रदाय नमः । २९८। प्रेङ्खपर्यङ्कशयनगीतनृत्यप्रियङ्कराय नमः । २९९। सदारप्रेष्ठरतिकृत्प्रार्थनागीतभावविदे नमः । ३००। असकृद्गोविन्ददासप्रभृत्यार्यसमन्विताय नमः । ३०१। गोपीपरिवृढस्तोत्रव्रजाधीशरतिप्रदाय नमः । ३०२। व्रजराजार्यतनयप्रीतिकृत्स्तोत्रकीर्तनाय नमः । ३०३। गोकुलोत्कर्षबोधार्थगोकुलाष्टकदर्शकाय नमः । ३०४। श्रीगोकुलसुखावासस्वकीयानन्दवर्द्धनाय नमः । ३०५। श्रीमन्नन्द्रालयक्रीडत्कृष्णलीलाप्रकाशकाय नमः । ३०६। पुत्रपौत्रादिसौभाग्यसेवर्द्धिपरिदर्शकाय नमः । ३०७। श्रीकृष्णसेवाचातुर्यसीम्ने नमः । ३०८। सर्वशिरोमणये नमः । ३०९। संसारसागरोत्तारनौकासत्कर्णधारकाय नमः । ३१०। शरणस्थानन्तजीवापराधदलनक्षमाय नमः । ३११। कृष्णसेवाशिक्षणार्थभक्तिमार्गप्रदर्शकाय नमः । ३१२। मर्यादामार्गविधिना गृहस्थाश्रममास्थिताय नमः । ३१३। दारागारसुताप्तादिसर्वस्वात्मनिवेदकाय नमः । ३१४। वैदिकाचारनिपुणाय नमः । ३१५। दीक्षिताख्याप्रसिद्धिमते नमः । ३१६। षड्गुणैश्वर्यसम्पत्तिराजमानाय नमः । ३१७। सतां पतये नमः । स्वतन्त्रनामानि । ३१८। विठ्ठलेशप्रभावज्ञाय नमः । ३१९। कृतकृत्यतमाय नमः । ३२०। हरये नमः । ३२१। निवृत्तिधर्माभिरताय नमः । ३२२। निजशिक्षापरायणाय नमः । ३२३। भगवद्भक्त्यनुगुणसन्न्यासाचारदर्शकाय नमः । ३२४। अलौकिकमहातेजःपुञ्जरूपप्रकाशकाय नमः । ३२५। नित्यलीलाविहरणाय नमः । ३२६। नित्यरूपप्रकाशवते नमः । ३२७। अदभ्रसौहार्दनिधये नमः । ३२८। सर्वोद्धारविचारकाय नमः । ३२९। शुकवाक्सिन्धुलहरीसारोद्धारविशारदाय नमः । ३३०। श्रीभागवतपीयूषसमुद्रमथनक्षमाय नमः । ३३१। श्रीभागवतप्रत्यर्थमणिप्रवरभूषिताय नमः । ३३२। अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनाय नमः । ३३३। शरणस्थसमुद्धाराय नमः । ३३४। कृपालवे नमः । ३३५। तत्कथाप्रदाय नमः । इति मथुरावासिगोस्वामिश्रीरमणलालजीमहाराजविरचिता श्रीवल्लभनामावली समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vallabhanAmAvalI
% File name             : vallabhanAmAvalI.itx
% itxtitle              : vallabhanAmAvaliH (ramaNalAlajIvirachitA)
% engtitle              : vallabhanAmAvalI
% Category              : deities_misc, gurudev, puShTimArgIya, nAmAvalI, trishatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : ramaNalAlajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org