वन्देमातरम्
बङ्गक्षौण्यां रामचन्द्र द्विजाते-
र्धर्मक्षेत्रे लीलयैवावतीर्णाम् ।
सत्यज्ञानानन्दवात्सल्यमूर्तिं
नित्यं वन्दे मातरं शारदाख्याम् ॥ १॥
देहासवत्या क्लिश्यमानप्रपुंसां
सुप्तं बोधं सम्यगुन्मीलयन्तीम् ।
शोकं मोहं चाशु निर्मूलयन्तीं
भक्त्या वन्देमातरं शारदाख्याम् ॥ २॥
मायासिन्धौ मज्जतः प्राणिवर्गान्
प्रेमोदारेणात्मपादप्लवेन ।
उद्धृत्य द्रागस्य पारं नयन्तीं
मूर्ध्ना वन्देमातरं शारदाख्याम् ॥ ३॥
तच्छब्दार्थश्चण्डिकेति प्रसिद्ध-
श्छन्दोवासच्छादितो राजतीति ।
पश्यन्नार्चद् रामकृष्णोऽपि यां तां
दोर्भ्यां वन्देमातरं शारदाख्याम् ॥ ४॥
रम्भादीनां स्वर्वधूनामधीशां
राधादीनां मानुषीणामधीनाम् ।
आर्तत्राणैर्कार्पित स्वाखिलार्थां
भूयो वन्दे मातरं शारदाख्याम् ॥ ५॥
इति श्रीओट्टुरूउन्निनम्पूतिरिप्पादविरचितं ``वन्देमातरम्'' स्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan