श्रीवल्लभनामस्तोत्रम्

श्रीवल्लभनामस्तोत्रम्

यत्प्रसादादनायासं सिध्यन्त्यर्था मनीषिणाम् । तन्निजाचार्यनामानि प्रवक्ष्यामि यथामति ॥ १॥ श्रीवल्लभः सदानन्दः सच्चिदानन्दविग्रहः । दैवोद्धारप्रयत्नात्मा प्राकट्यानन्ददायकः ॥ २॥ देवश्रीलक्ष्मणसुतः परमानन्दवर्धनः । श्रीमदिल्लमगारुप्राक् पुष्कलेन्दुरखण्डितः ॥ ३॥ चम्पारण्यवनस्थानाविर्भावानन्दकारकः । अग्निर्लीलाब्घिजनकः श्रीकृष्णास्यं कृपानिधिः ॥ ४॥ अद्भुतस्वीयशिशुताजनन्यानन्दकारकः । बाललीलातिसुखदो जनन्युत्सङ्गलालितः ॥ ५॥ परमोदारचरितो जनतारतिवर्धनः । स्वलीलाश्रवणात्यन्तशुद्धाशयवशंवदः ॥ ६॥ स्वयशोगानसंहृष्टहृदयाम्भोजविष्टरः । अतिसौन्दर्यनिकरप्राप्तकौमारशोभनः ॥ ७॥ पञ्चमाब्दोपनयनो गायत्रीव्रतधारकः । गुरुब्रह्मकुलावासज्ञापिताखिलसत्क्रियः ॥ ८॥ सकृन्निगदसम्प्राप्तसर्वविद्याविशारदः । महातेजः प्रकटनो महामाहात्म्यदर्शकः ॥ ९॥ सर्वरभ्यो भावगम्यः पितृकीर्तिविवर्धनः । ब्रह्मानन्दरसासक्ततातभक्तिपरायणः ॥ १०॥ भक्तिमार्गप्रचारार्थविद्यानगरपावनः । कृष्णदेवाख्यसद्राजसभाचरणधारकः ॥ ११॥ स्वरूपानन्तशोभाढ्यः सर्वलोककैकपावनः । स्वदर्शनसुधासिक्तराजसौभाग्यवर्धनः ॥ १२॥ अत्युत्तममणिव्रातहेमसिंहासनस्थितः । उग्रप्रतापः सर्वेशो नमन्नृपतिमण्डलः ॥ १३॥ अनेकभूतिशोभाढ्यश्चराचरनमस्कृतः । विद्वज्जनपरीवारमण्डितोऽखिलमण्डितः ॥ १४॥ अनल्पसङ्कल्पजल्पवादश्रवणसादरः । अनेकमतसन्देहनिराकर्ता निराकुलः ॥ १५॥ नवनीरदगम्भीरध्वनिरुल्लसिताखिलः । अखण्डपण्डितव्रातप्रोद्यत्पाखण्डखण्डनः ॥ १६॥ निवारिततमःपुञ्जजगदान्ध्यनिवर्तकः । मायावादनिराकर्ता सर्ववादनिरासकृत् ॥ १७॥ साकारब्रह्मवादैकस्थापको वेदपारगः । सर्वस्तुत्योऽभिसङ्गम्यो वेदमूर्तिः शिवङ्करः ॥ १८॥ व्रजयोत्सवसाद्यन्तदेवराजप्रसादकृत् । अत्यादरसमानीतकनकस्नानशोभितः ॥ १९॥ जयादिमङ्गलोद्घोषविद्वज्जनसमादृतः । अदेयदानदक्षश्च महोदारचरित्रवान् ॥ २०॥ पुण्डरीकवरेण्यश्रीविठ्ठलप्रेक्षणोत्सुकः । तद्दर्शनमहानन्दः प्राप्ताऽन्योन्यमनोरथः ॥ २१॥ चन्द्रभागोपकण्ठस्वस्थितितत्कीर्तिवर्धनः । पाण्डुरङ्गेशपरमोदारेक्षणकृतक्षणः ॥ २२॥ स्वानन्दतुन्दिलः पद्मदलायतविलोचनः । अचिन्त्यानन्तरूपः सन्मनुष्याकृतिरच्युतः ॥ २३॥ भक्तेच्छापूरकः सर्वाज्ञातलीलोऽतिमोहनः । स्वार्थोज्झिताखिलप्राणप्रियस्ताद्दशवेष्टितः ॥ २४॥ अनेकदेशसञ्चारपवित्रीकृतभूतलः । ध्वजवज्राङ्कुशादिश्रीकृतभूमिमहोत्सवः ॥ २५॥ त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः । भक्तिमार्गाङ्गशरणमन्त्रतत्त्वोपदेशकः ॥ २६॥ अन्याश्रयनिराकर्ता भक्तिक्षेत्रविशुद्धिकृत् । ब्रह्मसम्बन्धकृज्जीवसर्वदोषनिवारकः ॥ २७॥ पञ्चाक्षरमहामन्त्रविरहात्मफलप्रदः । पृथक्शरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् ॥ २८॥ दिङ्मूढजनताभीतिनिवारणपरो गुरुः । भक्तरक्षार्थश्रीकृष्णभक्तिकृन्निखिलेष्टदः ॥ २९॥ स्वसिद्धान्तप्रबोधार्थानेकग्रन्थप्रवर्तकः । व्याससूत्राणुभाष्योक्तिवेदान्तार्थप्रकाशकः ॥ ३०॥ भक्तिमार्गाविरुद्धैकसिद्धान्तपरिशोधकः । जैमिनीयसूत्रभाष्यवक्ता वेदार्थदर्शकः ॥ ३१॥ वैयासजैमिनीयोक्तप्रमेयैकार्थ्यवित्तमः । पत्रावलम्बनकृतिर्वादिसन्देहवारकः ॥ ३२॥ काशीस्थलालङ्करणं विश्वेशप्रीतिकारकः । श्रीभागवततत्त्वार्थदीपप्राकट्यकारकः ॥ ३३॥ स्वान्तध्वान्तनिराकर्ता प्रकाशसुखदायकः । सच्चिदानन्दसन्दोहशास्त्रार्थविनिरूपकः ॥ ३४॥ मनोवाक्कायकर्तव्यसेवातत्त्वप्रकाशकः । मुख्यसिद्धान्तशुद्ध्यर्थसर्वनिर्णयदर्शकः ॥ ३५॥ प्रमाणादितत्त्वरूपपदार्थपरिशोधकः । भक्तिमार्गीयभगवत्सेवारीतिप्रकाशकः ॥ ३६॥ श्रीभागवतरूपाख्यप्रक्रियाविनिरूपकः । शास्त्रस्कन्धप्रकरणाध्यायार्थपरिशोधकः ॥ ३७॥ श्रीभागवतसारार्थनामसाहस्रदर्शकः । त्रिधालीलाप्रकाशश्रीकृष्णनामावलीप्रियः ॥ ३८॥ निरोधार्थानुसन्धानकृतेऽनुक्रमदर्शकः । कलिदोषाप्रवेशार्थकृष्णाश्रयनिरूपकः ॥ ३९॥ प्रतिबन्धनिरासार्थयमुनाष्टकदर्शकः । समस्तसिद्धान्तमुक्तावलीग्नन्थनिरूपकः ॥ ४०॥ सेवोपयिकसिद्धान्तरहस्यप्रतिपादकः । भक्तचिन्तानिरासार्थनवरत्नप्रकाशकः ॥ ४१॥ अन्तःकरणबोधोक्तिस्वीयशिक्षाप्रदर्शकः । कृष्णाङ्गीकारविषयोत्कटसन्देहवारकः ॥ ४२॥ सेवोत्कर्षप्रकाशार्थसेवाफलनिरूपकः । सेव्यनिर्धारसिद्ध्यर्थबालबोधप्रकाशकः ॥ ४३॥ सेव्यस्वरूपोत्कर्षार्थिमधुराष्टकदर्शकः । पुष्टिप्रवाहमर्यादामार्गत्रयविवेचकः ॥ ४४॥ सर्वेन्द्रियनिरोधार्थतल्लक्षनिरूपकः । बीजदार्ढ्यप्रकारेण भक्तिवर्धिन्युपायकृत् ॥ ४५॥ विवेकधैर्याश्रयकृद्बाहिर्मुख्यनिवारकः । सदसद्भावबोधार्थजलभेदनिरूपकः ॥ ४६॥ दुःसङ्गाभावसत्सङ्गकारकः करुणालयः । विरहानुभवार्थैकसन्न्यासाचारदर्शकः ॥ ४७॥ भजनावश्यकत्वार्थचतुःश्लोकीप्रकाशकः । यशोदोत्सङ्गललितप्रभुसेवैकतत्परः ॥ ४८॥ विस्फूर्जद्रासलीलादिरसामृतमहार्णवः । निर्दोषगुणरत्नाढ्यो भावान्तरमहोर्मिमान् ॥ ४९॥ कृष्णेन्दुविशदालोकपरमानन्दवर्धनः । स्वदासार्थकृताशेषसाधनः सर्वशक्तिधृक् ॥ ५०॥ प्रियव्रजस्थितिर्नित्यं व्रजनाथो व्रजार्तिभित् । व्रजीयजनजीवातुर्व्रजमाहात्म्यदर्शकः ॥ ५१॥ व्रजलीलाभावनात्मा श्रीगोपीजनवल्लभः । गोगोपगोपीषु प्रीतो गोकुलोत्सव उद्धवः ॥ ५२॥ गोवर्द्धनाद्रिप्रवरप्रेक्षणातिमहोत्सवः । गोवर्द्धनस्थित्युत्साहस्तल्लीलाप्रेमपूरितः ॥ ५३॥ श‍ृङ्गद्रोणीकन्दरादिकेलीस्थानप्रकाशकः । द्रुमपुष्पलतागुल्मदर्शनप्रीतमानसः ॥ ५४॥ गह्वरप्रायदेशाढ्यगिरिकेलीकलोत्सवः । गोवर्द्धनाचलसखोऽनेकधाप्रीतिकारकः ॥ ५५॥ हरिदाससर्वसेवासादरो हार्दवित्तमः । गोवर्द्धनाचलारूढः स्मृताचलशिरोमणिः ॥ ५६॥ सन्मुखस्वागतश्रीमद्गोवर्धनधरः प्रियः । अन्योन्ययोजितकरो हसद्वदनपङ्कजः ॥ ५७॥ सूक्तिसारसुधावृष्टिस्वानन्दितव्रजाधिपः । श्रीगोवर्द्धनानुमतोत्तमाधिष्ठानकारकः ॥ ५८॥ प्रसन्नाम्बुजसङ्काशकलशानन्दिताखिलः । कुङ्कुमारुणरागातिविलक्षणरसप्रदः ॥ ५९॥ चतुर्दिग्दृष्टिमृगराड्बद्धस्थपनतत्त्ववित् ॥ सुदर्शननिरस्तातिप्रतिपक्षमहासुरः ॥ ६०॥ समुल्लसत्प्रेमपूरनानाध्वजवरप्रियः । निगूढनिजकुञ्जस्थमन्दिरस्थापितप्रभुः ॥ ६१॥ वृन्दावनप्रियतमो वृन्दारण्यपुरन्दरः । वृन्दावनेन्दुसेवैकप्रकारसुखदायकः ॥ ६२॥ कृष्णकुम्भनदासादिलीलापरिकरावृतः । गानस्वानन्दितश्रीमन्नन्दराजकुमारकः ॥ ६३॥ सप्रेमनवधाभक्तिप्रचाराचरणक्षमः । देवाधिदेवस्वप्रेष्ठप्रियवस्तूपनायकः ॥ ६४॥ बाल्यकौमारपौगण्डकैशोरचरितप्रियः । वशीकृतनिजस्वामीप्रेमपूरपयोनिधिः ॥ ६५॥ मथुरास्थितिसानन्दो विश्रामस्वाश्रमप्रियः । यमुनादर्शनानन्दो यमुनानन्दवर्धनः ॥ ६६॥ यमुनातीरसंवासरुचिस्तद्रूपवित्तमः । यमुनानन्तभावात्मा तन्माहात्म्यप्रदर्शकः ॥ ६७॥ अनन्यसेवितपदः स्वानन्यजनवत्सलः । सेवकानन्तसुखदोऽनन्यभक्तिप्रदायकः ॥ ६८॥ कृष्णाज्ञापालनार्थं स्वगृहस्थाश्रमदर्शकः । महालक्ष्मीप्राणपतिः सर्वसौभाग्यवर्धनः ॥ ६९॥ श्रुतिस्मृतिसदाचारपालनैकपरायणः । मर्यादास्थापनपरः कर्ममार्गप्रवर्तकः ॥ ७०॥ कर्मस्वरूपवक्ताऽनुष्ठानकृज्जनशिक्षकः । आधिदैविकसर्वाङ्गयज्ञकृद्यज्ञपूरुषः ॥ ७१॥ मूलमाहात्म्यबोधार्थविभूत्युत्कर्षपोषकः । ब्रह्मण्यदेवो धर्मात्मा सर्वधर्मप्रवर्तकः ॥ ७२॥ स्वाविर्भावितसन्मार्गप्रचारार्थस्ववंशकृत् । श्रीगोपीनाथजनको विश्वमङ्गलकारकः ॥ ७३॥ दयानिधिर्विभुश्रीमद्विठ्ठलप्रियपुत्रवान् । जन्मोत्सवमहोत्साहः स्मार्तसंस्कारसादरः ॥ ७४॥ प्रदर्शितनिजाचारः सर्वधर्मैकपालकः । स्वकीयापरमूर्तिः श्रीविठ्ठलेशकृतिप्रियः ॥ ७५॥ भाष्यादिशेषसम्पूर्तिपरमोत्कर्षमोदकः । सुबोधिनीदुरूहोक्तिव्याख्यानप्रीतमानसः ॥ ७६॥ निगूढस्वाशयगतस्वतन्त्रार्थप्रियप्रियः । स्वरूपगुणनामोक्तिस्वीयसौभाग्यवर्द्धनः ॥ ७७॥ विद्वन्मण्डनवादोक्तिपरपक्षनिरासकृत् । सोपाधिब्रह्मवादार्थनिराकरणपण्डितः ॥ ७८॥ अप्राकृतानन्तगुणाधारब्रह्मस्वरूपवित् । सामान्यप्राकृतगुणानाश्रयत्वप्रकाशकः ॥ ७९॥ विरुद्धधर्माधारत्वस्थापनैकप्रयत्नकृत् । असम्भवनिरासार्थानन्तानिर्वाच्यशक्तिवित् ॥ ८०॥ प्राकृतेन्द्रियसामर्थ्याव्यवहार्यत्वदर्शकः । भगवद्दत्तसामर्थ्यसुखवेद्यत्ववित्तमः ॥ ८१॥ तर्कशास्त्रोक्तसिद्धान्तनिरासवरयुक्तिमान् । सोपाधिजीववादैकनिराकर्ता महाशयः ॥ ८२॥ आत्मव्यापकतातर्कपराहतविचक्षणः । श्रुतिसूत्रादिसंसिद्धजीवाणुत्वप्रदर्शकः ॥ ८३॥ चिद्रूपब्रह्मधर्मात्मजीवनित्यनिदर्शकः । भेदवादनिराकर्ता ब्रह्मांशत्वनिरूपकः ॥ ८४॥ नित्यानन्दब्रह्मधर्मधर्म्यभेदप्रकाशकः । सद्रूपब्रह्मधर्मात्मजगन्नित्यत्वदर्शकः ॥ ८५॥ मिथ्यात्वजन्यतावादा वैदिकत्वप्रकाशकः । अविद्याकार्यसंसारमिथ्यात्वपरिदर्शकः ॥ ८६॥ प्रपञ्चसंसारभिदाप्रदर्शनसुयुक्तिमान् । आविर्भावतिरोभावसिद्धान्तपरिशोधकः ॥ ८७॥ मूलेच्छाशक्तिसर्वार्थसामञ्जस्य प्रदर्शकः । कार्यप्रपञ्चभगवद्विभूत्यात्मत्वदर्शकः ॥ ८८॥ लीलाप्रपञ्चभगवत्स्वरूपात्मत्ववित्तमः । द्वारिकामथुरागोष्ठलीलानित्यत्वदर्शकः ॥ ८९॥ वृन्दावनगोवर्द्धनकालिन्दीकेलिकौतुकः । अन्यथाभानसञ्जातसन्देहविनिवारकः ॥ ९०॥ श्रुतिदृष्टान्तरचनाविस्पष्टार्थनिरूपकः । श्रुतिस्मृतिवरप्राप्तिप्रकारपरिदर्शकः ॥ ९१॥ श‍ृङ्गाररसरूपत्वस्थापनातिविशारदः । अनेकनित्यनामात्मक्रियावद्ब्रह्मदर्शकः ॥ ९२॥ अत्यनुग्रहवद्भक्तनित्यलीलाप्रवेशवित् । आसुरव्यामोहलीलावश्यकत्वनिदानवित् ॥ ९३॥ मायैकमूलभगवद्विमोहकचरित्रवित् । निर्दोषानन्दरूपैककृष्णतत्त्वप्रकाशकः ॥ ९४॥ स्फुरद्विहृतिनित्यत्वभावनानन्ददायकः । भक्त्युपास्तिविवेकार्थभक्तिहंसप्रकाशकः ॥ ९५॥ मन्त्राद्यगम्यभक्त्येकगम्यश्रीकृष्णरूपवित् । अनुग्रहविमर्शार्थभक्तिहेतुप्रकाशकः ॥ ९६॥ कृष्णानुग्रहलभ्यैकभक्तितत्त्वप्रकाशकः । मर्यादानुगृहीतात्मभक्त्यर्थाचारदर्शकः ॥ ९७॥ पुष्ट्यनुग्रहवद्भक्तधर्मान्तरनिषेधवित् । भक्तिमार्गीयभगवत्प्रतिष्ठारीतिबोधकः ॥ ९८॥ कृष्णजन्माष्टमीरामनवमीव्रतशोधकः । मुक्तावलीप्रकाशोक्तिसिद्धान्तपरिशोधकः ॥ ९९॥ नवरत्नप्रकाशोक्तिचिन्तासन्ताननाशकः । न्यासादेशीयविवृतिधर्मत्यागोक्तिचिन्तकः ॥ १००॥ जीवन्मुक्तितारतम्यसिद्धान्तपरिशोधकः । गीतातात्पर्यसद्वक्ता गायत्र्यर्थप्रकाशकः ॥ १०१॥ मुख्यश्रीस्वामिनीकेलीश‍ृङ्गारोल्लासदर्शकः । स्वामिनीप्रार्थनास्तोत्रनानाभावविभावकः ॥ १०२॥ स्वामिन्यष्टकगूढोक्तिमार्गतत्त्वप्रकाशकः । प्रेमामृतरसास्वादाऽनुपानपरिदर्शकः ॥ १०३॥ उक्तान्यपूर्वश‍ृङ्गारदानलीलाप्रकाशकः । कुमारिकाऽनन्यसिद्धव्रतचर्यानिरूपकः ॥ १०४॥ तदेकरससर्वस्वनिभृतात्मा रसार्णवः । यमुनास्तोत्रविवृतिर्यशःशक्तिप्रकाशकः ॥ १०५॥ सकृष्णयमुनाभाववर्द्धिन्यष्टपदीप्रियः । चौरचर्यागुप्तरसाऽनन्दभावनिरूपकः ॥ १०६॥ रूपामृतैकचषकत्रिभङ्गललिताप्रियः । दशावताराष्टपदीश‍ृङ्गारार्थत्वदर्शकः ॥ १०७॥ श‍ृङ्गाररससन्दर्भाऽसङ्गतत्त्वनिरासकः । प्रबोधगद्यरचनाप्रत्यहश्रवणोत्सुकः ॥ १०८॥ मङ्गलाखिललीलाब्धिकृष्णगानरसप्रदः । प्रेङ्खपर्यङ्कशयनगीतनृत्यप्रियङ्करः ॥ १०९॥ सदारप्रेष्ठरतिकृत्प्रार्थनागीतभाववित् । असकृद्गोविन्ददासप्रभृत्यार्यसमन्वितः ॥ ११०॥ गोपीपरिवृढस्तोत्रव्रजाशीधरतिप्रदः । व्रजराजार्यतनयप्रीतिकृत्स्तोत्रकीर्तनः ॥ १११॥ गोकुलोत्कर्षबोधार्थगोकुलाष्टकदर्शकः । श्रीगोकुलसुखावासस्वकीयानन्दवर्द्धनः ॥ ११२॥ श्रीमन्नन्दालयक्रीडत्कृष्णलीलाप्रकाशकः । पुत्रपौत्रादिसौभाग्यसेवर्द्धिपरिदर्शकः ॥ ११३॥ श्रीकृष्णसेवाचातुर्यसीमासर्वशिरोमणिः । संसारसागरोत्तारनौकासत्कर्णधारकः ॥ ११४॥ शरणस्थानन्तजीवाऽपराधदलनक्षमः । कृष्णसेवाशिक्षणार्थं भक्तिमार्गप्रदर्शकः ॥ ११५॥ मर्यादामार्गविधिना गृहस्थाश्रममास्थितः । दारागारसुताप्तादिसर्वस्वात्मनिवेदकः ॥ ११६॥ वैदिकाचारनिपुणो दीक्षिताख्याप्रसिद्धिमान् । षड्गुणैश्वर्यसम्पत्तिराजमानः सतां पतिः ॥ ११७॥ विठ्ठलेशप्रभावज्ञः कृतकृत्यतमो हरिः । निवृत्तिधर्माभिरतो निजशिक्षापरायणः ॥ ११८॥ भगवद्भक्त्यनुगुणसन्न्यासाचारदर्शकः । अलौकिकमहातेजःपुञ्जरूपप्रकाशकः ॥ ११९॥ नित्यलीलाविहरणो नित्यरूपप्रकाशवान् । अदभ्रसौहार्दनिधिः सर्वोद्धारविचारकः ॥ १२०॥ शुकवाक्सिन्धुलहरीसारोद्धारविशारदः । श्रीभागवतपीयूषसमुद्रमथनक्षमः ॥ १२१॥ श्रीभागवतप्रत्यर्थमणिप्रवरभूषितः । अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनः । शरणस्थसमुद्धारः कृपालुस्तत्कथाप्रदः ॥ १२२॥ इति मथुरानिवासिगोस्वामि श्रीरमणलालजीमहाराजविरचितं श्रीवल्लभनामस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vallabhanAmastotram
% File name             : vallabhanAmastotram.itx
% itxtitle              : vallabhanAmastotram (ramaNalAlajIvirachitam)
% engtitle              : vallabhanAmastotram
% Category              : deities_misc, gurudev, puShTimArgIya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : ramaNalAlajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org